संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्| अध्याय १० रेवा खण्डम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ विषयानुक्रमणिका विषयानुक्रमणिका रेवा खण्डम् - अध्याय १० भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १० Translation - भाषांतर युधिष्ठिर उवाच -कस्मिन्कल्पे महाभागा नर्मदेयं द्विजोत्तम ।विभक्ता ऋषिभिः सर्वैस्तपोयुक्तैर्महात्मभिः ॥१॥एतद्विस्तरतः सर्वं ब्रूहि मे वदतां वर ।कल्पान्ते यद्भवेत्कष्टं लोकानां तत्त्वमेव च ॥२॥अतीते तु पुरा कल्पे यथेयं वर्ततेऽनघ ।अस्यान्त्यस्य च कल्पस्य व्यवस्थां कथय प्रभो ।एवमुक्तः सभामध्ये मार्कण्डो वाक्यमब्रवीत् ॥३॥मार्कण्डेय उवाच -वक्ष्येऽहं श्रूयतां सर्वैः कथेयं पूर्वतः श्रुता ॥४॥महत्कथेयं वैशिष्टी कल्पादस्मात्परं तु या ।लोकक्षयकरो घोर आसीत्कालः सुदारुणः ॥५॥तस्मिन्नपि महाघोरे यथेयं वा मृता सती ।परितुष्टैर्विभक्ता च शृणुध्वं तां कथामिमाम् ॥६॥युगान्ते समनुप्राप्ते पितामहदिनत्रये ।मानसा ब्रह्मणः पुत्राः साक्षाद्ब्रह्मेव सत्तमाः ॥७॥सनकाद्या महात्मानो ये च वैमानिका गणाः ।यमेन्द्रवरुणाद्याश्च लोकपाला दिनत्रये ॥८॥कालापेक्षास्तु तिष्ठन्ति लोकवृत्तान्ततत्पराः ।ततः कल्पक्षये प्राप्ते तेषां ज्ञानमनुत्तमम् ॥९॥सर्वेषां नश्यते चायुर्युगरूपानुसारतः ।भूर्लोकं ते परित्यज्य अगमंश्च भुवं तदा ॥१०॥स्वर्लोकं च महश्चैव जनश्चैव तपस्तदा ।आश्रयं सत्यलोकं च सर्वलोकमनुत्तमम् ॥११॥कालं युगसहस्रान्तं पुत्रपौत्रसमन्विताः ।सत्यलोके च तिष्ठन्ति यावत्संजायते जगत् ॥१२॥ब्रह्मपुत्राश्च ये केचित्कल्पादौ न भवन्ति ह ।त्रैलोक्यं ते परित्यज्य अनाधारं भवन्ति च ॥१३॥तैः सार्धं ये तु ते विप्रा अन्ये चापि तपोधनाः ।यक्षरक्षःपिशाचाश्च अन्ये वैमानिका गणाः ॥१४॥ऋषयश्च महाभागा वर्णाश्चान्ये पृथग्विधाः ।सीदन्ति भूम्यां सहिता ये चान्ये तलवासिनः ॥१५॥अनावृष्टिरभूत्तत्र महती शतवार्षिकी ।लोकक्षयकरी रौद्रा वृक्षवीरुद्विनाशिनी ॥१६॥त्रैलोक्यसंक्षोभकरी सप्तार्णवविशोषणी ।ततो लोकाः क्षुधाविष्टा भ्रमन्तीव दिशो दश ॥१७॥कंदैर्मूलैः फलैर्वापि वर्तयन्ते सुदुःखिताः ।सरितः सागराः कूपाः सेवन्ते पावनानि च ॥१८॥तत्रापि सर्वे शुष्यन्ति सरिद्भिः सह सागराः ।ततो यान्यल्पसाराणि सत्त्वानि पृथिवीतले ॥१९॥तान्येवाग्रे प्रलीयन्ते भिन्नान्युरुजलेन वै ।अथ संक्षीयमाणासु सरित्सु सह सागरैः ॥२०॥ऋषीणां षष्टिसाहस्रं कुरुक्षेत्रनिवासिनाम् ।ये च वैखानसा विप्रा दन्तोलूखलिनस्तथा ॥२१॥हिमाचलगुहागुह्ये ये वसन्ति तपोधनाः ।सर्वे ते मामुपागम्य क्षुत्तृषार्तास्तपोधनाः ॥२२॥ऊचुः प्राञ्जलयः सर्वे सीदयामो महामुने ।सरित्सागरशैलान्तं जगत्संशुष्यते द्विज ॥२३॥कुत्र यास्याम सहिता यावत्कालस्य पर्ययः ।दीर्घायुरसि विप्रेन्द्र न मृतस्त्वं युगक्षये ॥२४॥भूतं भव्यं भविष्यच्च सर्वं तव हृदि स्थितम् ।तस्मात्त्वं वेत्सि सर्वं च कथयस्व महाव्रत ॥२५॥कीदृक्कालं महाभाग क्षपिष्यामोऽथ सुव्रत ।अनावृष्टिहतं सर्वं सीदते सचराचरम् ॥२६॥परित्राहि महाभाग न यथा याम संक्षयम् ।ततः संचिन्त्य मनसा त्वरन्विप्रानथाब्रवम् ॥२७॥कुरुक्षेत्रं त्यजध्वं च पुत्रदारसमन्विताः ।त्यक्त्वोदीचीं दिशं सर्वे यामो याम्यामनुत्तमाम् ॥२८॥नगरग्रामघोषाढ्यां पुरपत्तनशोभिताम् ।गच्छामो नर्मदातीरं बहुसिद्धनिषेवितम् ॥२९॥रुद्राङ्गीं तां महापुण्यां सर्वपापप्रणाशिनीम् ।पश्यामस्तां महाभागां न्यग्रोधावारसंकुलाम् ॥३०॥माहेश्वरैर्भागवतैः सांख्यैः सिद्धैः सुसेविताम् ।अनावृष्टिभयाद्भीताः कूलयोरुभयोरपि ॥३१॥आश्रमे ह्याश्रमान्दिव्यान्कारयामो जितव्रताः ।एवमुक्तास्तु ते सर्वे समेतानुचरैः सह ॥३२॥नर्मदातीरमासाद्य स्थिताः सर्वेऽकुतोभयाः ।किंचित्पूर्वमनुस्मृत्य पुरा कल्पादिभिर्भयम् ॥३३॥प्राप्तास्तु नर्मदातीरमादावेव कलौ युगे ।ततो वर्षशतं पूर्णं दिव्यं रेवातटेऽवसन् ॥३४॥षड्विंशच्च सहस्राणि वर्षाणां मानुषाणि च ।तत्राश्चर्यं मया दृष्टमृषीणां वसतां नृप ॥३५॥अनावृष्टिहते लोके संशुष्के स्थावरे चरे ।भिन्ने युगादिकलने हाहाभूते विचेतने ॥३६॥चातुर्वर्णे प्रलीने तु नष्टे होमबलिक्रमे ।निःस्वाहे निर्वषट्कारे शौचाचारविवर्जिते ॥३७॥इयमेका सरिच्छ्रेष्ठा ऋषिकोटिनिषेविता ।नान्या काचित्त्रिलोकेऽपि रमणीया नरेश्वर ॥३८॥यथेयं पुण्यसलिला इन्द्रस्येवामरावती ।देवतायतनैः शुभ्रैराश्रमैश्च सुकल्पितैः ॥३९॥शोभते नर्मदा देवी स्वर्गे मन्दाकिनी यथा ।यावद्वृक्षा महाशैला यावत्सागरसंभवा ॥४०॥उभयोः कूलयोस्तावन्मण्डितायतनैः शुभैः ।हूयद्भिरग्निहोत्रैश्च हविर्धूमसमाकुला ॥४१॥बभूव नर्मदा देवी प्रावृट्काल इव शर्वरी ।देवतायतनैर्नैकैः पूजासंस्कारशोभिता ॥४२॥सरिद्भिर्भ्राजते श्रेष्ठा पुरी शाक्री च भास्करी ।केचित्पञ्चाग्नितपसः केचिदप्यग्निहोत्रिणः ॥४३॥केचिद्धूमकमश्नन्ति तपस्युग्रे व्यवस्थिताः ।आत्मयज्ञरताः केचिदपरे भक्तिभागिनः ॥४४॥वैष्णवज्ञानमासाद्य केचिच्छैवं व्रतं तथा ।एकरात्रं द्विरात्रं च केचित्षष्ठाहभोजनाः ॥४५॥चान्द्रायणविधानैश्च कृच्छ्रिणश्चातिकृच्छ्रिणः ।एवंविधैस्तपोभिश्च नर्मदातीरशोभितैः ॥४६॥यजद्भिः शंकरं देवं केशवं भाति नित्यदा ।एकत्वे च पृथक्त्वे च यजतां च महेश्वरम् ॥४७॥कलौ युगे महाघोरे प्राप्ताः सिद्धिमनुत्तमाम् ।यस्य यस्य हि या भक्तिर्विज्ञानं यस्य यादृशम् ॥४८॥यस्मिन्यस्मिंश्च देवे तु तांतामीशोऽददात्प्रभुः ।स्वभावैकतया भक्त्या तामेत्यान्तः प्रलीयते ॥४९॥संसारे परिवर्तन्ते ये पृथग्भाजिनो नराः ।ये महावृक्षमीशानं त्यक्त्वा शाखावलम्बिनः ॥५०॥पुनरावर्तमानास्ते जायन्ते हि चतुर्युगे ।देवान्ते स्थावरान्ते च संसारे चाभ्रमन्क्रमात् ॥५१॥पुनर्जन्म पुनः स्वर्गे पुनर्घोरे च रौरवे ।ये पुनर्देवमीशानं भवं भक्तिसुसंस्थिताः ॥५२॥यजन्ति नर्मदातीरे न पुनस्ते भवन्ति च ।आ देहपतनात्केचिदुपासन्तः परं गताः ॥५३॥केचिद्द्वादशभिर्वर्षैः षड्भरन्ये तपोधनाः ।त्रिभिः संवत्सरैः केचित्केचित्संवत्सरेण तु ॥५४॥षड्भिर्मासैस्तु संसिद्धास्त्रिभिर्मासैस्तथापरे ।मुनयो देवमाश्रित्य नर्मदां च यशस्विनीम् ॥५५॥छित्त्वा संसारदोषांश्च अगमन्ब्रह्म शाश्वतम् ।एवं कलियुगे घोरे शतशोऽथ सहस्रशः ॥५६॥नर्मदातीरमाश्रित्य मुनयो रुद्रमाविशन् ॥५७॥ये नर्मदातीरमुपेत्य विप्राः शैवे व्रते यत्नमुपप्रपन्नाः ।त्रिकालमम्भः प्रविगाह्य भक्त्या देवं समभ्यर्च्य शिवं व्रजन्ति ॥५८॥ध्यानार्चनैर्जाप्यमहाव्रतैश्च नारायणं वा सततं स्मरन्ति ।ते धौतपाण्डुरपटा इव राजहंसाः संसारसागरजलस्य तरन्ति पारम् ॥५९॥सत्यं सत्यं पुनः सत्यमुत्क्षिप्य भुजमुच्यते ।इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा ॥६०॥यो वा हरं पूजयते जितात्मा मासं च पक्षं च वसेन्नरेन्द्र ।रेवां समाश्रित्य महानुभावः स देवदेवोऽथ भवेत्पिनाकी ॥६१॥कीटाः पतंगाश्च पिपीलिकाश्च ये वै म्रियन्तेऽम्भसि नर्मदायाः ।ते दिव्यरूपास्तु कुलप्रसूताः शतं समा धर्मपरा भवन्ति ॥६२॥कालेन वृक्षाः प्रपतन्ति येऽपि महातरंगौघनिकृत्तमूलाः ।ते नर्मदांभोभिरपास्तपापा देदीप्यमानास्त्रिदिवं प्रयान्ति ॥६३॥अकामकामाश्च तथा सकामा रेवान्तमाश्रित्य म्रियन्ति तीरे ।जडान्धमूकास्त्रिदिवं प्रयान्ति किमत्र विप्रा भवभावयुक्ताः ॥६४॥मासोपवासैरपि शोषिताङ्गा न तां गतिं यान्ति विमुक्तदेहाः ।म्रियन्ति रेवाजलपूतकायाः शिवार्चने केशवभावयुक्ताः ॥६५॥नीवारश्यामाकयवेङ्गुदाद्यैरन्यैर्मुनीन्द्रा इह वर्तयन्ति ।आप्रित्य कूलं त्रिदशानुगीतं ते नर्मदाया न विशन्ति मृत्युम् ॥६६॥भ्रमन्ति ये तीरमुपेत्य देव्यास्त्रिकालदेवार्चनसत्यपूताः ।विण्मूत्रचर्मास्थितिरोपधानाः कुक्षौ युवत्या न वसन्ति भूयः ॥६७॥किं यज्ञदानैर्बहुभिश्च तेषां निषेवितैस्तीर्थवरैः समस्तैः ।रेवातटं दक्षिणमुत्तरं वा सेवन्ति ते रुद्रचरानुपूर्वम् ॥६८॥ते वञ्चिताः पङ्गुजडान्धभूता लोकेषु मर्त्याः पशुभिश्च तुल्याः ।ये नाश्रिता रुद्रशरीरभूतां सोपानपङ्क्तिं त्रिदिवस्य रेवाम् ॥६९॥युगं कलिं घोरमिमं य इच्छेद्द्रष्टुं कदाचिन्न पुनर्द्विजेन्द्रः ।स नर्मदातीरमुपेत्य सर्वं सम्पूजयेत्सर्वविमुक्तसंगः ॥७०॥विघ्नैरनेकैरतियोज्यमाना ये तीरमुझन्ति न नर्मदायाः ।ते चैव सर्वस्य हितार्थभूता वन्द्याश्च ते सर्वजनस्य मान्याः ॥७१॥भृग्वत्रिगार्गेयवशिष्ठकङ्काः शतैः समेतैर्नियतास्त्वसंख्यैः ।सिद्धिं परां ते हि जलप्लुताङ्गाः प्राप्तास्तु लोकान्मरुतां न चान्ये ॥७२॥ज्ञानं महत्पुण्यतमं पवित्रं पठन्त्यदो नित्यविशुद्धसत्त्वाः ।गतिं परां यान्ति महानुभावा रुद्रस्य वाक्यं हि यथा प्रमाणम् ॥७३॥॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये नर्मदास्नानफलश्रुतिकथनं नाम दशमोऽध्यायः ॥ N/A References : N/A Last Updated : December 06, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP