संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्|
अध्याय १७७

रेवा खण्डम् - अध्याय १७७

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


श्रीमार्कण्डेय उवाच -
भूतीश्वरं ततो गच्छेत्सर्वतीर्थेष्वनुत्तमम् ।
दर्शनादेव राजेन्द्र यस्य पापं प्रणश्यति ॥१॥
तत्र स्थाने पुरा पार्थ देवदेवेन शूलिना ।
उद्धूलनं कृतं गात्रे तेन भूतीश्वरं तु तत् ॥२॥
पुष्ये वा जन्मनक्षत्रे अमावास्यां विशेषतः ।
भूतीश्वरे नरः स्नात्वा कुलकोटिं समुद्धरेत् ॥३॥
तत्र स्थाने तु यो भक्त्या कुरुते ह्यङ्गगुण्ठनम् ।
तस्य यत्फलमुद्दिष्टं तच्छृणुष्व नराधिप ॥४॥
यावन्तो भूतिकणिका गात्रे लग्नाः शिवालये ।
तावद्वर्षसहस्राणि शिवलोके महीयते ॥५॥
सर्वेषामेव स्नानानां भस्मस्नानं परं स्मृतम् ।
पुराणैरृषिभिः प्रोक्तं सर्वशास्त्रेष्वनुत्तमम् ॥६॥
एककालं द्विकालं वा त्रिकालं चापि यः सदा ।
स्नानं करोति चाग्नेयं पापं तस्य प्रणश्यति ॥७॥
दिव्यस्नानाद्वरं स्नानं वायव्यं भरतर्षभ ।
वायव्यादुत्तमं ब्राह्म्यं वरं ब्राह्म्यात्तु वारुणम् ॥८॥
आग्नेयं वारुणाच्छ्रेष्ठं यस्मादुक्तं स्वयम्भुवा ।
तस्मात्सर्वप्रयत्नेन ह्याग्नेयं स्नानमाचरेत् ॥९॥

युधिष्ठिर उवाच -
आग्नेयं वारुणं ब्राह्म्यं वायव्यं दिव्यमेव च ।
किमुक्तं श्रोतुमिच्छामि परं कौतूहलं हि मे ॥१०॥

मार्कण्डेय उवाच -
आग्नेयं भस्मना स्नानमवगाह्य च वारुणम् ।
आपोहिष्ठेति च ब्राह्म्यं वायव्यं गोरजः स्मृतम् ॥११॥
सूर्ये दृष्टे तु यत्स्नानं गङ्गातोयेन तत्समम् ।
तत्स्नानं पञ्चमं प्रोक्तं दिव्यं पाण्डवसत्तम ॥१२॥
तस्मात्सर्वप्रयत्नेन स्नात्वा भूतीश्वरे तु यः ।
पूजयेद्देवमीशानं स बाह्याभ्यन्तरः शुचिः ॥१३॥
तत्र स्थाने तु ये नित्यं ध्यायन्ति परमं पदम् ।
सूक्ष्मं चातीन्द्रियं नित्यं ते धन्या नात्र संशयः ॥१४॥
मुक्तितीर्थं तु तत्तीर्थं सर्वतीर्थेष्वनुत्तमम् ।
दर्शनादेव यस्यैव पापं याति महत्क्षयम् ॥१५॥
जायते पूजया राज्यं तत्र स्तुत्वा महेश्वरम् ।
जपेन पापसंशुद्धिर्ध्यानेनानन्त्यमश्नुते ॥१६॥
ओं ज्योतिः स्वरूपमनादिमध्यमनुत्पाद्यमानमनुचार्यमाणाक्षरम् ।
सर्वभूतस्थितं शिवं सर्वयोगेश्वरं सर्वलोकेश्वरं मोहशोकहीनं महाज्ञानगम्यम् ॥१७॥
तत्र तीर्थे तु यो गत्वा स्नानं कुर्यान्नरेश्वर ।
अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः ।
एवम्भूतं न जानन्ति मोक्षापेक्षणिका नराः ॥१८॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे भूतीश्वरतीर्थमाहात्म्यवर्णनं नाम सप्तसप्तत्यधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : December 17, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP