रेवा खण्डम् - अध्याय ७४
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
श्रीमार्कण्डेय उवाच -
रेवाया उत्तरे कूले तीर्थं परमशोभनम् ।
सर्वपापहरं मर्त्ये नाम्ना वै गौतमेश्वरम् ॥१॥
स्थापितं गौतमेनैव लोकानां हितकाम्यया ।
स्वर्गसोपानरूपं तु तीर्थं पुंसां युधिष्ठिर ॥२॥
तत्र गच्छ परं भक्त्या यत्र देवो जगद्गुरुः ।
पातकस्य विनाशार्थं स्वर्गवासप्रदस्तथा ॥३॥
सौभाग्यवर्द्धनं तीर्थं जयदं दुःखनाशनम् ।
पिण्डदानेन चैकेन कुलानामुद्धरेत्त्रयम् ॥४॥
यत्किंचिद्दीयते भक्त्या स्वल्पं वा यदि वा बहु ।
तत्सर्वं शतसाहस्रमाज्ञया गौतमस्य हि ॥५॥
तीर्थानां परमं तीर्थं स्वयं रुद्रेण भाषितम् ॥६॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चमावन्त्यखण्डे रेवाखण्डे गौतमेश्वरतीर्थमाहात्म्यवर्णनं नाम चतुःसप्ततितमोऽध्यायः ॥
N/A
References : N/A
Last Updated : December 11, 2024
TOP