संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्|
अध्याय ८८

रेवा खण्डम् - अध्याय ८८

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


श्रीमार्कण्डेय उवाच -
तस्यैवानन्तरं पार्थ कापिलं तीर्थमाश्रयेत् ।
स्थापितं कपिलेनैव सर्वपातकनाशनम् ॥१॥
अष्टम्यां च सिते पक्षे चतुर्दश्यां नरेश्वर ।
स्नापयेत्परया भक्त्या कपिलाक्षीरसर्पिषा ॥२॥
श्रीखण्डेन सुगन्धेन गुण्ठयेत महेश्वरम् ।
ततः सुगन्धपुष्पैश्च श्वेतैश्च नृपसत्तम ॥३॥
येऽर्चयन्ति जितक्रोधा न ते यान्ति यमालयम् ।
असिपत्त्रवनं घोरं यमचुल्ही सुदारुणा ॥४॥
दृश्यते नैव विद्वद्भिः कपिलेश्वरपूजनात् ।
स्नात्वा रेवाजले पुण्ये भोजयेद्ब्राह्मणाञ्छुभान् ॥५॥
गोप्रदानेन वस्त्रेण तिलदानेन भारत ।
छत्रशय्याप्रदानेन राजा भवति धार्मिकः ॥६॥
तीव्रतेजा विघोरश्च जीवत्पुत्रः प्रियंवदः ।
शत्रुवर्गो न तस्य स्यात्कदाचित्पाण्डुनन्दन ॥७॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कपिलेश्वरतीर्थमाहात्म्यवर्णनं नामाष्टाशीतितमोऽध्यायः ॥

N/A

References : N/A
Last Updated : December 12, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP