रेवा खण्डम् - अध्याय १२३
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
मार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र कर्मदीतीर्थमुत्तमम् ।
यत्र तिष्ठति विघ्नेशो गणनाथो महाबलः ॥१॥
तत्र तीर्थे नरः स्नात्वा चतुर्थ्यां वा ह्युपोषितः ।
विघ्नं न विद्यते तस्य सप्तजन्मनि भारत ॥२॥
तत्र तीर्थे हि यत्किंचिद्दीयते नृपसत्तम ।
तदक्षयफलं सर्वं जायते नात्र संशयः ॥३॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कर्मदेश्वरतीर्थमाहत्म्यवर्णनं नाम त्रयोविंशत्युत्तरशततमोऽध्यायः॥
N/A
References : N/A
Last Updated : December 15, 2024
TOP