रेवा खण्डम् - अध्याय २०६
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
श्रीमार्कण्डेय उवाच -
गच्छेत्ततः क्षोणिनाथ तीर्थं परमशोभनम् ।
सर्वपापहरं पुण्यं दशकन्येति विश्रुतम् ।
महादेवकृतं पुण्यं सर्वकामफलप्रदम् ॥१॥
तत्र तीर्थे महादेवो दशकन्या गुणान्विताः ।
ब्रह्मणो वरयामास ह्युद्वाहेन युयोज ह ॥२॥
तदाप्रभृति तत्तीर्थं दशकन्येति विश्रुतम् ।
सर्वपापहरं पुण्यमक्षयं कीर्तितं फलम् ॥३॥
तत्र तीर्थे तु यः कन्यां ददाति समलंकृताम् ।
प्राप्नोति पुरुषो दत्त्वा यथाशक्त्या स्वलंकृताम् ॥४॥
तेन दानोत्थपुण्येन पूतात्मानो नराधिप ।
वसन्ति रोमसंख्यानि वर्षाणि शिवसन्निधौ ॥५॥
ततः कालेन महता त्विह लोके नरेश्वर ।
मानुष्यं प्राप्य दुष्प्राप्यं धनकोटीपतिर्भवेत् ॥६॥
तत्र तीर्थे तु यो भक्त्या स्नात्वा विप्राय काञ्चनम् ।
सम्प्रयच्छति शान्ताय सोऽत्यन्तं सुखमश्नुते ॥७॥
वाचिकं मानसं वापि कर्मजं यत्पुरा कृतम् ।
तत्सर्वं विलयं याति स्वर्णदानेन भारत ॥८॥
नरो दत्त्वा सुवर्णं चापि वालाग्रमात्रकम् ।
तत्र तीर्थे दिवं याति मृतो नास्त्यत्र संशयः ॥९॥
तत्र विद्याधरैः सिद्धैर्विमानवरमास्थितः ।
पूज्यमानो वसेत्तावद्यावदाभूतसम्प्लवम् ॥१०॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे दशकन्यातीर्थमाहात्म्यवर्णनं नाम षडुत्तरद्विशततमोऽध्यायः ॥
N/A
References : N/A
Last Updated : December 17, 2024
TOP