रेवा खण्डम् - अध्याय २०४
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
श्रीमार्कण्डेय उवाच -
भृगुतीर्थं ततो गच्छेत्तीर्थराजमनुत्तमम् ।
पैतामहं महापुण्यं सर्वपातकनाशनम् ॥१॥
ब्रह्मणा तत्र तीर्थे तु पुरा वर्षशतत्रयम् ।
आराधनं कृतं शम्भोः कस्मिंश्चित्कारणान्तरे ॥२॥
युधिष्ठिर उवाच -
किमर्थं मुनिशार्दूल ब्रह्मा लोकपितामहः ।
आराधयद्देवदेवं महाभक्त्या महेश्वरम् ॥३॥
आराध्यः सर्वभूतानां जगद्भर्ता जगद्गुरुः ।
श्रोतव्यं श्रोतुमिच्छामि महदाश्चर्यमुत्तमम् ॥४॥
धर्मपुत्रवचः श्रुत्वा मार्कण्डेयो मुनीश्वरः ।
कथयामास तद्वृत्तमितिहासं पुरातनम् ॥५॥
मार्कण्डेय उवाच -
स्वपुत्रिकामभिगन्तुमिच्छन्पूर्वं पितामहः ।
शप्तस्तु देवदेवेन कोपाविष्टेन सत्तम ॥६॥
वेदास्तव विनश्यन्ति ज्ञानं च कमलासन ।
अपूज्यः सर्वलोकानां भविष्यसि न संशयः ॥७॥
एवं दत्ते ततः शापे ब्रह्मा खेदावृतस्तदा ।
रेवाया उत्तरे कूले स्नात्वा वर्षशतत्रयम् ।
तोषयामास देवेशं तुष्टः प्रोवाच शङ्करः ॥८॥
पूज्यस्त्वं भविता लोके प्राप्ते पर्वणि पर्वणि ।
अहमत्र च वत्स्यामि देवैश्च पितृभिः सह ॥९॥
श्रीमार्कण्डेय उवाच -
तदाप्रभृति तत्तीर्थं ख्यातिं प्राप्तं पितामहात् ।
सर्वपापहरं पुण्यं सर्वतीर्थेष्वनुत्तमम् ॥१०॥
तत्र भाद्रपदे मासि कृष्णपक्षे विशेषतः ।
अमावास्यां तु यः स्नात्वा तर्पयेत्पितृदेवताः ॥११॥
पिण्डदानेन चैकेन तिलतोयेन वा नृप ।
तृप्यन्ति द्वादशाब्दानि पितरो नात्र संशयः ॥१२॥
कन्यागते तु यस्तत्र नित्यं श्राद्धप्रदो भवेत् ।
अवाप्य तृप्तिं तत्पूर्वे वल्गन्ति च हसन्ति च ॥१३॥
सर्वेषु पितृतीर्थेषु श्राद्धं कृत्वास्ति यत्फलम् ।
तत्फलं समवाप्नोति दर्शे तत्र न संशयः ॥१४॥
पैतामहे नरः स्नात्वा पूजयन्पार्वतीपतिम् ।
मुच्यते नात्र सन्देहः पातकैश्चोपपातकैः ॥१५॥
तत्र तीर्थे मृतानां तु नराणां भावितात्मनाम् ।
अनिवर्तिका गती राजन्रुद्रलोकादसंशयम् ॥१६॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे पैतामहतीर्थमाहात्म्यवर्णनं नाम चतुरधिकद्विशततमोऽध्यायः ॥
N/A
References : N/A
Last Updated : December 17, 2024
TOP