संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्|
अध्याय २२०

रेवा खण्डम् - अध्याय २२०

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


श्रीमार्कण्डेय उवाच -
ततो गच्छेद्धराधीश लोटणेश्वरमुत्तमम् ।
उत्तरे नर्मदाकूले सर्वपातकनाशनम् ॥१॥
तत्क्षणादेव तत्सर्वं सप्तजन्मार्जितं त्वघम् ।
नश्यते देवदेवस्य दर्शनादेव तन्नृप ॥२॥
बाल्यात्प्रभृति यत्पापं यौवने चापि यत्कृतम् ।
तत्सर्वं विलयं याति देवदेवस्य दर्शनात् ॥३॥

युधिष्ठिर उवाच -
आश्चर्यभूतं लोकेषु नर्मदाचरितं महत् ।
त्वया वै कथितं विप्र सकलं पापनाशनम् ॥४॥
यदेकं परमं तीर्थं सर्वतीर्थफलप्रदम् ।
श्रोतुमिच्छामि तत्सर्वं दयां कृत्वा वदाशु मे ॥५॥
ये केचिद्दुर्लभाः प्रश्नास्त्रिषु लोकेषु सत्तम ।
त्वत्प्रसादेन ते सर्वे श्रुता मे सह बान्धवैः ॥६॥
एतमेकं परं प्रश्नं सर्वप्रश्नविदां वर ।
श्रुत्वाहं त्वत्प्रसादेन यत्र यामि सबान्धवः ॥७॥

श्रीमार्कण्डेय उवाच -
साधुसाधु महाप्राज्ञ यस्य ते मतिरीदृशी ।
दुर्लभं त्रिषु लोकेषु तस्य ते नास्ति किंचन ॥८॥
धर्ममर्थं च कामं च मोक्षं च भरतर्षभ ।
काले काले च यो वेत्ति कर्तव्यस्तेन धीमता ॥९॥
तस्मात्ते सम्प्रवक्ष्यामि प्रश्नस्यास्योत्तरं शुभम् ।
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यन्ते भुवि मानवाः ॥१०॥
नर्मदा सरितां श्रेष्ठा सर्वतीर्थमयी शुभा ।
विशेषः कथितस्तस्या रेवासागरसङ्गमे ॥११॥
आगच्छन्तीं नृपश्रेष्ठ दृष्ट्वा रेवां महोदधिः ।
प्रणम्य च पुनर्देवीं सङ्गमे रेवया सह ॥१२॥
संचिन्त्य मनसा केयमिति मां वै सरिद्वरा ।
ज्ञात्वा संचिन्त्य मनसा रेवां लिङ्गोद्भवां पराम् ॥१३॥
लुठन्वै सम्मुखस्तात गतो रेवां महोदधिः ।
समुद्रे नर्मदा यत्र प्रविष्टास्ति महानदी ॥१४॥
तत्र देवाधिदेवस्य समुद्रे लिङ्गमुत्थितम् ।
लिङ्गोद्भूता महाभागा नर्मदा सरितां वरा ॥१५॥
लयं गता तत्र लिङ्गे तेन पुण्यतमा हि सा ।
नर्मदायां वसन्नित्यं नर्मदाम्बु पिबन्सदा ।
दीक्षितः सर्वयज्ञेषु सोमपानं दिने दिने ॥१६॥
सङ्गमे तत्र यः स्नात्वा लोटणेश्वरमर्चयेत् ।
सोऽश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः ॥१७॥
वाचिकं मानसं पापं कर्मणा यत्कृतं नृप ।
लोटणेश्वरमासाद्य सर्वं विलयतां व्रजेत् ॥१८॥
कार्त्तिक्यां तु विशेषेण कथितं शङ्करेण तु ।
तच्छृणुष्व नृपश्रेष्ठ सर्वपापापनोदनम् ॥१९॥
सम्प्राप्तां कार्त्तिकीं दृष्ट्वा गत्वा तत्र नृपोत्तम ।
चतुर्दश्यामुपोष्यैव स्नात्वा वै नर्मदाजले ॥२०॥
संतर्प्य पितृदेवांश्च श्राद्धं कृत्वा यथाविधि ।
रात्रौ जागरणं कुर्यात्सम्पूज्य लोटणेश्वरम् ॥२१॥
सफलं जीवितं तस्य सफलं तस्य चेष्टितम् ।
पङ्गवस्ते न सन्देहो जन्म तेषां निरर्थकम् ॥२२॥
एकाग्रमनसा यैस्तु न दृष्टो लोटणेश्वरः ।
पिशाचत्वं वियोनित्वं न भवेत्तस्य वै कुले ॥२३॥
सङ्गमे तत्र यो गत्वा स्नानं कृत्वा यथाविधि ।
पुण्यैश्चैव तथा कुर्याद्गीतैर्नृत्यैः प्रबोधनम् ॥२४॥
ततः प्रभातां रजनीं दृष्ट्वा नत्वा महोदधिम् ।
आमन्त्र्य स्नानविधिना स्नानं तत्र तु कारयेत् ॥२५॥
ओं नमो विष्णुरूपाय तीर्थनाथाय ते नमः ।
सान्निध्यं कुरु मे देव समुद्र लवणाम्भसि ।
इत्यामन्त्रणमन्त्रः ॥२६॥
अग्निश्च तेजो मृडया च देहो रेतोऽधा विष्णुरमृतस्य नाभिः ।
एवं ब्रुवन् पाण्डव सत्यवाक्यं ततोऽवगाहेत पतिं नदीनाम् ।
इति स्नानमन्त्रः ॥२७॥
आजन्मशतसाहस्रं यत्पापं कृतवान्नरः ।
सकृत्स्नानाद्व्यपोहेत पापौघं लवणाम्भसि ॥२८॥
अन्यथा हि कुरुश्रेष्ठ देवयोनिरसौ विभुः ।
कुशाग्रेणापि विबुधैर्न स्प्रष्टव्यो महार्णवः ॥२९॥
सर्वरत्नप्रधानस्त्वं सर्वरत्नाकराकर ।
सर्वामरप्रधानेश गृहाणार्घं नमोऽस्तु ते ।
इति अर्वमन्त्र ॥३०॥
पितृदेवमनुष्यांश्च संतर्प्य तदनन्तरम् ।
उत्तीर्य तीरे तस्यैव पञ्चभिर्द्विजपुंगवैः ॥३१॥
श्राद्धं समाचरेत्पश्चाल्लोकपालानुरूपिभिः ।
कृत्वाग्रे लोकपालांस्तु प्रतिष्ठाप्य यथाविधि ॥३२॥
सम्पूज्य च यथान्यायं तानेव ब्राह्मणैः सह ।
सुकृतं दुष्कृतं पश्चात्तेभ्यः सर्वं निवेदयेत् ॥३३॥
बाल्यात्प्रभृति यत्पापं कृतं वार्धकयौवने ।
प्रख्यापयित्वा तेभ्योऽग्रे लोकपालान्निमन्त्रयेत् ॥३४॥
बाल्यात्प्रभृति यत्किंचित्कृतमा जन्मतोऽशुभम् ।
विप्रेभ्यः कथितं सर्वं तत्सांनिध्यं स्थितेषु मे ॥३५॥
इत्युक्त्वा स लुठेत्पश्चात्तेभ्योऽग्रेण च सम्मुखम् ।
अनुमान्य च तान्पञ्च पश्चात्स्नानं समाचरेत् ॥३६॥
श्राद्धं च कार्यं विधिवत्पितृभ्यो नृपसत्तम ।
एवं कृते नृपश्रेष्ठ सर्वपापक्षयो भवेत् ॥३७॥
जिज्ञासार्थं तु यः कश्चिदात्मानं ज्ञातुमिच्छति ।
शुभाशुभं च यत्कर्म तस्य निष्ठामिमां शृणु ॥३८॥
स्नात्वा तत्र महातीर्थे लुठमानो व्रजेन्नरः ।
पापकर्मान्यतो याति धर्मकर्मा व्रजेन्नदीम् ॥३९॥
पापकर्मा ततो ज्ञात्वा पापं मे पूर्वसंचितम् ।
स्नात्वा तीर्थवरे तस्मिन्दानं दद्याद्यथाविधि ॥४०॥
लोटणेश्वरमभ्यर्च्य सर्वपापैः प्रमुच्यते ।
अवक्रगमनं गत्वा मुच्यते सर्वपातकैः ॥४१॥
तस्मात्सर्वप्रयत्नेन ज्ञात्वैवं नृपसत्तम ।
स्नातव्यं मानवैस्तत्र यत्र संनिहितो हरः ॥४२॥
एवं स्नात्वा विधानेन ब्राह्मणान् वेदपारगान् ।
पूजयेत्पृथिवीपाल सर्वपापोपशान्तये ॥४३॥
एवं गुणविशिष्टं हि तत्तीर्थं नृपसत्तम ।
तस्य तीर्थस्य माहात्म्यं शृणुष्वैकमना नृप ॥४४॥
तत्र तीर्थे नरः स्नात्वा संतर्प्य पितृदेवताः ।
श्राद्धं यः कुरुते तत्र पित्ःणां भक्तिभावितः ॥४५॥
दानं ददाति विप्रेभ्यो गोभूतिलहिरण्यकम् ।
षष्टिवर्षसहस्राणि कोटिर्वर्षशतानि च ॥४६॥
विमानवरमारूढः स्वर्गलोके महीयते ।
नर्मदासर्वतीर्थेभ्यः स्नाने दाने च यत्फलम् ॥४७॥
तत्फलं समवाप्नोति रेवासागरसङ्गमे ।
सुवर्णं रजतं ताम्रं मणिमौक्तिकभूषणम् ॥४८॥
गोवृषं च महीं धान्यं तत्र दत्त्वाक्षयं फलम् ।
शुभस्याप्यशुभस्यापि तत्र तीर्थे न संशयः ॥४९॥
तत्र तीर्थे नरः कश्चित्प्राणत्यागं युधिष्ठिर ।
करोति भक्त्या विधिवत्तस्य पुण्यफलं शृणु ॥५०॥
कोटिवर्षं तु वर्षाणां क्रीडित्वा शिवमन्दिरे ।
वेदवेदाङ्गविद्विप्रो जायते विमले कुले ॥५१॥
पुत्रपौत्रसमृद्धोऽसौ धनधान्यसमन्वितः ।
सर्वव्याधिविनिर्मुक्तो जीवेच्च शरदांशतम् ॥५२॥
अपि द्वादशयात्रासु सोमनाथे यदर्चिते ।
कार्त्तिक्यां कृत्तिकायोगे तत्पुण्यं लोटणेश्वरे ॥५३॥
गया गङ्गा कुरुक्षेत्रे नैमिषे पुष्करे तथा ।
तत्पुण्यं लभते पार्थ लोटणेश्वरदर्शनात् ॥५४॥
यः शृणोति नरो भक्त्या पठ्यमानमिदं शुभम् ।
सर्वपापविनिर्मुक्तो रुद्रलोकं स गच्छति ॥५५॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे लोटणेश्वरतीर्थमाहात्म्यवर्णनं नाम विंशत्युत्तरद्विशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : December 17, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP