संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्|
अध्याय १३९

रेवा खण्डम् - अध्याय १३९

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महाराज सोमतीर्थमनुत्तमम् ।
यत्र सोमस्तपस्तप्त्वा नक्षत्रपथमास्थितः ॥१॥
तत्र तीर्थे तु यः स्नायादाचम्य विधिपूर्वकम् ।
कृतजाप्यो रविं ध्यायेत्तस्य पुण्यफलं शृणु ॥२॥
ऋग्वेदयजुर्वेदाभ्यां सामवेदेन भारत ।
जपतो यत्फलं प्रोक्तं गायत्र्या चात्र तत्फलम् ॥३॥
तत्र तीर्थे तु यो भक्त्या ब्राह्मणान् भोजयेच्छुचिः ।
तेन सम्यग्विधानेन कोटिर्भवति भोजिता ॥४॥
पादुकोपानहौ छत्रं वस्त्रकम्बलवाजिनः ।
यो दत्ते विप्रमुख्याय तस्य तत्कोटिसंमितम् ॥५॥
सहस्रं तु सहस्राणामनृचां यस्तु भोजयेत् ।
एकस्य मन्त्रयुक्तस्य कलां नार्हति षोडशीम् ॥६॥
एवं तु भोजयेत्तत्र बह्वृचं वेदपारगम् ।
शाखान्तर्गमथाध्वर्युं छन्दोगं वा समाप्तिगम् ॥७॥
अग्निहोत्रसहस्रस्य यत्फलं प्राप्यते बुधैः ।
समं तद्वेदविदुषा तीर्थे सोमस्य तत्फलम् ॥८॥
भोजयेद्यः शतं तेषां सहस्रं लभते नरः ।
एकस्य योगयुक्तस्य तत्फलं कवयो विदुः ॥९॥
संनिरुध्येन्द्रियग्रामं यत्रयत्र वसेन्मुनिः ।
तत्रतत्र कुरुक्षेत्रं नैमिषं पुष्कराणि च ॥१०॥
तस्मात्सर्वप्रयत्नेन ग्रहणे चन्द्रसूर्ययोः ।
संक्रान्तौ च व्यतीपाते योगी भोज्यो विशेषतः ॥११॥
संन्यासं कुरुते यस्तु तत्र तीर्थे युधिष्ठिर ।
विमानेन महाभागाः स याति त्रिदिवं नरः ॥१२॥
सोमस्यानुचरो भूत्वा तेनैव सह मोदते ॥१३॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सोमतीर्थमाहात्म्यवर्णनं नामैकोनचत्वारिंशदधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : December 15, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP