संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्|
अध्याय ११९

रेवा खण्डम् - अध्याय ११९

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र कह्लोडीतीर्थमुत्तमम् ।
रेवायाश्चोत्तरे कूले सर्वपापविनाशनम् ॥१॥
हितार्थं सर्वभूतानामृषिभिः स्थापितं पुरा ।
तपसा तु समुद्धृत्य नर्मदायां महाम्भसि ॥२॥
स्नात्वा तु कपिलातीर्थे कपिलां यः प्रयच्छति ।
श्रुत्वा चाख्यानकं दिव्यं ब्राह्मणाञ्छृणु यत्फलम् ॥३॥
सर्वेषामेव दानानां कपिलादानमुत्तमम् ।
ब्राह्मणान्वेषितं पूर्वमृषिदेवसमागमे ॥४॥
सद्यः प्रसूतां कपिलां शोभनां यः प्रयच्छति ।
सोपवासो जितक्रोधस्तस्य पुण्यफलं शृणु ॥५॥
ससमुद्रगुहा तेन सशैलवनकानना ।
दत्ता चैव महाबाहो पृथिवी नात्र संशयः ॥६॥
वाचिकं मानसं पापं कर्मणा यत्पुरा कृतम् ।
नश्यते कपिलां दत्त्वा सप्तजन्मार्जितं नृप ॥७॥
भूमिदानं धनं धान्यं हस्त्यश्वकनकादिकम् ।
कपिलादानस्यैकस्य कलां नार्हन्ति षोडशीम् ॥८॥
तत्र तीर्थे नरः स्नात्वा कपिलां यः प्रयच्छति ।
मृतो विष्णुपुरं याति गीयमानोऽप्सरोगणैः ॥९॥
यावन्ति तस्या रोमाणि सवत्सायास्तु भारत ।
तावद्वर्षसहस्राणि स स्वर्गे क्रीडते चिरम् ॥१०॥
ततोऽवकीर्णकालेन त्विह मानुष्यतां गतः ।
धनधान्यसमोपेतो जायते विपुले कुले ॥११॥
वेदविद्या व्रतस्नातः सर्वशास्त्रविशारदः ।
व्याधिशोकविनिर्मुक्तो जीवेच्च शरदां शतम् ॥१२॥
एतत्ते सर्वमाख्यातं कल्होडीतीर्थमुत्तमम् ।
यत्कृत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥१३॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कह्लोडीतीर्थमाहात्म्यवर्णनं नामैकोनविंशत्युत्तरशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : December 15, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP