संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्| अध्याय ६७ रेवा खण्डम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ विषयानुक्रमणिका विषयानुक्रमणिका रेवा खण्डम् - अध्याय ६७ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ६७ Translation - भाषांतर श्रीमार्कण्डेय उवाच -तस्यैवानन्तरं तात जलमध्ये व्यवस्थितम् ।लुङ्केश्वरमिति ख्यातं सुरासुरनमस्कृतम् ॥१॥इदं तीर्थं महापुण्यं नानाश्चर्यं महीतले ।अस्य तीर्थस्य माहात्म्यमुत्पत्तिं शृणु भारत ॥२॥आसीत्पुरा महावीर्यो दानवो बलदर्पितः ।कालपृष्ठ इति ख्यातः सुतो ब्रह्मसुतस्य च ॥३॥गङ्गातटं समाश्रित्य चचार विपुलं तपः ।अधोमुखोऽपि संस्थित्वापिबद्धूममहर्निशम् ॥४॥ततश्चानन्तरं देवस्तिष्ठते ह्युमया सह ।दृष्ट्वा तं पार्वती सा तु तपस्युग्रे व्यवस्थितम् ॥५॥पश्य पश्य महादेव धूमाशी तिष्ठते नरः ।प्रसीद तं कुरुष्वाद्य देहि शीघ्रं वरं विभो ॥६॥ईश्वर उवाच -यदुक्तं वचनं देवि न तन्मे रोचते प्रिये ।स्वकार्यं च सदा चिन्त्यं परकार्यं विसर्जयेत् ॥७॥मूर्खस्त्रीबालशत्रूणां यश्छन्देनानुवर्तते ।व्यसने पतते घोरे सत्यमेतदुदीरितम् ॥८॥देव्युवाच -भार्ययाभ्यर्थितो भर्ता कारणं बहु भाषते ।लघुत्वं याति सा नारी एवं शास्त्रेषु पठ्यते ॥९॥प्राणत्यागं करिष्यामि यदि मां त्वं न मन्यसे ।पार्वत्या प्रेरितो देवो गतोऽसौ दानवं प्रति ॥१०॥ईश्वर उवाच -किमर्थं पिबसे धूमं किमर्थं तप्यसे तपः ।किं दुःखं किं नु सन्तापो वद कार्यमभीप्सितम् ॥११॥युवा त्वं दृश्यसेऽद्यापि वर्षविंशतिरेव च ।तदाचक्ष्व हि मे सर्वं तपसः कारणं महत् ॥१२॥दानव उवाच -अचला दीयतां भक्तिर्मम स्थैर्यं तवोपरि ।अपरं वर्षसाहस्रं निर्विघ्नं मे गतं विभो ॥१३॥दिवसानां सहस्रे द्वे पूर्णे त्वत्तपसा मम ॥१४॥ईश्वर उवाच -याचयाभीप्सितं कार्यं तुष्टोऽहं तव सुव्रत ।देवस्य वचनं श्रुत्वा चिन्तयामास दानवः ॥१५॥किं नाकं याचयाम्यद्य किमद्य सकलां महीम् ।एवं संचिन्तयामास कामबाणेन पीडितः ॥१६॥दानव उवाच -यदि तुष्टोऽसि मे देव वरं दास्यसि मे प्रभो ।सङ्ग्रामैस्तु न तुष्टोऽहं बलं नास्तीति किंचन ॥१७॥यस्य मूर्धन्यहं देव पाणिना समुपस्पृशे ।देवदानवगन्धर्वो भस्मसाद्यातु तत्क्षणात् ॥१८॥ईश्वर उवाच -यत्त्वया चिन्तितं किंचित्तत्सर्वं सफलं तव ।उत्तिष्ठ गच्छ शीघ्रं त्वं भवनं प्रति दानव ॥१९॥दानव उवाच -स्थीयतां देवदेवेश यावज्ज्ञास्यामि ते वरम् ।युष्मन्मूर्ध्नि न्यसे पाणिं प्रत्ययो मे भवेद्यथा ॥२०॥ततश्चानन्तरं देवश्चिन्तयानो महेश्वरः ।न स्कन्दो न हरिर्ब्रह्मा यः कार्येषु क्षमोऽधुना ॥२१॥ज्ञात्वा चैवापदं प्राप्तां देवः प्रार्थयते वृषम् ।अनेन सह पापेन युध्यस्व साम्प्रतं क्षणम् ॥२२॥करं प्रासारयद्दैत्यो देवं मूर्ध्नि किल स्पृशेत् ।लाङ्गूलेनाहतो दैत्यो विषण्णः पतितो भुवि ॥२३॥देवस्तु दक्षिणामाशां गतश्चैवोमया सह ।भयभीतो निरीक्षेत ग्रीवां भज्य पुनःपुनः ॥२४॥गते चादर्शनं देवे युयुधे वृषभेण सः ।द्वावेतौ बलिनां श्रेष्ठौ युयुधाते महाबलौ ॥२५॥प्रहारैर्वज्रसदृशैः कोपेन घटिकात्रयम् ।पाणिभ्यां न स्पृशेद्यो वै वृषभस्य शिरस्तथा ॥२६॥हत्वा लाङ्गूलपातेन आगतो वृषभस्तदा ।उत्थितश्चाप्यसौ दैत्यो व्रजते वृषपृष्ठतः ॥२७॥वायुवेगेन सम्प्राप्तो यत्र देवो महेश्वरः ।आगतं दानवं दृष्ट्वा वृषो वचनमब्रवीत् ॥२८॥आरुह्य पृष्ठे मे देव शीघ्रमेव हि गम्यताम् ।आरुह्य वृषभं देवो जगाम चोमया सह ॥२९॥नाकं प्राप्तस्ततो देवो गतः शक्रस्य मन्दिरम् ।नात्यजद्देवपृष्ठं तु दानवो बलदर्पितः ॥३०॥इन्द्रलोकं परित्यज्य ब्रह्मलोकं गतस्तदा ।यत्रयत्र व्रजेद्देवो भयात्सह दिवौकसैः ॥३१॥अपश्यत्तत्र तत्रैव पृष्ठे लग्नं तु दानवम् ।सर्वांल्लोकान् भ्रमित्वा तु देवो विस्मयमागतः ॥३२॥न स्थानं विद्यते किंचिद्यत्र विश्रम्यते क्षणम् ।देवदानवयोस्तत्र युद्धं ज्ञात्वा सुदारुणम् ॥३३॥हर्षितात्मा मुनिस्तत्र चिरं नृत्यति नारदः ।धन्योऽहमद्य मे जन्म जीवितं च सुजीवितम् ॥३४॥महान्तं च कलिं दृष्ट्वा संतोषः परमोऽभवत् ।देवदानवयोस्तत्र युद्धं त्यक्त्वा च नारदः ॥३५॥आजगाम ततो विप्रो यत्र देवो महेश्वरः ।दृष्ट्वा देवोऽथ तं विप्रं प्रतिपूज्याब्रवीदिदम् ॥३६॥भो नारद मुनिश्रेष्ठ जानीषे केशवं क्वचित् ।गत्वा तत्र च शीघ्रं त्वं केशवाय निवेदय ॥३७॥नारद उवाच -देवदानवसिद्धानां गन्धर्वोरगरक्षसाम् ।सर्वेषामेव देवेशो हरते ध्रुवमापदम् ॥३८॥असंभाव्यं न वक्तव्यं मनसापि न चिन्तयेत् ।ईदृशीं नैव बुध्यामि आपदं च विभो तव ॥३९॥ईश्वर उवाच -गच्छ नारद शीघ्रं त्वं यत्र देवो जनार्दनः ।विदितं च त्वया सर्वं यत्कृतं दानवेन तु ॥४०॥अवध्यो दानवो ह्येष सेन्द्रैरपि मरुद्गणैः ।गत्वा तु केशवं देवं निवेदय महामुने ॥४१॥नारद उवाच -न तु गच्छाम्यहं देव सुप्तः क्षीरोदधौ सुखी ।केशवः प्रेरणे ह्येषामादेशो दीयतां प्रभो ॥४२॥मात्रा स्वस्रा दुहित्रा वा राजानं च तथा प्रभुम् ।गुरुं चैवादितः कृत्वा शयानं न प्रबोधयेत् ॥४३॥ईश्वर उवाच -यदि क्वचिदगारेषु वह्निरुत्पद्यते महान् ।निधनं यान्ति तत्रस्था यद्बुध्येरन्नसूरयः ॥४४॥नारद उवाच -शीघ्रं गच्छ महादेव आत्मानं रक्ष सुप्रभो ।गच्छाम्यहं न सन्देहो यत्र देवो जनार्दनः ॥४५॥ततो नन्दिमहाकालौ स्तम्भहस्तौ भयानकौ ।जघ्नतुर्दानवं तत्र मुद्गरादिभिरायुधैः ॥४६॥त्रयोऽपि च महाकायाः सप्ततालप्रमाणकाः ।न शमो जायते तेषां युध्यतां च परस्परम् ॥४७॥ततश्चानन्तरं विप्रोऽगच्छत्तं केशवं प्रति ।सुप्तं क्षीरार्णवेऽपश्यच्छेषपर्यङ्कसंस्थितम् ॥४८॥लक्ष्म्या पादयुगं गृह्य ऊरूपरि निवेशितम् ।अप्सरोगीयमानं तु भक्त्यानम्य च केशवम् ॥४९॥अद्य मे सफलं जन्म जीवितं च सुजीवितम् ।उत्थापयस्व देवेशं लक्ष्मि त्वमविशङ्किता ॥५०॥नारदस्य वचः श्रुत्वा पदाङ्गुष्ठं व्यमर्दयत् ।नारदस्तिष्ठते द्वारि उत्तिष्ठ मधुसूदन ॥५१॥देवोऽपि नारदं दृष्ट्वा परं हर्षमुपागतः ।स्वागतं तु मुनिश्रेष्ठ सुप्रभाताद्य शर्वरी ॥५२॥नारद उवाच -अद्य मे सफलं देव प्रभातं तव दर्शनात् ।कुशलं च न देवानां शीघ्रमुत्तिष्ठ गम्यताम् ॥५३॥श्रीविष्णुरुवाच -ब्रह्मा चेन्द्रश्च रुद्रश्च ये चान्ये तु मरुद्गणाः ।आपदः कारणं यच्च तत्समाख्यातुमर्हसि ॥५४॥नारद उवाच -दानवेन महातीव्रं तपस्तप्तं सुदारुणम् ।रुद्रेण च वरो दत्तो भस्मत्वं मनसेप्सितम् ॥५५॥वरदानबलेनैव स देवं हन्तुमर्हति ।ईदृशं चेष्टितं ज्ञात्वा नीतो देवोऽमरैः सह ॥५६॥नारदस्य वचः श्रुत्वा जगाम समुनिर्हरिः ।दृष्ट्वा देवस्तमीशानं गच्छन्तं दिशमुत्तराम् ॥५७॥दृष्ट्वा देवं च रुद्रोऽथ परिष्वज्य पुनःपुनः ।नमस्कृत्य जगन्नाथं देवं च मधुसूदनः ॥५८॥विष्णुरुवाच -भयस्य कारणं देव कथ्यतां च महेश्वर ।देवदानवयक्षाणां प्रेषयेयं यमालयम् ॥५९॥ललाटे च कृतो धर्मो युष्माकं च महेश्वर ।छित्त्वा शिरस्तथाङ्गानि इन्द्रियाणि न संशयः ॥६०॥ईश्वर उवाच -नास्ति सौख्यं च मूर्खेषु नास्ति सौख्यं च रोगिषु ।पराधीनेन सौख्यं तु स्त्रीजिते च विशेषतः ॥६१॥स्त्रीजितेन मया विष्णो वरो दत्तस्तु दानवे ।यस्य मूर्ध्नि न्यसेत्पाणिं स भवेद्भस्मपुंजवत् ॥६२॥अजेयश्चामरश्चैव मया ह्युक्तः स केशव ।हन्तुमिच्छति मां पाप उपायस्तव विद्यते ॥६३॥विष्णुरुवाच -गच्छन्तु अमराः सर्वे युष्माभिः सह शङ्कर ।उपायं सर्जयाम्यद्य वधार्थं दानवस्य च ॥६४॥रेवायाश्च तटे तिष्ठ देव त्वममरैः सह ।कालक्षेपो न कर्तव्यो गम्यतां त्वरितं प्रभो ॥६५॥दक्षिणा यत्र गङ्गा च रेवा चैव महानदी ।यत्रयत्र च दृश्येत प्राची चैव सरस्वती ॥६६॥तत्समं च महातीर्थं न मर्त्ये चैव दृश्यते ।स्नानं ये तत्र कुर्वन्ति दानं चैव तु भक्तितः ॥६७॥सप्तजन्मकृतं पापं नश्यते नात्र संशयः ।एतत्तीर्थं महापुण्यं सर्वपातकनाशनम् ॥६८॥गम्यतां तत्र देवेश लुङ्केशं त्वं सहामरैः ।विष्णोस्तु वचनादेव प्रविष्टो ह्रदमुत्तमम् ॥६९॥रतिं सुमहतीं चक्रे सह तत्र मरुद्गणैः ।ततश्चानन्तरं देवो मायां कृत्वा ह्यनेकधा ॥७०॥वसन्तमासं संसृज्य उद्यानवनशोभितम् ।अशोकैर्बकुलैश्चैव ब्रह्मवृक्षैः सुशोभनैः ॥७१॥श्रीवृक्षैश्च कपित्थैश्च शिरीषैर्राजचम्पकैः ।श्रीफलैश्च तथा तालैः कदम्बोदुम्बरैस्तथा ॥७२॥अश्वत्थादिद्रुमैश्चैव नानावृक्षैरनेकशः ।नानापुष्पैः सुगन्धाढ्यैर्भ्रमरैश्च निनादितम् ॥७३॥तस्मिन्मध्ये महावृक्षो न्यग्रोधश्च सुशोभनः ।बहुपक्षिसमायुक्तः कोकिलारावनादितः ॥७४॥कृष्णेन च कृतं तस्मिन्कन्यारूपं च तत्क्षणात् ।न तस्याः सदृशी कन्या त्रैलोक्ये सचराचरे ॥७५॥अन्याश्च कन्यकाः सप्त सुरूपाः शुभलोचनाः ।दिव्यरूपधराः सर्वा दिव्याभरणभूषिताः ॥७६॥पुमांसमभिकाङ्क्षन्त्यो यद्येकः कामयेत्स्त्रियः ।मौक्तिकैर्रत्नमाणिक्यैर्वैडूर्यैश्च सुशोभनैः ॥७७॥कामहारैश्च वंशैश्च बद्धो हिन्दोलकः कृतः ।आरूढाश्च महाकन्या गायन्ते सुस्वरं तदा ॥७८॥मारुतः शीतलो वाति वनं स्पृष्ट्वा सुशोभनम् ।वातेन प्रेरितो गन्धो दानवो घ्राणपीडितः ॥७९॥ततः कुसुमगन्धेन विस्मयं परमं गतः ।आघ्राय चेदृशं पुण्यं न दृष्टं न श्रुतं मया ॥८०॥वने चिन्तयतः किंचिद्ध्वनिगीतं सुशोभनम् ।गीतस्य च ध्वनिं श्रुत्वा मोहितो मायया हरेः ॥८१॥व्याधस्यैव महाकूटे पतन्ति च यथा मृगाः ।कालस्पृष्टस्तथा कृष्णे पतितश्च नराधिप ॥८२॥दृष्ट्वा कन्यां च तां दैत्यो मूर्च्छया पतितो भुवि ।पतितेन तु दृष्टैका कन्या वटतले स्थिता ॥८३॥आस्यं दृष्ट्वा तु नारीणां पुनः कामेन पीडितः ।गृहीत्वा हेमदण्डं तु तां पातयितुमिच्छति ॥८४॥कन्योवाच -मा मानुस्पर्शयत्वं हि कुमार्यहं कुलोत्तम ।भो मुञ्च मुञ्च मां शीघ्रं यावद्गच्छाम्यहं गृहम् ॥८५॥दानव उवाच -अहं विवाहमिच्छामि त्वया सह सुशोभने ।भूपृष्ठे सकले राज्ञी भवस्येवं न संशयः ॥८६॥कन्योवाच -पिता रक्षति कौमार्ये भर्ता रक्षति यौवने ।पुत्रो रक्षति वृद्धत्वे न स्त्री स्वातन्त्र्यमर्हति ॥८७॥न स्वातन्त्र्यं ममैवास्ति उत्पन्नाहं महत्कुले ।याच्यस्तु मत्पिता भ्राता मातापि हि तथैव च ॥८८॥दानव उवाच -यदि मां नेच्छसे त्वद्य स्वातन्त्र्यं नावलम्बसे ।ममापि च तदा हत्या सत्यं च शुभलोचने ॥८९॥कन्योवाच -विश्वासो नैव कर्तव्यो यादृशे तादृशे नरे ।नराः स्त्रीषु विचित्राश्च लम्पटाः काममोहिताः ॥९०॥परिणीय तु मां त्वं हि भुङ्क्ष्व भोगान्मया सह ।जन्मनाशो भवेत्पश्चान्न त्वं नान्यो भवेन्मम ॥९१॥ब्राह्मणी क्षत्रिणी वैशी शूद्री यावत्तथैव च ।द्वितीयो न भवेद्भर्ता एकाकी चेह जन्मनि ॥९२॥दानव उवाच -यत्त्वया गदितं वाक्यं तन्मया धारितं हृदि ।प्रत्ययं मे कुरुष्वाद्य यत्ते मनसि रोचते ॥९३॥कन्योवाच -जानीष्व गोपकन्यां मां क्रीडामि सखिभिः सह ।अस्मत्कुलेषु यद्दिव्यं तत्कुरुष्व यथाविधि ॥९४॥न तद्दिव्यं कुलेऽस्माकं विषं कोशं न तत्तुला ।गोपान्वयेषु सर्वेषु हस्तः शिरसि दीयते ॥९५॥कामान्धेनैव राजेन्द्र निक्षिप्तो मस्तके करः ।तत्क्षणाद्भस्मसाद्भूतो दग्धस्तृणचयो यथा ॥९६॥केशवोपरि देवैस्तु पुष्पवृष्टिः शुभा कृता ।हृष्टाः सर्वेऽगमन्देवाः स्वस्थानं विगतज्वराः ॥९७॥क्षीरोदं केशवो गच्छत्कालपृष्ठे निपातिते ।य इदं शृणुयाद्भक्त्या चरितं दानवस्य च ॥९८॥स जयी जायते नित्यं शङ्करस्य वचो यथा ।एतस्मात्कारणाद्राजंल्लिङ्गेश्वरमिति श्रुतम् ॥९९॥लीनं च पातकं यस्मात्स्नानमात्रेण नश्यति ।त्वगस्थि शोणितं मांसं मेदःस्नायुस्तथैव च ॥१००॥मज्जाशुक्रगतं पापं नश्यते जन्मकोटिजम् ।लुङ्केश्वरे महाराज तोयं पिबति भक्तितः ॥१०१॥त्रिभिः प्रसृतिमात्राभिः पापं याति सहस्रधा ।विशेषेण चतुर्दश्यामुभौ पक्षौ तु चाष्टमी ॥१०२॥उपोष्य यो नरो भक्त्या पित्ःणां पाण्डुनन्दन ।उद्धृतास्तेन ते सर्वे नारकीयाः पितामहाः ॥१०३॥काकिणीं चैव यो दद्याद्ब्राह्मणे वेदपारगे ।तेन दानफलं सर्वं कुरुक्षेत्रादिकं च यत् ॥१०४॥प्राप्तं तु नान्यथा राजञ्छङ्करो वदते त्विदम् ।स्पर्शलिङ्गमिदं राजञ्छङ्करेण तु निर्मितम् ॥१०५॥स्पर्शमात्रे मनुष्याणां रुद्रवासोऽभिजायते ।तेन दानफलं सर्वं कुरुक्षेत्रादिकं च यत् ॥१०६॥एतस्मात्कारणाद्राजंल्लोकपालाश्च रक्षकाः ।दुर्गा च रक्षणे सृष्टा चतुर्हस्तधरा शुभा ॥१०७॥धनदो लोकपालेशो रक्षकश्चेश्वरस्य च ।रक्षति च सदा कालं ग्रहव्यापाररूपतः ॥१०८॥पुत्रभ्रातृसमारूपैः स्वामिसम्बन्धरूपिभिः ।लङ्केश्वरं च राजेन्द्र देवैर्नाद्यापि मुच्यते ॥१०९॥॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे लुङ्केश्वरतीर्थमाहात्म्यवर्णनं नाम सप्तषष्टितमोऽध्यायः ॥ N/A References : N/A Last Updated : December 09, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP