संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्|
अध्याय ६१

रेवा खण्डम् - अध्याय ६१

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


श्रीमार्कण्डेय उवाच -
ततो गच्छेत्परं पुण्यं नर्मदादक्षिणे तटे ।
शक्रतीर्थं सुविख्यातमशेषाघविनाशनम् ॥१॥
पुरा शक्रेण तत्रैव तपो वै दुरतिक्रमम् ।
प्रारब्धं परया भक्त्या देवं प्रति महेश्वरम् ॥२॥
ततः संतोषितो देव उमापतिर्नराधिप ।
देवेन्द्रत्वं वरं राज्यं दानवानां वधं ददौ ॥३॥
लब्धं शक्रेण नृपते नर्मदातीर्थभावतः ।
ततः पुण्यतमं तीर्थं संजातं वसुधातले ॥४॥
कार्त्तिकस्य तु मासस्य कृष्णपक्षे त्रयोदशीम् ।
उपोष्य वै नरो भक्त्या सर्वपापैः प्रमुच्यते ॥५॥
दुःस्वप्नसम्भवैः पापैर्दुर्निमित्तसमुद्भवैः ।
ग्रहशाकिनिसम्भूतैर्मुच्यते पाण्डुनन्दन ॥६॥
शक्रेश्वरं नृपश्रेष्ठ ये प्रपश्यन्ति भक्तितः ।
तेषां जन्मकृतं पापं नश्यते नात्र संशयः ॥७॥
अगम्यागमने चैव अवाह्ये चैव वाहिते ।
स्वामिमित्रविघाते यन्नश्यते नात्र संशयः ॥८॥
गोप्रदानं प्रकर्तव्यं शुभं ब्राह्मणपुंगवे ।
धुर्यं वा दापयेत्तस्मिन् सर्वाङ्गरुचिरं नृप ॥९॥
दातव्यं परया भक्त्या स्वर्गे वासमभीप्सता ।
एतत्ते सर्वमाख्यातं शक्रेश्वरफलं नृप ॥१०॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शक्रेश्वरतीर्थमाहात्म्यवर्णनं नामैकषष्टितमोऽध्यायः ॥

N/A

References : N/A
Last Updated : December 09, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP