संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्|
अध्याय १२८

रेवा खण्डम् - अध्याय १२८

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


मार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र भृकुटेश्वरमुत्तमम् ।
यत्र सिद्धो महाभागो भृगुः परमकोपनः ॥१॥
तेन वर्षशतं साग्रं तपश्चीर्णं पुरानघ ।
पुत्रार्थं वरयामास पुत्रं पुत्रवतां वरः ॥२॥
वरो दत्तो महाभाग देवेनान्धकघातिना ।
तत्र तीर्थे तु यः स्नात्वा पूजयेत्परमेश्वरम् ॥३॥
अग्निष्टोमस्य यज्ञस्य फलमष्टगुणं लभेत् ।
भृकुटेशं तु यः कश्चिद्घृतेन मधुना सह ॥४॥
पुत्रार्थी स्नापयेद्भक्त्या स लभेत्पुत्रमीप्सितम् ।
तत्र तीर्थे तु यः स्नात्वा दद्याद्विप्राय काञ्चनम् ॥५॥
गोदानं वा महीं वापि तस्य पुण्यफलं शृणु ॥६॥
ससमुद्रगुहा तेन सशैलवनकानना ।
दत्ता पृथ्वी न सन्देहस्तेन सर्वा नृपोत्तम ॥७॥
तेन दानेन स स्वर्गे क्रीडयित्वा यथासुखम् ।
मर्त्ये भवति राजेन्द्रो ब्राह्मणो वा सुपूजितः ॥८॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे भृकुटेश्वरतीर्थमाहात्म्यवर्णनं नामाष्टाविंशत्युत्तरशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : December 15, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP