संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्| अध्याय ८३ रेवा खण्डम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ विषयानुक्रमणिका विषयानुक्रमणिका रेवा खण्डम् - अध्याय ८३ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ८३ Translation - भाषांतर श्रीमार्कण्डेय उवाच -ततो गच्छेन्महाराज तीर्थं परमशोभनम् ।ब्रह्महत्याहरं प्रोक्तं रेवातटसमाश्रयम् ।हनूमताभिधं ह्यत्र विद्यते लिङ्गमुत्तमम् ॥१॥युधिष्ठिर उवाच -हनूमन्तेश्वरं नाम कथं जातं वदस्व मे ।ब्रह्महत्याहरं तीर्थं रेवादक्षिणसंस्थितम् ॥२॥श्रीमार्कण्डेय उवाच -साधु साधु महाबाहो सोमवंशविभूषण ।गुह्याद्गुह्यतरं तीर्थं नाख्यातं कस्यचिन्मया ॥३॥तव स्नेहात्प्रवक्ष्यामि पीडितो वार्द्धकेन तु ।पूर्वं जातं महद्युद्धं रामरावणयोरपि ॥४॥पुलस्त्यो ब्रह्मणः पुत्रो विश्रवास्तस्य वै सुतः ।रावणस्तेन संजातो दशास्यो ब्रह्मराक्षसः ॥५॥त्रैलोक्यविजयी भूतः प्रसादाच्छूलिनः स च ।गीर्वाणा विजिताः सर्वे रामस्य गृहिणी हृता ॥६॥वारितः कुम्भकर्णेन सीतां मोचय मोचय ।विभीषणेन वै पापो मन्दोदर्या पुनःपुनः ॥७॥त्वं जितः कार्तवीर्येण रैणुकेयेन सोऽपि च ।स रामो रामभद्रेण तस्य संख्ये कथं जयः ॥८॥रावण उवाच -वानरैश्च नरैरृक्षैर्वराहैश्च निरायुधैः ।देवासुरसमूहैश्च न जितोऽहं कदाचन ॥९॥श्रीमार्कण्डेय उवाच -सुग्रीवहनुमद्भ्यां च कुमुदेनाङ्गदेन च ।एतैरन्यैः सहायैश्च रामचन्द्रेण वै जितः ॥१०॥रामचन्द्रेण पौलस्त्यो हतः संख्ये महाबलः ।वनं भग्नं हताः शूराः प्रभञ्जनसुतेन च ॥११॥रावणस्य सुतो जन्ये हतश्चाक्षकुमारकः ।आयामो रक्षसां भीमः सम्पिष्टो वानरेण तु ॥१२॥एवं रामायणे वृत्ते सीतामोक्षे कृते सति ।अयोध्यां तु गते रामे हनुमान्स महाकपिः ॥१३॥कैलासाख्यं गतः शैलं प्रणामाय महेशितुः ।तिष्ठ तिष्ठेत्यसौ प्रोक्तो नन्दिना वानरोत्तमः ॥१४॥ब्रह्महत्यायुतस्त्वं हि राक्षसानां वधेन हि ।भैरवस्य सभा नूनं न द्रष्टव्या त्वया कपे ॥१५॥हनुमानुवाच -नन्दिनाथ हरं पृच्छ पातकस्योपशान्तिदम् ।पापोऽहं प्लवगो यस्मात्संजातः कारणान्तरात् ॥१६॥नन्द्युवाच -रुद्रदेहोद्भवा किं ते न श्रुता भूतले स्थिता ।श्रवणाज्जन्मजनितं द्विगुणं कीर्तनाद्व्रजेत् ॥१७॥त्रिंशज्जन्मार्जितं पापं नश्येद्रेवावगाहनात् ।तस्मात्त्वं नर्मदातीरं गत्वा चर तपो महत् ॥१८॥गन्धर्वाहसुतोऽप्येवं नन्दिनोक्तं निशम्य च ।प्रयातो नर्मदातीरमौर्व्यादक्षिणसङ्गमम् ॥१९॥दध्यौ सुदक्षिणे देवं विरूपाक्षं त्रिशूलिनम् ।जटामुकुटसंयुक्तं व्यालयज्ञोपवीतिनम् ॥२०॥भस्मोपचितसर्वाङ्गं डमरुस्वरनादितम् ।उमार्द्धाङ्गहरं शान्तं गोनाथासनसंस्थितम् ॥२१॥वत्सरान् सुबहून् यावदुपासांचक्र ईश्वरम् ।तावत्तुष्टो महादेव आजगाम सहोमया ॥२२॥उवाच मधुरां वाणीं मेघगम्भीरनिस्वनाम् ।साधु साध्वित्युवाचेशः कष्टं वत्स त्वया कृतम् ॥२३॥न च पूर्वं त्वया पापं कृतं रावणसंक्षये ।स्वामिकार्यरतस्त्वं हि सिद्धोऽसि मम दर्शनात् ॥२४॥हनुमांश्च हरं दृष्ट्वा उमार्द्धाङ्गहरं स्थिरम् ।साष्टाङ्गं प्रणतोऽवोचज्जय शम्भो नमोऽस्तु ते ।जयान्धकविनाशाय जय गङ्गाशिरोधर ॥२५॥एवं स्तुतो महादेवो वरदो वाक्यमब्रवीत् ।वरं प्रार्थय मे वत्स प्राणसम्भवसम्भव ॥२६॥श्रीहनुमानुवाच -ब्रह्मरक्षोवधाज्जाता मम हत्या महेश्वर ।न पापोऽहं भवेदेव युष्मत्सम्भाषणे क्षणात् ॥२७॥ईश्वर उवाच -नर्मदातीर्थमाहात्म्याद्धर्मयोगप्रभावतः ।मन्मूर्तिदर्शनात्पुत्र निष्पापोऽसि न संशयः ॥२८॥अन्यं च ते प्रयच्छामि वरं वानरपुंगव ।उपकाराय लोकानां नामानि तव मारुते ॥२९॥हनूमानं जनिसुतो वायुपुत्रो महाबलः ।रामेष्टः फाल्गुनो गोत्रः पिङ्गाक्षोऽमितविक्रमः ॥३०॥उदधिक्रमणश्रेष्ठो दशग्रीवस्य दर्पहा ।लक्ष्मणप्राणदाता च सीताशोकनिवर्तनः ॥३१॥इत्युक्त्वान्तर्दधे देव उमया सह शङ्करः ।हनूमानीश्वरं तत्र स्थापयामास भक्तितः ॥३२॥आत्मयोगबलेनैव ब्रह्मचर्यप्रभावतः ।ईश्वरस्य प्रसादेन लिङ्गं कामप्रदं हि तत् ।अच्छेद्यमप्रतर्क्यं च विनाशोत्पत्तिवर्जितम् ॥३३॥श्रीमार्कण्डेय उवाच -हनूमन्तेश्वरे पुत्र प्रत्यक्षप्रत्ययं शृणु ।यद्वृत्तं द्वापरस्यादौ त्रेतान्ते पाण्डुनन्दन ॥३४॥सुपर्वा नाम भूपालो बभूव वसुधातले ।तस्य राज्ञः सदा सौख्यं नरा दीर्घायुषः सदा ॥३५॥स पुत्रधनसंयुक्तश्चौरोपद्रववर्जितः ।शतबाहुर्बभूवास्य पुत्रो भीमपराक्रमः ॥३६॥आसक्तोऽसौ सदा कालं पापधर्मैर्नरेश्वर ।अटाट्यत धरां सर्वां पर्वतांश्च वनानि च ॥३७॥वधार्थं मृगयूथानामागतो विन्ध्यपर्वतम् ।तरुजातिसमाकीर्णे हस्तियूथसमाचिते ॥३८॥सिंहचित्रकशोभाढ्ये मृगवाराहसंकुले ।क्रीडित्वा स वने राजा नर्मदामानतः क्वचित् ॥३९॥हनूमन्तवने प्राप्तः शतक्रोशप्रमाणके ।चिञ्चिणीवनशोभाढ्ये कदम्बतरुसंकुले ॥४०॥नित्यं पालाशजम्बीरैः करंजखदिरैस्तथा ।पाटलैर्बदरैर्युक्तैः शमीतिन्दुकशोभितम् ॥४१॥मृगयूथैः समाछन्नशिखण्डिस्वरनादितम् ।पारावतकसङ्घानां समन्तात्स्वरशोभितम् ॥४२॥शरत्कालेऽरमद्राजा बहुले चाश्विनस्य सः ।वनमध्यं गतोऽद्राक्षीद्भ्रमन्तं पिङ्गलद्विजम् ॥४३॥पुस्तिकाकरसंस्थं च पप्रच्छ चपलं द्विजम् ॥४४॥शतबाहुरुवाच -एकाकी त्वं वने कस्माद्भ्रमसे पुस्तिकाकरः ।इतस्ततोऽपि सम्पश्यन् कथयस्व द्विजोत्तम ॥४५॥ब्राह्मण उवाच -कान्यकुब्जात्समायातः प्रेषितो राजकन्यया ।अस्थिक्षेपाय वै राजन्हनूमन्तेश्वरे जले ॥४६॥राजोवाच -अस्थिक्षेपो जले कस्माद्धनूमन्तेश्वरे द्विज ।क्रियते केन कार्येण साश्चर्यं कथ्यतां मम ॥४७॥सुपर्वणः सुतो यानं त्यक्त्वा भूमौ प्रणम्य च ।कृताञ्जलिपुटो भूत्वा ब्राह्मणाय नरेश्वर ।समस्तं कथयामास वृत्तान्तं स्वं पुरातनम् ॥४८॥ब्राह्मण उवाच -शिखण्डी नाम राजास्ति कन्यकुब्जे प्रतापवान् ।अपुत्रोऽसौ महीपालः कन्या जाता मनोरथैः ॥४९॥जातिस्मरा सुचार्वङ्गी नर्मदायाः प्रभावतः ।पित्रा च सैकदा कन्या विवाहाय प्रजल्पिता ॥५०॥अनित्ये पुत्रि संसारे कन्यादानं ददाम्यहम् ।श्वःकृत्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम् ।न हि प्रतीक्षते मृत्युः कृतं चास्य न चाकृतम् ॥५१॥कन्योवाच -इच्छेयं यत्र काले हि तत्र देया त्वया पितुः ।पुत्रीवाक्यादसौ राजा विस्मितो वाक्यमब्रवीत् ॥५२॥शिखण्ड्युवाच -कथ्यतां मे महाभागे साश्चर्यं भाषितं त्वया ।पितुर्वाक्येन सा बालोत्तमा ह्यागतान्तिकम् ॥५३॥कथयामास यद्वृत्तं हनूमन्तेश्वरे नृप ।कलापिनी ह्यहं तात युता भर्त्रावसं तदा ॥५४॥रेवौर्व्यासङ्गमन्तिस्था रेवाया दक्षिणे तटे ।हनूमन्तवने पुण्ये चिक्रीडाहं यदृच्छया ॥५५॥भर्तृयुक्ता च संसुप्ता रजन्यां सरले नगे ।आगता लुब्धकास्तत्र क्षुधार्ता वनमुत्तमम् ॥५६॥भर्तृयोगयुता पापैर्दृष्टाहं वधचिन्तकैः ।पाशबन्धं समादाय बद्धाहं स्वामिना सह ॥५७॥ग्रीवां ते मोटयामासुः पिच्छाछोटनकं कृतम् ।हुताशनमुखे तैस्तु सह कान्तेन लुब्धकैः ॥५८॥परिभर्ज्यावयोर्मांसं भक्षयित्वा यथेष्टतः ।सुप्ताः स्वस्थेन्द्रिया रात्रौ सा गता शर्वरी क्षयम् ॥५९॥प्रभाते मांसशेषं च जम्बुकैर्गृध्रघातिभिः ।मच्छरीरोद्भवं चास्थि स्नायुमांसेन चावृतम् ॥६०॥गृहीतं घातिनैकेन चाकाशात्पतितं तदा ।तं मांसभक्षणं दृष्ट्वा परे पक्षिण आगताः ॥६१॥दृष्ट्वा पक्षिसमूहं तु अस्थिखण्डं व्यसर्जयत् ।विहगानां समस्तानां धावतां चैव पश्यताम् ॥६२॥पतितं नर्मदातोये हनूमन्तेश्वरे नृप ।मदीयमस्थिखण्डं च पतितं नर्मदाजले ॥६३॥तस्य तीर्थस्य पुण्येन जाताहं पुत्रिका तव ।भूपकन्या त्वहं जाता पूर्णचन्द्रनिभानना ॥६४॥जातिस्मरा नरेन्द्रस्य संजाता भवतः कुले ।तस्माद्विवाहं नेच्छामि मम भर्ता नृपोत्तम ॥६५॥विषमे वर्ततेऽद्यापि शकुन्तमृगजातिषु ।तस्यास्थिशेषं राजेन्द्र तस्मिंस्तीर्थे भविष्यति ॥६६॥तत्क्षेपणार्थं वै तात प्रेषयाद्य द्विजोत्तमम् ।एतत्ते सर्वमाख्यातं कारणं नृपसत्तम ॥६७॥मद्भर्ता विषमे स्थाने शकुन्तमृगजातिषु ।यदि प्रेषयसे तात कंचित्त्वं नर्मदातटे ॥६८॥तस्याहं कथयिष्यामि स्थानैश्चिह्नैश्च लक्षितम् ।शिखण्डिनाप्यहं तत्र ह्याहूतो ह्यवनीपते ॥६९॥दास्यामि विंशतिग्रामान्गच्छ त्वं नर्मदातटे ।प्रेषणं मे प्रतिज्ञातमलक्ष्म्या पीडितेन तु ॥७०॥कन्योवाच -गच्छ त्वं नर्मदां पुण्यां सर्वपापक्षयंकरीम् ।आग्नेय्यां सोमनाथस्य हनूमन्तेश्वरः परः ॥७१॥अर्धक्रोशेन रेवाया विस्तीर्णो वटपादपः ।करंजः कटहश्चैव सन्निधाने वटस्य च ॥७२॥न्यग्रोधमूलसांनिध्ये सूक्ष्मान्यस्थीनि द्रक्ष्यसि ।समूह्य तानि संगृह्य गच्छ रेवां द्विजोत्तम ॥७३॥आश्विनस्यासिते पक्षे त्रिपुरारिस्तु वै तिथौ ।स्नाप्य त्रिशूलिनं भक्त्या रात्रौ त्वं कुरु जागरम् ॥७४॥क्षिपेः प्रभाते तानि त्वं नाभिमात्रजलस्थितः ।इत्युच्चार्य द्विजश्रेष्ठ विमुक्तिस्तस्य जायताम् ॥७५॥क्षिप्त्वास्थीनि पुनः स्नानं कर्तव्यं त्वघनाशनम् ।एवं कृते तु राजेन्द्र गतिस्तस्य भविष्यति ॥७६॥कथितं कन्यया यच्च तत्सर्वं पुस्तिकाकृतम् ।आगतोऽहं नृपश्रेष्ठ तीर्थेऽत्र दुरितापहे ॥७७॥सोऽभिज्ञानं ततो दृष्ट्वा नीत्वास्थीनि नरेश्वर ।पूर्वोक्तेन विधानेन प्राक्षिपं नार्मदा मसिपुष्पवृष्टिःऽशु साधु साध्विति पाण्डव ।विमानं च ततो दिव्यमागतं बर्हिणस्तदा ॥७८॥दिव्यरूपधरो भूत्वा गतो नाके कलापवान् ।एवं तु प्रत्ययं दृष्ट्वा हनूमन्तेश्वरे नृप ॥७९॥चकारानशनं विप्रः शतबाहुश्च भूपतिः ।शोषयामासतुस्तौ स्वमीश्वराराधने रतौ ॥८०॥ध्यायन्तौ तस्थतुर्देवं शतबाहुद्विजोत्तमौ ।मासार्धेन मृतो राजा शतबाहुर्महामनाः ॥८१॥किङ्कणीजालशोभाढ्यं विमानं तत्र चागतम् ।साधु साधु नृपश्रेष्ठ विमानारोहणं कुरु ॥८२॥शतबाहुरुवाच -नायामि स्वर्गमार्गाग्रं विप्रो यावन्न संस्थितः ।उपदेशप्रदो मह्यं गुरुरूपी द्विजोत्तमः ॥८३॥अप्सरस ऊचुः ।लोभावृतो ह्ययं विप्रो लोभात्पापस्य संग्रहः ।हनूमन्तेश्वरे राजन्ये मृताः सत्त्वमास्थिताः ॥८४॥ते यान्ति शांकरे लोके सर्वपापक्षयंकरे ।नैव पापक्षयश्चास्य ब्राह्मणस्य नरेश्वर ॥८५॥गृहं च गृहिणी चित्ते ब्राह्मणस्य प्रवर्तते ।शतबाहुस्ततो विप्रमुवाच विनयान्वितः ॥८६॥त्यज मूलमनर्थस्य लोभमेनं द्विजोत्तम ।इत्युक्त्वा स्वर्ययौ राजा स्वर्गकन्यासमावृतः ॥८७॥दिनैः कैश्चिद्गतो विप्रः स्वर्गं वैतालिकैर्वृतः ।बर्ही च काशीराजस्य पुत्रस्तीर्थप्रभावतः ॥८८॥आत्मानं कन्यया दत्तं पूर्वजन्म व्यचिन्तयन् ।सा च तं प्रौढमालोक्य पितुराज्ञामवाप्य च ।स्वयंवरे स्वभर्तारं लेभे साध्वी नृपात्मजम् ॥८९॥श्रीमार्कण्डेय उवाच -एतद्वृत्तान्तमभवत्तस्मिंस्तीर्थे नृपोत्तम ।एतस्मात्कारणान्मेध्यं तीर्थमेतत्सदा नृप ॥९०॥अष्टम्यां वा चतुर्दश्यां सर्वकालं नरेश्वर ।विशेषाच्चाश्विने मासि कृष्णपक्षे चतुर्दशीम् ॥९१॥स्नापयेदीश्वरं भक्त्या क्षौद्रक्षीरेण सर्पिषा ।दध्ना च खण्डयुक्तेन कुशतोयेन वै पुनः ॥९२॥श्रीखण्डेन सुगन्धेन गुण्ठयेच्च महेश्वरम् ।ततः सुगन्धपुष्पैश्च बिल्वपत्रैश्च पूजयेत् ॥९३॥मुचकुन्देन कदेन जातीकाशकुशोद्भवैः ।उन्मत्तमुनिपुष्पौघैः पुष्पैस्तत्कालसम्भवैः ॥९४॥अर्चयेत्परया भक्त्या हनूमन्तेश्वरं शिवम् ।घृतेन दापयेद्दीपं तैलेन तदभावतः ॥९५॥श्राद्धं च कारयेत्तत्र ब्राह्मणैर्वेदपारगैः ।सर्वलक्षणसम्पूर्णैः कुलीनैर्गृहपालकैः ॥९६॥तर्पयेद्ब्राह्मणान् भक्त्या वसनान्नहिरण्यतः ।नरकस्था दिवं यान्तु प्रोच्येति प्रणमेद्द्विजान् ॥९७॥पतितान् वर्जयेद्विप्रान् वृषली यस्य गेहिनी ।स्ववृषं चापरित्यज्य वृषैरन्यैर्वृषायते ॥९८॥वृषलीं तां विदुर्देवा न शूद्री वृषली भवेत् ।ब्रह्महत्या सुरापानं गुरुदारनिषेवणम् ॥९९॥सुवर्णहरणन्यासमित्रद्रोहोद्भवं तथा ।नश्यते पातकं सर्वमित्येवं शङ्करोऽब्रवीत् ॥१००॥श्रीमार्कण्डेय उवाच -वाक्प्रलापेन भो वत्स बहुनोक्तेन किं मया ।सर्वपातकसंयुक्तो दद्याद्दानं द्विजन्मने ॥१०१॥गोदानं च प्रकर्तव्यमस्मिंस्तीर्थे विशेषतः ।गोदानं हि यतः पार्थ सर्वदानाधिकं स्मृतम् ॥१०२॥सर्वदेवमया गावः सर्वे देवास्तदात्मकाः ।शृङ्गाग्रेषु महीपाल शक्रो वसति नित्यशः ॥१०३॥उरः स्कन्दः शिरो ब्रह्मा ललाटे वृषभध्वजः ।चन्द्रार्कौ लोचने देवौ जिह्वायां च सरस्वती ॥१०४॥मरुद्गणाः सदा साध्या यस्या दन्ता नरेश्वर ।हुङ्कारे चतुरो वेदान् विद्यात्साङ्गपदक्रमान् ॥१०५॥ऋषयो रोमकूपेषु ह्यसंख्यातास्तपस्विनः ।दण्डहस्तो महाकायः कृष्णो महिषवाहनः ॥१०६॥यमः पृष्ठस्थितो नित्यं शुभाशुभपरीक्षकः ।चत्वारः सागराः पुण्याः क्षीरधाराः स्तनेषु च ॥१०७॥विष्णुपादोद्भवा गङ्गा दर्शनात्पापनाशनी ।प्रस्रावे संस्थिता यस्मात्तस्माद्वन्द्या सदा बुधैः ॥१०८॥लक्ष्मीश्च गोमये नित्यं पवित्रा सर्वमङ्गला ।गोमयालेपनं तस्मात्कर्तव्यं पाण्डुनन्दन ॥१०९॥गन्धर्वाप्सरसो नागाः खुराग्रेषु व्यवस्थिताः ।पृथिव्यां सागरान्तायां यानि तीर्थानि भारत ।तानि सर्वाणि जानीयाद्गौर्गव्यं तेन पावनम् ॥११०॥युधिष्ठिर उवाच -सर्वदेवमयी धेनुर्गीर्वाणाद्यैरलंकृता ।एतत्कथय मे तात कस्माद्गोषु समाश्रिताः ॥१११॥श्रीमार्कण्डेय उवाच -सर्वदेवमयो विष्णुर्गावो विष्णुशरीरजाः ।देवास्तदुभयात्तस्मात्कल्पिता विविधा जनैः ॥११२॥श्वेता वा कपिला वापि क्षीरिणी पाण्डुनन्दन ।सवत्सा च सुशीला च सितवस्त्रावगुण्ठिता ॥११३॥कांस्यदोहनिका देया स्वर्णशृङ्गी सुभूषिता ।हनूमन्तेश्वरस्याग्रे भक्त्या विप्राय दापयेत् ॥११४॥नियमस्थेन सा देया स्वर्गमानन्त्यमिच्छता ।असमर्थाय ये दद्युर्विष्णुलोके प्रयान्ति ते ॥११५॥असौ लोके च्युतो राजन्भूतले द्विजमन्दिरे ।कुशलो जायते पुत्रो गुणविद्याधनर्द्धिमान् ॥११६॥सर्वपापहरं तीर्थं हनूमन्तेश्वरं नृप ।शृण्वन्विमुच्यते पापाद्वर्णसंकरसंभवात् ॥११७॥दूरस्थश्चिन्तयन् पश्यन्मुच्यते नात्र संशयः ॥११८॥॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे हनूमन्तेश्वरतीर्थमाहात्म्यवर्णनं नाम त्र्यशीतितमोऽध्यायः ॥ N/A References : N/A Last Updated : December 12, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP