संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्| अध्याय १५९ रेवा खण्डम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ विषयानुक्रमणिका विषयानुक्रमणिका रेवा खण्डम् - अध्याय १५९ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १५९ Translation - भाषांतर श्रीमार्कण्डेय उवाच -ततो गच्छेन्महाराज तीर्थं परमपावनम् ।नर्मदायां सुदुष्प्रापं सिद्धं ह्यनरकेश्वरम् ॥१॥तस्मिंस्तीर्थे नरः स्नात्वा पापकर्मापि भारत ।न पश्यति महाघोरं नरकद्वारसंज्ञिकम् ॥२॥युधिष्ठिर उवाच -शुभाशुभफलैस्तात भुक्तभोगा नरास्त्विह ।जायन्ते लक्षणैर्यैस्तु तानि मे वद सत्तम ॥३॥यथा निर्गच्छते जीवस्त्यक्त्वा देहं न पश्यति ।तथा गच्छन्पुनर्देहं पञ्चभूतसमन्वितः ॥४॥त्वगस्थिमांसमेदोऽसृक्केशस्नायुशतैः सह ।विण्मूत्ररेतःसङ्घाते का संज्ञा जायते नृणाम् ॥५॥एवमुक्तः स मार्कण्डः कथयामास योगवित् ।ध्यात्वा सनातनं सर्वं देवदेवं महेश्वरम् ॥६॥मार्कण्डेय उवाच -शृणु पार्थ महाप्रश्नं कथयामि यथाश्रुतम् ।सकाशाद्ब्रह्मणः पूर्वमृषिदेवसमागमे ॥७॥गुरुरात्मवतां शास्ता राजा शास्ता दुरात्मनाम् ।इह प्रच्छन्नपापानां शास्ता वैवस्वतो यमः ॥८॥अचीर्णप्रायश्चित्तानां यमलोके ह्यनेकधा ।यातनाभिर्वियुक्तानामनेकां जीवसन्ततिम् ॥९॥गत्वा मनुष्यभावे तु पापचिह्ना भवन्ति ते ।तत्तेऽहं सम्प्रवक्ष्यामि शृणुष्वैकमना नृप ॥१०॥सहित्वा यातनां सर्वां गत्वा वैवस्वतक्षयम् ।विस्तीर्णयातना ये तु लोकमायान्ति चिह्निताः ॥११॥गद्गदोऽनृतवादी स्यान्मूकश्चैव गवानृते ।ब्रह्महा जायते कुष्ठी श्यावदन्तस्तु मद्यपः ॥१२॥कुनखी स्वर्णहरणाद्दुःश्चर्मा गुरुतल्पगः ।संयोगी हीनयोनिः स्याद्दरिद्रोऽदत्तदानतः ॥१३॥ग्रामशूकरतां याति ह्ययाज्ययाजको नृप ।खरो वै बहुयाजी स्याच्छ्वानिमन्त्रितभोजनात् ॥१४॥अपरीक्षितभोजी स्याद्वानरो विजने वने ।वितर्जकोऽथ मार्जारः खद्योतः कक्षदाहतः ॥१५॥अविद्यां यः प्रयच्छेत बलीवर्दो भवेद्धि सः ।अन्नं पर्युषितं विप्रे ददानः क्लीबतां व्रजेत् ॥१६॥मात्सर्यादथ जात्यन्धो जन्मान्धः पुस्तकं हरन् ।फलान्याहरतोऽपत्यं म्रियते नात्र संशयः ॥१७॥मृतो वानरतां याति तन्मुक्तोऽथ गलाडवान् ।अदत्त्वा भक्षयंस्तानि ह्यनपत्यो भवेन्नरः ॥१८॥हरन्वस्त्रं भवेद्गोधा गरदः पवनाशनः ।प्रव्राजी गमनाद्राजन् भवेन्मरुपिशाचकः ॥१९॥वातको जलहर्ता च धान्यहर्ता च मूषकः ।अप्राप्तयौवनां गच्छन् भवेत्सर्प इति श्रुतिः ॥२०॥गुरुदाराभिलाषी च कृकलासो भवेच्चिरम् ।जलप्रस्रवणं यस्तु भिन्द्यान्मत्स्यो भवेन्नरः ॥२१॥अविक्रेयान् विक्रयन् वै विकटाक्षो भवेन्नरः ।अयोनिगो वृको हि स्यादुलूकः क्रयवञ्चनात् ॥२२॥मृतस्यैकादशाहे तु भुञ्जानः श्वोपजायते ।प्रतिश्रुत्य द्विजायार्थमददन्मधुको भवेत् ॥२३॥राज्ञीगमाद्भवेद्दुष्टतस्करो विड्वराहकः ।परिवादी द्विजातीनां लभते काच्छपीं तनुम् ॥२४॥व्रजेद्देवलको राजन्योनिं चाण्डालसंज्ञिताम् ।दुर्भगः फलविक्रेता वृश्चिको वृषलीपतिः ॥२५॥मार्जारोऽग्निं पदा स्पृष्ट्वा रोगवान्परमांसभुक् ।सोदर्यागमनात्षण्ढो दुर्गन्धश्च सुगन्धहृत् ॥२६॥ग्रामभट्टो दिवाकीर्तिर्दैवज्ञो गर्दभो भवेत् ।कुपण्डितः स्यान्मार्जारो भषणो व्यास एव च ॥२७॥स एव दृश्यते राजन्प्रकाशात्परमर्मणाम् ।यद्वा तद्वापि पारक्यं स्वल्पं वा यदि वा बहु ॥२८॥कृत्वा वै योनिमाप्नोति तैरश्चीं नात्र संशयः ।एवमादीनि चान्यानि चिह्नानि नृपसत्तम ॥२९॥स्वकर्मविहितान्येव दृश्यन्ते यैस्तु मानवाः ।ततो जन्म ततो मृत्युः सर्वजन्तुषु भारत ॥३०॥जायते नात्र सन्देहः समीभूते शुभाशुभे ।स्त्रीपुंसोः सम्प्रयोगेण विषुद्धे शुक्रशोणिते ॥३१॥पञ्चभूतसमोपेतः सषष्ठः परमेश्वरः ।इन्द्रियाणि मनः प्राणा ज्ञानमायुः सुखं धृतिः ॥३२॥धारणं प्रेरणं दुःखमिच्छाहङ्कार एव च ।प्रयत्न आकृतिर्वर्णः स्वरद्वेषौ भवाभवौ ॥३३॥तस्येदमात्मनः सर्वमनादेरादिमिच्छतः ।प्रथमे मासि स क्लेदभूतो धातुविमूर्छितः ॥३४॥मास्यर्बुदं द्वितीये तु तृतीये चेन्द्रियैर्युतः ।आकाशाल्लाघवं सौक्ष्म्यं शब्दं श्रोत्रबलादिकम् ।वायोस्तु स्पर्शनं चेष्टां दहनं रौक्ष्यमेव च ॥३५॥पित्तात्तु दर्शनं पक्तिमौष्ण्यं रूपं प्रकाशनम् ।सलिलाद्रसनां शैत्यं स्नेहं क्लेदं समार्दवम् ॥३६॥भूमेर्गन्धं तथा घ्राणं गौरवं मूर्तिमेव च ।आत्मा गृह्णात्यजः पूर्वं तृतीये स्पन्दते च सः ॥३७॥दौर्हृदस्याप्रदानेन गर्भो दोषमवाप्नुयात् ।वैरूप्यं मरणं वापि तस्मात्कार्यं प्रियं स्त्रियाः ॥३८॥स्थैर्यं चतुर्थे त्वङ्गानां पञ्चमे शोणितोद्भवः ।षष्ठे बलं च वर्णश्च नखरोम्णां च सम्भवः ॥३९॥मनसा चेतनायुक्तो नखरोमशतावृतः ।सप्तमे चाष्टमे चैव त्वचावान् स्मृतिवानपि ॥४०॥पुनर्गर्भं पुनर्धात्रीमेनस्तस्य प्रधावति ।अष्टमे मास्यतो गर्भो जातः प्राणैर्वियुज्यते ॥४१॥नवमे दशमे वापि प्रबलैः सूतिमारुतैः ।निर्गच्छते बाण इव यन्त्रच्छिद्रेण सज्वरः ॥४२॥शरीरावयवैर्युक्तो ह्यङ्गप्रत्यङ्गसंयुतः ।अष्टोत्तरं मर्मशतं तत्रास्था तु शतत्रयम् ॥४३॥सप्त शिरःकपालानि विहितानि स्वयम्भुवा ।तिस्रः कोट्योऽर्धकोटी च रोम्णामङ्गेषु भारत ॥४४॥द्वासप्ततिसहस्राणि हृदयादभिनिसृताः ।हितानाम हि ता नाड्यस्तासां मध्ये शशिप्रभा ॥४५॥एवं प्रवर्तते चक्रं भूतग्रामे चतुर्विधे ।उत्पत्तिश्च विनाशश्च भवतः सर्वदेहिनाम् ॥४६॥गतिरूर्ध्वा च धर्मेण ह्यधर्मेण त्वधोगतिः ।जायते सर्ववर्णानां स्वधर्मचलनान्नृप ॥४७॥देवत्वे मानवत्वे च दानभोगादिकाः क्रियाः ।दृश्यन्ते या महाराज तत्सर्वं कर्मजं फलम् ॥४८॥स्वकर्म विहिते घोरे कामक्सोधार्जिते शुभे ।निमज्जेन्नरके घोरे यस्योत्तारो न विद्यते ॥४९॥उत्तारणाय जन्तूनां नर्मदातटसंस्थितम् ।एवमेतन्महातीर्थं नरकेश्वरमुत्तमम् ॥५०॥नरकापहं महापुण्यं महापातकनाशनम् ।तत्तीर्थं सर्वतीर्थानामुत्तमं भुवि दुर्लभम् ॥५१॥तत्र तीर्थे तु यः स्नात्वा पूजयेत महेश्वरम् ।महापातकयुक्तोऽपि नरकं नैव पश्यति ॥५२॥तत्र तीर्थे तु यो दद्याद्धेनुं वैतरणीं शुभाम् ।स मुच्यते सुखेनैव वैतरण्यां न संशयः ॥५३॥युधिष्ठिर उवाच -यमद्वारे महाघोरे या सा वैतरणी नदी ।किंरूपा किंप्रमाणा सा कथं सा वहति द्विज ॥५४॥कथं तस्याः प्रमुच्यन्ते केषां वासस्तु संततम् ।केषां तु सानुकूला सा ह्येतद्विस्तरतो वद ॥५५॥श्रीमार्कण्डेय उवाच -धर्मपुत्र महाबाहो शृणु सर्वं मयोदितम् ।या सा वैतरणी नाम यमद्वारे महासरित् ॥५६॥अगाधा पाररहिता दृष्टमात्रा भयावहा ।पूयशोणिततोया सा मांसकर्दमनिर्मिता ॥५७॥तत्तोयं भ्रमते तूर्णं तापीमध्ये घृतं यथा ।कृमिभिः सङ्कुलं पूयं वज्रतुण्डैरयोमुखैः ॥५८॥शिशुमारैश्च मकरैर्वज्रकर्तरिसंयुतैः ।अन्यैश्च जलजीवैः सा सुहिंस्रैर्मर्मभेदिभिः ॥५९॥तपन्ति द्वादशादित्याः प्रलयान्त इवोल्बणाः ।पतन्ति तत्र वै मर्त्याः क्रन्दन्तो भृशदारुणम् ॥६०॥हा भ्रातः पुत्र हा मातः प्रलपन्ति मुहुर्मुहुः ।असिपत्त्रवने घोरे पतन्तं योऽभिरक्षति ॥६१॥प्रतरन्ति निमज्जन्ति ग्लानिं गच्छन्ति जन्तवः ।चतुर्विधैः प्राणिगणैर्द्रष्टव्या सा महानदी ॥६२॥तरन्ति तस्यां सद्दानैरन्यथा तु पतन्ति ते ।मातरं ये न मन्यन्ते ह्याचार्यं गुरुमेव च ॥६३॥अवजानन्ति मूढा ये तेषां वासस्तु संततम् ।पतिव्रतां साधुशीलामूढां धर्मेषु निश्चलाम् ॥६४॥परित्यजन्ति ये पापाः संततं तु वसन्ति ते ।विश्वासप्रतिपन्नानां स्वामिमित्रतपस्विनाम् ॥६५॥स्त्रीबालवृद्धदीनानां छिद्रमन्वेषयन्ति ये ।पच्यन्ते तत्र मध्ये वै क्रन्दमानाः सुपापिनः ॥६६॥श्रान्तं बुभुक्षितं विप्रं यो विघ्नयति दुर्मतिः ।कृमिभिर्भक्ष्यते तत्र यावत्कल्पशतत्रयम् ॥६७॥ब्राह्मणाय प्रतिश्रुत्य यो दानं न प्रयच्छति ।आहूय नास्ति यो ब्रूते तस्य वासस्तु संततम् ॥६८॥अग्निदो गरदश्चैव राजगामी च पैशुनी ।कथाभङ्गकरश्चैव कूटसाक्षी च मद्यपः ॥६९॥वज्रविध्वंसकश्चैव स्वयंदत्तापहारकः ।सुक्षेत्रसेतुभेदी च परदारप्रधर्षकः ॥७०॥ब्राह्मणो रसविक्रेता वृषलीपतिरेव च ।गोकुलस्य तृषार्तस्य पालीभेदं करोति यः ॥७१॥कन्याभिदूषकश्चैव दानं दत्त्वा तु तापकः ।शूद्रस्तु कपिलापानी ब्राह्मणो मांसभोजनी ॥७२॥एते वसन्ति सततं मा विचारं कृथा नृप ।सानुकूला भवेद्येन तच्छृणुष्व नराधिप ॥७३॥अयने विषुवे चैव व्यतीपाते दिनक्षये ।अन्येषु पुण्यकालेषु दीयते दानमुत्तमम् ॥७४॥कृष्णां वा पाटलां वापि कुर्याद्वैतरणीं शुभाम् ।स्वर्णशृङ्गीं रूप्यखुरां कांस्यपात्रस्य दोहिनीम् ॥७५॥कृष्णवस्त्रयुगाच्छन्नां सप्तधान्यसमन्विताम् ।कुर्यात्सद्रोणशिखर आसीनां ताम्रभाजने ॥७६॥यमं हैमं प्रकुर्वीत लोहदण्डसमन्वितम् ।इक्षुदण्डमयं बद्ध्वा ह्युडुपं पट्टबन्धनैः ॥७७॥उडुपोपरि तां धेनुं सूर्यदेहसमुद्भवाम् ।कृत्वा प्रकल्पयेद्विद्वाञ्छत्त्रोपानद्युगान्विताम् ॥७८॥अङ्गुलीयकवासांसि ब्राह्मणाय निवेदयेत् ।इममुच्चारयेन्मन्त्रं संगृह्यास्याश्च पुच्छकम् ॥७९॥ओं यमद्वारे महाघोरे या सा वैतरणी नदी ।तर्तुकामो ददाम्येनां तुभ्यं वैतरणि नमः ।इत्यधिवासनमन्त्रः ॥८०॥गावो मे चाग्रतः सन्तु गावो मे सन्तु पृष्ठतः ।गावो मे हृदये सन्तु गवां मध्ये वसाम्यहम् ॥८१॥ओं विष्णुरूप द्विजश्रेष्ठ भूदेव पङ्क्तिपावन ।सदक्षिणा मया दत्ता तुभ्यं वैतरणि नमः ।इति दानमन्त्रः ॥८२॥ब्राह्मणं धर्मराजं च धेनुं वैतरणीं शिवाम् ।सर्वं प्रदक्षिणीकृत्य ब्राह्मणाय निवेदयेत् ॥८३॥पुच्छं संगृह्य सुरभेरग्रे कृत्वा द्विजं ततः ॥८४॥धेनुके त्वं प्रतीक्षस्व यमद्वारे महाभये ।उत्तितीर्षुरहं धेनो वैतरण्यै नमोऽस्तु ते ।इत्यनुव्रजमन्त्रः ॥८५॥अनुव्रजेत गच्छन्तं सर्वं तस्य गृहं नयेत् ।एवं कृते महीपाल सरित्स्यात्सुखवाहिनी ॥८६॥तारयते तया धेन्वा सा सरिज्जलवाहिनी ।सर्वान्कामानवाप्नोति ये दिव्या ये च मानुषाः ॥८७॥रोगी रोगाद्विमुक्तः स्याच्छाम्यन्ति परमापदः ।स्वस्थे सहस्रगुणितमातुरे शतसंमितम् ॥८८॥मृतस्यैव तु यद्दानं परोक्षे तत्समं स्मृतम् ।स्वहस्तेन ततो देयं मृते कः कस्य दास्यति ।इति मत्वा महाराज स्वदत्तं स्यान्महाफलम् ॥८९॥इत्येवमुक्तं तव धर्मसूनो दानं मया वैतरणीसमुत्थम् ।शृणोति भक्त्या पठतीह सम्यक्स याति विष्णोः पदमप्रमेयम् ॥९०॥श्रीमार्कण्डेय उवाच -प्राप्ते चाश्वयुजे मासि तस्मिन्कृष्णा चतुर्दशी ।स्नात्वा कृत्वा ततः श्राद्धं सम्पूज्य च महेश्वरम् ॥९१॥पितृभ्यो दीयते दानं भक्तिश्रद्धासमन्वितैः ।पश्चाज्जागरणं कुर्यात्सत्कथाश्रवणादिभिः ॥९२॥ततः प्रभातसमये स्नात्वा वै नर्मदाजले ।तर्पणं विधिवत्कृत्वा पित्ःणां देवपूर्वकम् ॥९३॥सौवर्णे घृतसंयुक्तं दीपं दद्याद्द्विजातये ।पश्चात्संभोजयेद्विप्रान् स्वयं चैव विमत्सरः ॥९४॥एवं कृते नरश्रेष्ठ न जन्तुर्नरकं व्रजेत् ।अवश्यमेव मनुजैर्द्रष्टव्या नारकी स्थितिः ॥९५॥अनेन विधिना कृत्वा न पश्येन्नरकान्नरः ।तत्र तीर्थे मृतानां तु नराणां विधिना नृप ॥९६॥मन्वन्तरं शिवे लोके वासो भवति दुर्लभे ।विमानेनार्कवर्णेन किंकिणीशतशोभिना ॥९७॥स गच्छति महाभाग सेव्यमानोऽप्सरोगणैः ।भुनक्ति विविधान्भोगानुक्तकालं न संशयः ॥९८॥पूर्णे चैव ततः काल इह मानुष्यतां गतः ।सर्वव्याधिविनिर्मुक्तो जीवेच्च शरदां शतम् ॥९९॥प्राप्य चाश्वयुजे मासि कृष्णपक्षे चतुर्दशीम् ।अहोरात्रोषितो भूत्वा पूजयित्वा महेश्वरम् ।महापातकयुक्तोऽपि मुच्यते नात्र संशयः ॥१००॥अष्टाविंशतिकोट्यो वै नरकाणां युधिष्ठिर ।विमुक्ता नरकैर्दुःखैः शिवलोकं व्रजन्ति ते ॥१०१॥तत्र भुक्त्वा महाभोगान्दिव्यैश्वर्यसमन्वितान् ।लभन्ते मानुषं जन्म दुर्लभं भुवि मानवाः ॥१०२॥॥ इति श्रीस्कन्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डेऽनरकेश्वरतीर्थमाहात्म्यवर्णनं नामैकोनषष्ट्युत्तरशततमोऽध्यायः ॥ N/A References : N/A Last Updated : December 15, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP