संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्| अध्याय १९४ रेवा खण्डम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ विषयानुक्रमणिका विषयानुक्रमणिका रेवा खण्डम् - अध्याय १९४ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १९४ Translation - भाषांतर श्रीमार्कण्डेय उवाच -तच्छ्रुत्वानान्तदेवेन विश्वरूपमुदाहृतम् ।देवराजस्तथा देवाः परं विस्मयमागताः ॥१॥दृष्ट्वा चाप्सरसं पुण्यामुर्वशीं कमलाननाम् ।संत्रस्तो विस्मितश्चाभूदिन्द्रो राजश्रिया वृतः ॥२॥न किंचिदुत्तरं वाक्यमुक्तवाञ्जोषमास्थितः ।इति वृत्तान्तभूतं हि नारायणविचेष्टितम् ॥३॥भृगोः खात्यां(?) समुत्पन्ना लक्ष्मीः श्रुत्वा तु वै नृप ।वैश्वरूपं परं रूपं विस्मिताचिन्तयत्तदा ॥४॥केनोपायेन स स्यान्मे भर्ता नारायणः प्रभुः ।व्रतेन तपसा वापि दानेन नियमेन च ॥५॥वृद्धानां सेवनेनाथ देवताराधनेन वा ।इति चिन्तापरां कन्यां सती ज्ञात्वा युधिष्ठिर ॥६॥प्राह प्राप्तो मया भर्ता शङ्करस्तपसा किल ।प्रजापतिश्च गायत्र्या ह्यन्याभिरभिवाञ्छिताः ॥७॥तपसैव हि ते प्राप्यस्तस्मात्तच्चर सुव्रते ।तपस्त्वं हि महच्चोग्रं सर्ववाञ्छितदायकम् ॥८॥मार्कण्डेय उवाच -सागरान्तं समासाद्य लक्ष्मीः परपुरंजय ।चचार विपुलं कालं तपः परमदुश्चरम् ॥९॥स्थाणुवत्संस्थिता साभूद्दिव्यं वर्षसहस्रकम् ।तत इन्द्रादयो देवाः शङ्खचक्रगदाधराः ॥१०॥भूत्वा जग्मुस्तदर्थं ते सा तु पृष्टवती सुरान् ।विश्वरूपं वैष्णवं यत्तद्दर्शयत माचिरम् ॥११॥विलक्षा व्रीडिता देवा गत्वा नारायणं तदा ।अब्रुवन् वैश्वरूपं नो शक्ता दर्शयितुं वयम् ॥१२॥ततो यथेष्टं ते जग्मुः स च विष्णुरचिन्तयत् ।उग्ररूपा स्थिता देवी देहं दहति भार्गवी ॥१३॥तां तस्मात्तत्र गत्वाहं वरं दत्त्वा तु वाञ्छितम् ।पुनस्तपः करिष्यामि दर्शयिष्यामि वा पुनः ।वैष्णवं विश्वरूपं यद्दुर्दश्यं देवदानवैः ॥१४॥मार्कण्डेय उवाच -ततो गत्वा हृषीकेशः सागरान्तस्थितां श्रियम् ।प्राह तुष्टोऽस्मि ते देवि वरं वृणु यथेप्सितम् ॥१५॥श्रीरुवाच -यदि तुष्टोऽसि मे देव प्रपन्नाया जनार्दन ।तदा दर्शय यद्दृष्टमप्सरोभिस्तवानघ ॥१६॥विश्वरूपमनन्तं च भूतभावन केशव ।गन्धमादनमासाद्य कृतं यच्च तपस्त्वया ॥१७॥तद्वदस्व विभो विष्णो न मिथ्या यदि केशव ।श्रद्दधामि न चैवाहं रूपस्यास्य कथंचन ॥१८॥बहुभिर्यक्षरक्षोभिर्मायाचारिप्रचारिभिः ।छन्दिता मम जानद्भिर्भावमन्तर्गतं हरौ ॥१९॥भूत्वा विष्णुस्वरूपास्ते चक्रिणश्च चतुर्भुजाः ।सुव्रीडिता गताः सर्वे विश्वरूपो सहायतः ॥२०॥मार्कण्डेय उवाच -नारायणोऽथ भगवाञ्छङ्खचक्रगदाभृतम् ।तया तथोक्तस्तद्रूपं मुक्त्वा वै सुरपूजितम् ॥२१॥रूपं परं यथोक्तं वै विश्वरूपमदर्शयत् ।दर्शयित्वा वचः प्राह पञ्चरात्रविधानतः ॥२२॥योऽर्चयिष्यति मां नित्यं स पूज्यः स च पूजितः ।धनधान्यसमायुक्तः सर्वभोगसमन्वितः ॥२३॥मूलं हि सर्वधर्माणां ब्रह्मचर्यं परं तपः ।तेनाहं तत्र स्थास्यामि मूलश्रीपतिसंज्ञितः ॥२४॥मूलश्रीः प्रोच्यते ब्राह्मी ब्रह्मचर्यस्वरूपिणी ।सर्वयोगमयी पुण्या सर्वपापहरी शुभा ॥२५॥पतिस्तस्याः प्रभुरहं वरदः प्राणिनां प्रिये ।रेवाजले नरः स्नात्वा योऽर्चयेन्मां यतव्रतः ॥२६॥मूलश्रीपतिनामानं वाञ्छिते प्राप्नुयात्फलम् ।दानानि तत्र यो दद्यान्महादानानि च प्रिये ॥२७॥सहस्रगुणितं पुण्यमन्यस्थानादवाप्यते ।दृष्टं त्वया तत्र देशे सम्यक्चैवावधारितम् ।तदर्चित्वा परान् कामानाप्स्यसि त्वं न संशयः ॥२८॥वरं वृणीष्व देवेशि वाञ्छितं दुर्लभं सुरैः ।दुर्गसंसारकान्तारपतितैः परमेश्वरि ॥२९॥श्रीरुवाच -नारायण जगद्धातर्नारायण जगत्पते ।नारायण परब्रह्म नारायणपरायण ॥३०॥प्रसीद पाहि मां भक्त्या सम्यक्सर्गे नियोजय ।प्रियो ह्यसि प्रियाहं ते यथा स्यां तत्तथा कुरु ॥३१॥गृहं धर्मार्थकामानां कारणं देव संमतम् ।तदास्थायाश्रमं पुण्यं मां श्रेयसि नियोजय ॥३२॥नारायण उवाच -नारायणगिरा देवि विज्ञप्तोऽस्मि यतस्त्वया ।नारायणगिरिर्नाम तेन मेऽत्र भविष्यति ॥३३॥नारायणस्मृतौ याति दुरितं जन्मकोटिजम् ।यस्माद्गिरति तस्माच्च गिरिरित्येव शब्दितम् ॥३४॥तस्मात्सर्वाश्रयो देवि गिरिः पर्वतराङ्भवेत् ।सुरासुरमनुष्याणां यथाहमपि चाश्रयः ॥३५॥य एतत्पूजयिष्यन्ति मण्डलस्थं परं मम ।नारायणगिरिर्नाम देवरूपं शुभेक्षणे ॥३६॥ते दिव्यज्ञानसम्पन्ना दिव्यदेहविचेष्टिताः ।दिव्यं लोकमवाप्स्यन्ति दिव्यभोगसमन्विताः ॥३७॥मार्कण्डेय उवाच -तयोरेवं संवदतोर्देवा इन्द्रपुरोगमाः ।समागता वनोद्देशं सागरान्ते महर्षयः ॥३८॥ततो भृगुं देवराजो नारायणविचिन्तितम् ।वव्रे ज्ञात्वा तु तत्कन्यां धर्मात्मा स ददौ च ताम् ॥३९॥धर्मोऽपि विधिवद्वत्स विवाहं समकारयत् ।देवदेवस्य राजर्षे देवतार्थे समाहितः ॥४०॥युधिष्ठिर उवाच -धर्मो विवाहमकरोद्विधिवद्यत्त्वयोदितम् ।को विधिस्तत्र का दत्ता दक्षिणा भृगुणापि च ॥४१॥विवाहयज्ञे समभूत्स्रुक्स्रुवग्रहणे च कः ।ऋत्विजः के सदस्याश्च तस्यासन् द्विजसत्तम ॥४२॥किं तस्यावभृथं त्वासीत्तत्सर्वं वद विस्तरात् ।त्वद्वाक्यामृतपानेन तृप्तिर्मम न विद्यते ॥४३॥मार्कण्डेय उवाच -नारायणविवाहस्य यज्ञस्य च युधिष्ठिर ।तपसस्तस्य देवस्य सम्यगाचरणस्य च ॥४४॥वक्तुं समर्थो न गुणान्ब्रह्मापि परमेश्वरः ।तथाप्युद्देशतो वच्मि शृणु भूत्वा समाहितः ॥४५॥ब्रह्मा सप्तर्षयस्तत्र स्रुक्स्रुवग्रहणे रताः ।अग्नीञ्जुहुविरे राजन्वेदिर्धात्री ससागरा ॥४६॥ददुः समुद्रा रत्नानि ब्रह्मर्षिभ्यो नृपोत्तम ।धनदोऽपि ददौ वित्तं सर्वब्राह्मणवाञ्छितम् ॥४७॥विश्वकर्माऽपि देवानां ब्रह्मर्षीणां परंतप ।वेश्मानि सुविचित्राणि सर्वरत्नमयानि च ॥४८॥कृत्वा प्रदर्शयामास देवेन्द्राय यशस्विने ।शतक्रतुस्ततो विप्रान्कापिष्ठलपुरोगमान् ॥४९॥शौनकादींश्च पप्रच्छ बष्कलाञ्छागलानपि ।आत्रेयानपि राजेन्द्र वृणुध्वमभिवाञ्छितम् ॥५०॥दृष्ट्वा ते चित्ररत्नानि प्राहुः सर्वेश्वरेश्वरम् ।देवानां च ऋषीणां च सङ्गमोऽयं सुपुण्यकृत् ॥५१॥अस्मिन्पुण्ये सुरेशान वस्तुं वाञ्छामहे सदा ।शतक्रतुः प्राह पुनर्वासो वात्र भविष्यति ।सत्यधर्मरता यूयं यावत्कालं भविष्यथ ॥५२॥मार्कण्डेय उवाच -पृष्टं यद्राजशार्दूल के मखे होत्रिणोऽभवन् ।तत्प्रोच्यमानमधुना शृणु भूत्वा समाहितः ॥५३॥सनत्कुमारप्रमुखाः सदस्यास्तस्य चाभवन् ।औद्गात्रमत्र्यङ्गिरसौ मरीचिश्च चकार ह ॥५४॥हौत्रं धर्मवसिष्ठौ च ब्रह्मत्वं सनको मुनिः ।षट्त्रिंशद्ग्रामसाहस्रं प्रादात्तेभ्यः शतक्रतुः ॥५५॥लक्ष्मीर्भर्त्रा च संयुक्ताभवत्तत्कृतवान्प्रभुः ।ब्रह्मणो जुह्वतो वह्निं यावद्देशस्थितैः सुरैः ॥५६॥दृष्टं ललाटं देशोऽसौ ललाट इति संज्ञितः ।स देशः श्रीपतेः क्षेत्रपुण्यं देवर्षिसेवितम् ॥५७॥सर्वाश्चर्यमयं दिव्यं दिव्यसिद्धिसमन्वितम् ।ब्राह्मणानां ततः पङ्क्तिं निवेशयितुमुद्यता ॥५८॥लक्ष्मीः श्रीपतिनामानमाह देवं वचस्तदा ।श्रीरुवाच -य एते ब्राह्मणाः शिष्या भृग्वादीनां यतव्रताः ॥५९॥तान्निवेशयितुमिच्छामि त्वत्प्रसादादधोक्षज ।मरीच्यादयः सुरेन्द्रेण स्थापिता गरुडध्वज ॥६०॥नैष्ठिकव्रतिनो विप्रा बहवोऽत्र यतव्रताः ।प्राजापत्ये व्रते ब्राह्मे केचिदत्र व्यवस्थिताः ।तानहं स्थापयिष्यामि त्वत्प्रसादादधोक्षज ॥६१॥मार्कण्डेय उवाच -ततः कौतूहलधरो भगवान्वृषभध्वजः ।पप्रच्छ व्रतिनः सर्वान्वृत्तिभेदे व्यवस्थितान् ॥६२॥नारदोऽपि महादेवमुपेत्य च सतीपतिम् ।प्राह कृष्णाजिनधरो नैष्ठिका ब्राह्मणा ह्यमी ॥६३॥अमी कार्याः सुवस्त्रेण छन्नगुह्या द्विजोत्तमाः ।प्राजापत्याश्चतुर्विंशसहस्राणि नरेश्वर ॥६४॥ब्रह्मचर्यव्रतस्थानां व्रतब्रह्मविचारिणाम् ।द्वादशैषां सहस्राणि सन्ति वै वृषभध्वज ॥६५॥नारदस्य वचः श्रुत्वा देवा देवर्षयोऽपि च ।साधु साध्वित्यमन्यन्त नोचुः केचन किंचन ॥६६॥समाह्वयत्ततो लक्ष्मीस्तान् विप्रान् भक्तिसंयुता ।उवाच चरणान्गृह्य प्रसादः क्रियतां मयि ॥६७॥षट्त्रिंशच्च सहस्राणि वेश्मनामत्र संस्थितिः ।विश्वकर्मकृतानां तु तेषु तिष्ठन्तु वोऽखिलाः ॥६८॥ते तथेति प्रतिज्ञाय स्थिताः संप्रीतमानसाः ।धनधान्यसमृद्धाश्च वाञ्छितप्राप्तिलक्षणाः ।सर्वकामसमृद्धाश्च ह्यनारम्भेषु कर्मणाम् ॥६९॥इति संस्थाप्य तान् विप्रान् सा स्थिता पर्यपालयत् ।चतुर्धा तु स्थितो विष्णुः श्रिया देव्याः प्रिये रतः ॥७०॥एवं वैवाहिकमखे निवृत्ते ऋषयस्तु तम् ।ऊचुश्चावभृथस्नानं कुत्र कुर्मो जनार्दन ॥७१॥इति श्रुत्वा तु वचनं श्रीपतिः पादपङ्कजात् ।मुमोच जाह्नवीतोयं रेवामध्यगमं शुचि ॥७२॥हरेः पादोदकं दृष्ट्वा निःसृतं मुनयस्तु ते ।विस्मिताः समपद्यन्त जानन्तस्तस्य गौरवम् ॥७३॥रुद्रेण सहिताः सर्वे देवता ऋषयस्तथा ।संकथा विस्मिताश्चक्रुर्विधुन्वन्तः शिरांसि च ॥७४॥ऋषय ऊचुः ।ब्रूहि शम्भो किमत्रायं अकस्माद्वारिसम्भवः ।विष्णोः पादाम्बुजोत्थश्च सम्मोहकरणः परः ॥७५॥ईश्वर उवाच -पादोदकमिदं विष्णोरहं जानामि वै सुराः ।दशाश्वमेधावभृथैः स्नानमत्रातिरिच्यते ॥७६॥युष्माभिः श्रीपतिः पूज्यः स्नानं चावभृथं कुतः ।भविष्यतीति तेनाशु इदं वोऽर्थे विनिर्मितम् ॥७७॥स्नात्वात्र त्रिदशेशाना यत्फलं सम्प्रपद्यते ।वक्तुं न केनचिद्याति ततः किमुत्तरं वचः ॥७८॥मार्कण्डेय उवाच -एवमुक्त्वा तु ते सर्वे स्नानं कृत्वा यथागतम् ।जग्मुर्देवा महेशानपुरोगा भरतर्षभ ॥७९॥ब्राह्मणाश्च ततः सर्वे स्ववेश्मान्येव भेजिरे ।देवतीर्थे महाराज सर्वपापप्रणाशने ॥८०॥॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे श्रीपतिविवाहवर्णनं नाम चतुर्नवत्युत्तरशततमोऽध्यायः ॥ N/A References : N/A Last Updated : December 17, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP