संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्| अध्याय ११ रेवा खण्डम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ विषयानुक्रमणिका विषयानुक्रमणिका रेवा खण्डम् - अध्याय ११ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ११ Translation - भाषांतर युधिष्ठिर उवाच -अहो महत्पुण्यतमा विशिष्टा क्षयं न याता इह या युगान्ते ।तस्मात्सदा सेव्यतमा मुनीन्द्रैर्ध्यानार्चनस्नानपरायणैश्च ॥१॥यामाश्रित्य गता मोक्षमृषयो धर्मवत्सलाः ।ये त्वयोक्तास्तु नियमा ऋषीणां वेदनिर्मिताः ॥२॥मोक्षावाप्तिर्भवेद्येषां नियमैश्च पृथग्विधैः ।दशद्वादशभिर्वापि षड्भिरष्टाभिरेव वा ॥३॥त्रिभिस्तथा चतुर्भिर्वा वर्षैर्मासैस्तथैव च ।मुच्यन्ते कलिदोषैस्ते देवेशानसमर्चनात् ॥४॥ब्रह्माणं वा सुरश्रेष्ठ केशवं वा जगद्गुरुम् ।अर्चयन्पापमखिलं जहात्येव न संशयः ॥५॥एतद्विस्तरतः सर्वं कथयस्व ममानघ ।यस्मिन्संसारगहने निमग्नाः सर्वजन्तवः ।ते कथं त्रिदिवं प्राप्ता इति मे संशयो वद ॥६॥श्रीमार्कण्डेय उवाच -जन्मान्तरैरनेकैस्तु मानुष्यमुपलभ्यते ।भक्तिरुत्पद्यते चात्र कथंचिदपि शङ्करे ॥७॥तीर्थदानोपवासानां यज्ञैर्देवद्विजार्चनैः ।अवाप्तिर्जायते पुंसां श्रद्धया परया नृप ॥८॥तस्माच्छ्रद्धा प्रकर्तव्या मानवैर्धर्मवत्सलैः ।ईशोऽपि श्रद्धया साध्यस्तेन श्रद्धा विशिष्यते ॥९॥अन्यथा निष्फलं सर्वं श्रद्धाहीनं तु भारत ।तस्मात्समाश्रयेद्भक्तिं रुद्रस्य परमेष्ठिनः ॥१०॥तेषांहि सफलं जन्म येषां भक्तिरचञ्चला ।सा चैव त्रिविधा भक्तिः सात्त्विकी राजसी तथा ॥११॥तामसी सर्वलोकस्य त्रिविधं च फलं लभेत् ।ते कर्मफलसंयोगादावर्तन्ते पुनःपुनः ॥१२॥जन्मान्तरशतैस्तेषां ज्ञानिनां देवयाजिनाम् ।देवत्रये भवेद्भक्तिः क्षयात्पापस्य कर्मणः ॥१३॥ईशानात्तु पुनर्मोक्षो जायते छिन्नसंशयः ।ये पुनर्नर्मदातीरमाश्रित्य द्विजपुंगवाः ॥१४॥त्रयीमार्गमसन्दिग्धास्ते यान्ति परमां गतिम् ।एकाग्रमनसो ये तु शङ्करं शिवमव्ययम् ॥१५॥अर्चयन्तीह निरताः क्षिप्रं सिध्यन्ति ते जनाः ।कालेन महता सिद्धिर्जायतेऽन्यत्र देहिनाम् ॥१६॥नर्मदायाः पुनस्तीरे क्षिप्रं सिद्धिरवाप्यते ।षड्भिर्वर्षैस्तु सिध्यन्ति ये तु सांख्यविदो जनाः ॥१७॥वैष्णवा ज्ञानसम्पन्नास्तेऽपि सिध्यन्ति चाग्रतः ।सर्वयोगविदो ये च समुद्रमिव सिन्धवः ॥१८॥एकीभवन्ति कल्पान्ते योगे माहेश्वरे गताः ।सर्वेषामेव योगानां योगो माहेश्वरो वरः ॥१९॥तमासाद्य विमुच्यन्ते येऽपि स्युः पापयोनयः ।शिवमर्च्य नदीकूले जायन्ते ते न योनिषु ॥२०॥गतिरेषा दुरारोहा सर्वपापक्षयंकरी ।मुच्यन्ते मङ्क्षु संसाराद्रेवामाश्रित्य जन्तवः ॥२१॥तस्मात्स्नायी भवेन्नित्यं तथा भस्मविलेपनः ।नर्मदातीरमासाद्य क्षिप्रं सिद्धिमवाप्नुयात् ॥२२॥त्रिकालं पूजयेच्छान्तो यो नरो लिङ्गमादरात् ।सर्वरोगविनिर्मुक्तः स याति परमां गतिम् ॥२३॥षड्भिः सिध्यति मसैस्तु यद्यपि स्यात्स पापकृत् ।ये पुनः शुद्धमनसो मासैः शुध्यन्ति ते त्रिभिः ॥२४॥यथा दिनकरस्पृष्टं हिमं शैलाद्विशीर्यन्ते ।तद्वद्विलीयते पापं स्पृष्टं भस्मकणैः शुभैः ॥२५॥वैनतेयभयत्रस्ता यथा नश्यन्ति पन्नगाः ।तद्वत्पापानि नश्यन्ति भस्मनाभ्युक्षितानि ह ॥२६॥नर्मदातोयपूतेन भस्मनोद्धूलयन्ति ये ।सद्यस्ते पापसङ्घाच्च मुच्यन्ते नात्र संशयः ॥२७॥व्रतं पाशुपतं भक्तया यथोक्तं पालयन्ति ये ।शूद्रान्नेन विहीनास्तु ते यान्ति परमां गतिम् ॥२८॥अमृतं ब्राह्मणस्यान्नं क्षत्रियान्नं पयः स्मृतम् ।वैश्यान्नमन्नमेव स्याच्छूद्रान्नं रुधिरं स्मृतम् ॥२९॥शूद्रान्नरससंपुष्टा ये म्रियन्ते द्विजोत्तमाः ।ते तपोज्ञानहीनास्तु काका गृध्रा भवन्ति ते ॥३०॥दुष्कृतं हि मनुष्याणामन्नमाश्रित्य तिष्ठति ।यो यस्यान्नं समश्नाति स तस्याश्नाति किल्बिषम् ॥३१॥विशेषाद्यतिधर्मेण तपोलौल्यं समाश्रिताः ।नरकं यान्त्यसन्दिग्धमित्येवं शङ्करोऽब्रवीत् ॥३२॥ईदृग्रूपाश्च ये विप्राः पाशुपत्ये व्यवस्थिताः ।ते महत्पापसंघातं दहन्त्येव न संशयः ॥३३॥विडम्बेन च संयुक्ता लौलुप्येन च पीडिताः ।असंग्राह्या इत्येवं श्रुतिनोदना ॥३४॥मातापितृकृतैर्दोषैरन्ये केचित्स्वकर्मजैः ।नष्टा ज्ञानावलेपेन अहङ्कारेणऽपरे ॥३५॥शाङ्करे प्रस्थिता धर्मे ये स्मृत्यर्थबहिष्कृताः ।क्लिश्यमानास्तु कलेन ते यान्ति परमां गतिम् ॥३६॥अश्रद्दधानाः पुरुषा मूर्खा दम्भविवर्धिताः ।न सिध्यन्ति दुरात्मानः कुदृष्टान्तार्थकीर्तनाः ॥३७॥महाभाग्येऽपि तीर्थस्य शाङ्करं व्रतमास्थिताः ।वियोनिं यान्त्यसन्दिग्धं लौलुप्येन समन्विताः ॥३८॥न तीर्थैर्न च दानैश्च दुष्कृतं हि विलुप्यते ।अज्ञानाच्च प्रमादाच्च कृतं पापं विनश्यति ॥३९॥एवं ज्ञात्वा तु विधिना वर्तितव्यं द्विजातिभिः ।परं ब्रह्म जपद्भिश्च वार्तितव्यं मुहुर्मुहुः ॥४०॥ऊर्ध्वरूपं विरूपाक्षं योऽधीते रुद्रमेव च ।ईशानं पश्यते साक्षात्षण्मासात्सङ्गवर्जितः ॥४१॥संहिताया दशावृत्तीर्यः करोति सुसंयतः ।नर्मदातटमाश्रित्य स मुच्येत्सर्वपातकैः ॥४२॥पुराणसंहितां वापि शैवीं वा वैष्णवीमपि ।यः पठेन्नर्मदातीरे शिवाग्रे स शिवात्मकः ॥४३॥आ भूतसंक्षयं यावत्स्वर्गलोके महीयते ।संसाख्यसनं हातुं पुरा प्रोक्तं तु नन्दिना ॥४४॥देवर्षिसिद्धगन्धर्वसमवाये शिवालये ।नन्दिगीतामिमां राजञ्छृणुष्वैकमनाः शुभाम् ॥४५॥स्वर्गमोक्षप्रदां पुण्यां संसारभयनाशिनीम् ॥४६॥संसारगह्वरगुहां प्रविहातुमेतां चेदिच्छथ प्रतिपदं भवतापखिन्नाः ।नानाविधैर्निजकृतैर्बहुकर्मपाशैर्बद्धाः सुखाय शृणुतैकहितं मयोक्तम् ॥४७॥शक्र वक्रगतिं मा गा मा कृथा यम यातनाम् ।चेतः प्रचेतः शमय लौलुप्यं त्यज वित्तप ॥४८॥दीनानाथविशिष्टेभ्यो धनं सर्वं परित्यज ।यदि संसारजलधेर्वीचीप्रेङ्खोल्लनातुरः ॥४९॥जन्मोद्विग्नं मृतेस्त्रस्तं ग्रस्तं कामादिभिर्नरम् ।स्रस्तं यो न यमादिभ्यः पिनाकी पाति पावनः ॥५०॥मा धेहि गर्वं कीनाश हास्यं यास्यसि पीडयन् ।प्राणिनं सर्वशरणं तद्भावि शरणं तव ॥५१॥कालः करालको बालः को मृत्युः को यमाधमः ।शिवविष्णुपराणां हि नराणां किं भयं भवेत् ॥५२॥भवभारार्तजन्तूनां रेवातीरनिवासिनाम् ।भर्गश्च भगवांश्चैव भवभीतिविभेदनौ ॥५३॥शिवं भज शिवं ध्याय शिवं स्तुहि शिवं यज ।शिवं नम वराक त्वं ज्ञानं मोक्षं यदीच्छसि ॥५४॥पठ पञ्चाननं शास्त्रं मन्त्रं पञ्चाक्षरं जप ।धेहि पञ्चात्मकं तत्त्वं यज पञ्चाननं परम् ॥५५॥किं तैः कर्मगणैः शोच्यैर्नानाभावविशेषितैः ।यदि पञ्चाननः श्रीमान् सेव्यते सर्वथा शिवः ॥५६॥किं संसारगजोन्मत्तबृंहितैर्निभृतैरपि ।यदि पञ्चाननो देवो भावगन्धोपसेवितः ॥५७॥रे मूढ किं विषादेन प्राप्य कर्मकदर्थनाम् ।भवानीवल्लभं भीमं जप त्वं भयनाशनम् ॥५८॥नर्मदातीरनिलयं दुःखौघविलयंकरम् ।स्वर्गमोक्षप्रदं भर्गं भज मूढ सुरेश्वरम् ॥५९॥विहाय रेवां सुरसिन्धुसेव्यां तत्तीरसंस्थं च हरं हरिं च ।उन्मत्तवद्भावविवर्जितस्त्वं क्व यासि रे मूढ दिगन्तराणि ॥६०॥भज रेवाजलं पुण्यं यज रुद्रं सनातनम् ।जप पञ्चाक्षरीं विद्यां व्रज स्थानं च वाञ्छितम् ॥६१॥क्लेशयित्वा निजं कायमुपायैर्बहुभिस्तु किम् ।भज रेवां शिवं प्राप्य सुखसाध्यं परं पदम् ॥६२॥एवं कैलासमासाद्य नदीं स शिवसन्निधौ ।जगौ यल्लोकपालानां तन्मयोक्तं तवाधुना ॥६३॥मार्कण्डेय उवाच -स्नानदानपरो यस्तु नित्यं धर्ममनुव्रतः ।नर्मदातीरमाश्रित्य मुच्यते सर्वपातकैः ॥६४॥विधिहीनो जपेन्नित्यं वेदान्सर्वाञ्छतं समाः ।मृत्युलाङ्गलजाप्येन समो योऽप्यधिको गुणैः ॥६५॥बीजयोन्यविशुद्धस्तु यथा रुद्रं न विन्दति ।तथा लाङ्गलमन्त्रोऽपि न तिष्ठति गतायुषि ॥६६॥गायत्रीजपसंयुक्तः संयमी ह्यधिको गुणैः ।अग्निमीडे इषेत्वो वा अग्न आयाहि नित्यदा ॥६७॥शन्नो देवीति कूलस्थो जपेन्मुच्येत किल्बिषैः ॥६८॥साङ्गोपाङ्गांस्तथा वेदाञ्जपन्नित्यं समाहितः ।न तत्फलमवाप्नोति गायत्र्या संयमी यथा ॥६९॥रुद्राध्यायं सकृज्जप्त्वा विप्रो वेदसमन्वितः ।मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥७०॥अन्यद्वै जप्यसंस्थानं सूक्तमारण्यकं तथा ।मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥७१॥यत्किंचित्क्रियते जाप्यं यच्च दानं प्रदीयते ।नर्मदाजलमाश्रित्य तत्सर्वं चाक्षयं भवेत् ॥७२॥एवंविधैर्व्रतैर्नित्यं नर्मदां ये समाश्रिताः ।ते मृता वैष्णवं यान्ति पदं वा शैवमव्ययम् ॥७३॥सत्यलोकं नराः केचित्सूर्यलोकं तथापरे ।अप्सरोगणसंवीता यावदाभूतसम्प्लवम् ॥७४॥एवं वै वर्तमानेऽस्मिंल्लोके तु नृपपुंगव ।ऋषीणां दशकोट्यस्तु कुरुक्षेत्रनिवासिनाम् ॥७५॥मया सह महाभाग नर्मदातटमाश्रिताः ।फलमूलकृताहारा अर्चयन्तः स्थिताः शिवम् ॥७६॥तच्च वर्षशतं दिव्यं कालसंख्यानुमानतः ।षड्विंशतिसहस्राणि तानि मानुषसंख्यया ॥७७॥ततस्तस्यामतीतायां सन्ध्यायां नृपसत्तम ।शेषं मानुष्यमेकं तु काले वर्षशतं स्थितम् ॥७८॥ततोऽभवदनावृष्टिर्लोकक्षयकरी तदा ।यया यातं जगत्सर्वं क्षयं भूयो हि दारुणम् ॥७९॥ये पूर्वमिह संसिद्धा ऋषयो वेदपारगाः ।तेषां प्रभावाद्भगवान् ववर्ष बलवृत्रहा ॥८०॥महती भूरिसलिला समन्ताद्वृष्टिराहिता ।ततो वृष्ट्या तु तेषां वै वर्तनं समजायत ॥८१॥पुनर्युगान्ते सम्प्राप्ते किंचिच्छेषे कलौ युगे ।निःशेषमभवत्सर्वं शुष्कं स्थावरजङ्गमम् ॥८२॥निर्वृक्षौषधगुल्मं च तृणवीरुद्विवर्जितम् ।अनावृष्टिहतं सर्वं भूमण्डलमभूद्भृशम् ॥८३॥ततस्ते ऋषयः सर्वे क्षुत्तृषार्ताः सहस्रशः ।युगस्वभावमाविष्टा हीनसत्त्वा अभवन्नृप ॥८४॥नष्टहोमस्वधाकारे युगान्ते समुपस्थिते ।किं कार्यं क्व नु यास्यामः कोऽस्माकं शरणं भवेत् ॥८५॥तानहं प्रत्युवाचेदं मा भैष्टेति पुनःपुनः ।ईदृग्विधा मया दृष्टा बहवः कालपर्ययाः ॥८६॥नर्मदातीरमाश्रित्य ते सर्वे गमिता मया ।एषा हि शरणं देवी सम्प्राप्ते हि युगक्षये ॥८७॥नान्या गतिरिहास्माकं विद्यते द्विजसत्तमाः ।जनित्री सर्वभूतानां विशेषेण द्विजोत्तमाः ॥८८॥पितामहा ये पितरो ये चान्ये प्रपितामहाः ।ते समस्ता गताः स्वर्गं समाश्रित्य महानदीम् ॥८९॥भृग्वाद्याः सप्त ये त्वासन्मम पूर्वपितामहाः ।धौमृणी च महाभागा मम भार्या शुचिस्मिता ।मनस्वती च या मता भार्गवोऽङ्गिरसस्तथा ॥९०॥पुलस्त्यः पुलहश्चैव वसिष्ठात्रेयकाश्यपाः ।तथान्ये च महाभागा नियमव्रतचारिणः ।अन्ये च शतसाहस्रा अत्र सिद्धिं समागताः ॥९१॥तस्मादियं महाभागा न मोक्तव्या कदाचन ।नान्या काचिन्नदी शक्ता लोकत्रयफलप्रदा ॥९२॥द्वन्द्वैरनेकैर्बहुभिः क्षुत्तृषाद्यैर्महाभयैः ।मुच्यन्ते ते नराः सद्यो नर्मदातीरवासिनः ॥९३॥तस्मात्सर्वप्रयत्नेन सेवितव्या सरिद्वरा ।वाञ्छद्भिः परमं श्रेय इह लोके परत्र च ॥९४॥॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे श्रीनर्मदामाहात्म्यवर्णनं नाम एकादशोऽध्यायः ॥ N/A References : N/A Last Updated : December 08, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP