संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्| अध्याय १८१ रेवा खण्डम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ विषयानुक्रमणिका विषयानुक्रमणिका रेवा खण्डम् - अध्याय १८१ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १८१ Translation - भाषांतर श्रीमार्कण्डेय उवाच -अतः परं प्रवक्ष्यामि भृगुतीर्थस्य विस्तरम् ।यं श्रुत्वा ब्रह्महा गोघ्नो मुच्यते सर्वपातकैः ॥१॥तत्र तीर्थे तु विख्यातं वृषखातमिति श्रुतम् ।भृगुणा तत्र राजेन्द्र तपस्तप्तं पुरा किल ॥२॥युधिष्ठिर उवाच -भृगुकच्छे स विप्रेन्द्रो निवसन् केन हेतुना ।तपस्तप्त्वा सुविपुलं परां सिद्धिमुपागतः ॥३॥को वा वृष इति प्रोक्तस्तत्खातं येन खानितम् ।एतत्सर्वं यथान्यायं कथयस्व ममानघ ॥४॥श्रीमार्कण्डेय उवाच -एष प्रश्नो महाराज यस्त्वया परिपृच्छितः ।तत्सर्वं कथयिष्यामि शृणुष्वैकमना नृप ॥५॥षष्ठस्तु ब्रह्मणः पुत्रो मानसो भृगुसत्तमः ।तपश्चचार विपुलं श्रीवृते क्षेत्र उत्तमे ॥६॥दिव्यं वर्षसहस्रं तु संशुष्को मुनिसत्तमः ।निराहारो निरानन्दः काष्ठपाषाणवत्स्थितः ॥७॥ततः कदाचिद्देवेशो विमानवरमास्थितः ।उमया सहितः श्रीमांस्तेन मार्गेण चागतः ॥८॥दृष्ट्वा तत्र महाभागं भृगुं वल्मीकवत्स्थितम् ।उवाच देवी देवेशं किमिदं दृश्यते प्रभो ॥९॥ईश्वर उवाच -भृगुर्नाम महादेवि तपस्तप्त्वा सुदारुणम् ।दिव्यं वर्षसहस्रं तु मम ध्यानपरायणः ॥१०॥जलबिन्दु कुशाग्रेण मासे मासे पिबेच्च सः ।संवत्सरशतं साग्रं तिष्ठते च वरानने ॥११॥तच्छ्रुत्वा वचनं गौरी क्रोधसंवर्तितेक्षणा ।उवाच देवी देवेशं शूलपाणिं महेश्वरम् ॥१२॥सत्यमुग्रोऽसि लोके त्वं ख्यापितो वृषभध्वज ।निष्कारुण्यो दुराराध्यः सर्वभूतभयंकरः ॥१३॥दिव्यं वर्षसहस्रं तु ध्यायमानस्य शङ्करम् ।ब्राह्मणस्य वरं कस्मान्न प्रयच्छसि शंस मे ॥१४॥एवमुक्तोऽथ देवेशः प्रहस्य गिरिनन्दिनीम् ।उवाच नरशार्दूल मेघगम्भीरया गिरा ॥१५॥स्त्री विनश्यति गर्वेण तपः क्रोधेन नश्यति ।गावो दूरप्रचारेण शूद्रान्नेन द्विजोत्तमाः ॥१६॥क्रोधान्वितो द्विजो गौरी तेन सिद्धिर्न विद्यते ।वर्षायुतैस्तथा लक्षैर्न किंचित्कारणं प्रिये ॥१७॥एवम्भूतस्य तस्यापि क्रोधस्य चरितं महत् ।एवमुक्त्वा ततः शम्भुर्वृषं दध्यौ च तत्क्षणे ॥१८॥वृषो हि भगवन्ब्रह्मा वृषरूपी महेश्वरः ।ध्यानप्राप्तः क्षणादेव गर्जयन् वै मुहुर्मुहुः ॥१९॥किं करोमि सुरश्रेष्ठ ध्यातः केनैव हेतुना ।करोमि कस्य निधनमकाले परमेश्वर ॥२०॥ईश्वर उवाच -कोपयस्व द्विजश्रेष्ठं गत्वा त्वं भृगुसत्तमम् ।येन मे श्रद्दधत्येषा गौरी लोकैकसुन्दरी ॥२१॥एतच्छ्रुत्वा वृषो गत्वा धर्षणार्थं द्विजोत्तमम् ।नर्मदायास्तटे रम्ये समीपे चाश्रमे भृगुः ॥२२॥ततः शृङ्गैर्गृहीत्वा तु प्रक्षिप्तो नर्मदाजले ।ततः क्रुद्धो भृगुस्तत्र दण्डहस्तो महामुनिः ॥२३॥पशुवत्ते वधिष्यामि दण्डघातेन मस्तके ।शिखायज्ञोपवीते च परिधानं वरासने ॥२४॥सुसंवृतं कृतं तेन धावन्वै पृष्ठतो ब्रवीत् ॥२५॥भृगुरुवाच -पापकर्मन्दुराचार कथं यास्यसि मे वृष ।अवमानं समुत्पाद्य कृत्वा गर्तं खुरैस्तथा ॥२६॥गर्जयित्वा महानादं ततो विप्रमपातयत् ।आत्मानं पातितं ज्ञात्वा वृषेण परमेष्ठिना ॥२७॥भृगुः क्रोधेन जज्वाल हुताहुतिरिवानलः ।करे गृह्य महादण्डं ब्रह्मदण्डमिवापरम् ॥२८॥हन्तुकामो वृषं विप्रोऽभ्यधावत युधिष्ठिर ।धावमानं ततो दृष्ट्वा स वृषः पूर्वसागरे ॥२९॥जम्बूद्वीपं कुशां क्रौञ्चं शाल्मलिं शाकमेव च ।गोमेदं पुष्करं प्राप्तः पूर्वतो दक्षिणापथम् ॥३०॥उत्तरं पश्चिमं चैव द्वीपाद्द्वीपं नरेश्वर ।पातालं सुतलं पश्चाद्वितलं च तलातलम् ॥३१॥तामिस्रमन्धतामिस्रं पातालं सप्तमं ययौ ।ततो जगाम भूर्लोकं प्राणार्थी स वृषोत्तमः ॥३२॥भुवः स्वश्चैव च महस्तपः सत्यं जनस्तथा ।अनुगम्यमानो विप्रेण न शर्म लभते क्वचित् ॥३३॥पापं कृत्वैव पुरुषः कामक्रोधबलार्दितः ।ततो जगाम शरणं ब्रह्माणं विष्णुमेव च ॥३४॥इन्द्रं चन्द्रं तथादित्यैर्याम्यवारुणमारुतैः ।यदा सर्वैः परित्यक्तो लोकालोकैः सुरेश्वरैः ॥३५॥तदा देवं नमस्कृत्वा रक्ष रक्षस्व चाब्रवीत् ।वध्यमानं महादेवो भृगुणा परमेष्ठिना ॥३६॥सर्वलोकैः परित्यक्तमनाथमिव तं प्रभो ।दृष्ट्वा श्रान्तं वृषं देवः पतितं चरणाग्रतः ॥३७॥ततः प्रोवाच भगवान् स्मितपूर्वमिदं वचः ॥३८॥ईश्वर उवाच -पश्य देवि महाभागे शमं विप्रस्य सुन्दरि ॥३९॥पार्वत्युवाच -यावद्विप्रो न चास्माकं कुप्यते परमेश्वर ।तावद्वरं प्रयच्छाशु यदि चेच्छसि मत्प्रियम् ॥४०॥ततो भस्मी जटी शूली चन्द्रार्धकृतशेखरः ।उमार्द्धदेहो भगवान्भूत्वा विप्रमुवाच ह ॥४१॥भोभो द्विजवरश्रेष्ठ क्रोधस्ते न शमं गतः ।यस्मात्तस्मादिदं तात क्रोधस्थानं भविष्यति ॥४२॥ततो दृष्ट्वा च तं शम्भुं भृगुः श्रेष्ठं त्रिलोचनम् ।जानुभ्यामवनिं गत्वा इदं स्तोत्रमुदैरयत् ॥४३॥भृगुरुवाच -प्रणिपत्य भूतनाथं भवोद्भवं भूतिदं भयातीतम् ।भवभीतो भुवनपते विज्ञप्तुं किंचिदिच्छामि ॥४४॥त्वद्गुणनिकरान्वक्तुं का शक्तिर्मानुषस्यास्य ।वासुकिरपि न तावद्वक्तुं वदनसहस्रं भवेद्यस्य ॥४५॥भक्त्या तथापि शङ्कर शशिधर करजालधवलिताशेष ।स्तुतिमुखरस्य महेश्वर प्रसीद तव चरणनिरतस्य ॥४६॥सत्त्वं रजस्तमस्त्वं स्थित्युत्पत्तिविनाशनं देव ।भवभीतो भुवनपते भुवनेश शरणनिरतस्य ॥४७॥यमनियमयज्ञदानं वेदाभ्यासश्च धारणायोगः ।त्वद्भक्तेः सर्वमिदं नार्हन्ति वै कलासहस्रांशम् ॥४८॥उत्कृष्टरसरसायनखड्गां जनविवरपादुकासिद्धिः ।चिह्नं हि तव नतानां दृश्यत इह जन्मनि प्रकटम् ॥४९॥शाठ्येन यदि प्रणमति वितरसि तस्यापि भूतिमिच्छया देव ।भवति भवच्छेदकरी भक्तिर्मोक्षाय निर्मिता नाथ ॥५०॥परदारपरस्वरतं परपरिभवदुःखशोकसंतप्तम् ।परवदनवीक्षणपरं परमेश्वर मां परित्राहि ॥५१॥अधिकाभिमानमुदितं क्षणभङ्गुरविभवविलसन्तम् ।क्रूरं कुपथाभिमुखं शङ्कर शरणागतं परित्राहि ॥५२॥दीनं द्विजं वरार्थे बन्धुजने नैव पूरिता ह्याशा ।छिन्द्धि महेश्वर तृष्णां किं मूढं मां विडम्बयसि ॥५३॥तृष्णां हरस्व शीघ्रं लक्ष्मीं दद हृदयवासिनीं नित्यम् ।छिन्द्धि मदमोहपाशं मामुत्तारय भवाच्च देवेश ॥५४॥करुणाभ्युदयं नाम स्तोत्रमिदं सर्वसिद्धिदं दिव्यम् ।यः पठति भृगुं स्मरति च शिवलोकमसौ प्रयाति देहान्ते ॥५५॥एतच्छ्रुत्वा महादेवः स्तोत्रं च भृगुभाषितम् ।उवाच वरदोऽस्मीति देव्या सह वरोत्तमम् ॥५६॥भृगुरुवाच -प्रसन्नो देवदेवेश यदि देयो वरो मम ।सिद्धिक्षेत्रमिदं सर्वं भविता मम नामतः ॥५७॥भवद्भिः सन्निधानेन स्थातव्यं हि सहोमया ।देवक्षेत्रमिदं पुण्यं येन सर्वं भविष्यति ॥५८॥अत्र स्थाने महास्थानं करोमि जगदीश्वर ।तव प्रसादाद्देवेश पूर्यन्तां मे मनोरथाः ॥५९॥ईश्वर उवाच -श्रिया कृतमिदं पूर्वं किं न ज्ञातं त्वया द्विज ।अनुमान्य श्रियं देवीं यदीयं मन्यते भवान् ॥६०॥कुरुष्व यदभिप्रेतं त्वत्कृतं नः तदन्यथा ।एवमुक्त्वा गते देवे स्नात्वा गत्वा भृगुः श्रियम् ॥६१॥कृत्वा च पारणं तत्र वसन्विप्रस्तया सह ।श्रिया च सहितः काल इदं वचनमब्रवीत् ॥६२॥भृगुरुवाच -यदि ते रोचते भद्रे दुःखासीनं च ते यदि ।त्वया वृते महाक्षेत्रे स्वीयं स्थानं करोम्यहम् ॥६३॥श्रीरुवाच -मम नाम्ना तु विप्रर्षे तव नाम्ना तु शोभनम् ।स्थानं कुरुष्वाभिप्रेतमविरोधेन मे मतिः ॥६४॥भृगुरुवाच -कच्छपाधिष्ठितं ह्येतत्तस्य पृष्ठिगतं रमे ।संमन्त्र्य सहितं तेन शोभनं भवती कुरु ॥६५॥॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे भृगुकच्छोत्पत्तिवर्णनं नामैकाशीत्युत्तरशततमोऽध्यायः ॥ N/A References : N/A Last Updated : December 17, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP