रेवा खण्डम् - अध्याय १३४
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
श्रीमार्कण्डेय उवाच -
नर्मदादक्षिणे कूले रामेश्वरमनुत्तमम् ।
तीर्थं पापहरं पुण्यं सर्वदुःखघ्नमुत्तमम् ॥१॥
तत्र तीर्थे तु ये स्नात्वा पूजयन्ति महेश्वरम् ।
महादेवं महात्मानं मुच्यन्ते सर्वकिल्बिषैः ॥२॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे रामेश्वरतीर्थमाहात्म्यवर्णनं नाम चतुस्त्रिंशदधिकशततमोऽध्यायः ॥
N/A
References : N/A
Last Updated : December 15, 2024
TOP