संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्|
अध्याय २०३

रेवा खण्डम् - अध्याय २०३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


श्रीमार्कण्डेय उवाच -
ततो गच्छेद्धराधीश कोटितीर्थमनुत्तमम् ।
यत्र सिद्धा महाभागाः कोटिसंख्या महर्षयः ॥१॥
तपः कृत्वा सुविपुलमृषिभिः स्थापितः शिवः ।
तथा कोटीश्वरी देवी चामुण्डा महिषार्दिनी ॥२॥
कृष्णपक्षे चतुर्दश्यां मासि भाद्रपदे नृप ।
तीर्थकोटीः समाहूय मुनिभिः स्थापितः शिवः ॥३॥
तस्यां तिथौ च हस्तर्क्षं सर्वपापप्रणाशनम् ।
तत्र तीर्थे तदा गत्वा स्नानं कृत्वा समाहितः ॥४॥
नरकादुद्धरत्याशु पुरुषानेकविंशतिम् ।
तिलोदकप्रदानेन किमुत श्राद्धदो नरः ॥५॥
स्नानं दानं जपो होमः स्वाध्यायो देवतार्चनम् ।
तस्य तीर्थस्य योगेन सर्वं कोटिगुणं भवेत् ॥६॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कोटितीर्थमाहात्म्यवर्णनं नाम त्र्युत्तरद्विशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : December 17, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP