रेवा खण्डम् - अध्याय १२४
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महीपाल नर्मदेश्वरमुत्तमम् ।
तत्र तीर्थे नरः स्नात्वा मुच्यते सर्वकिल्बिषैः ॥१॥
अग्निप्रवेशश्च जलेऽथवा मृत्युरनाशके ।
अनिवर्तिका गतिस्तस्य यथा मे शङ्करोऽब्रवीत् ॥२॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदेश्वरतीर्थमाहात्म्यवर्णनं नाम चतुर्विंशत्युत्तरशततमोऽध्यायः ॥
N/A
References : N/A
Last Updated : December 15, 2024
TOP