संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्| अध्याय १९ रेवा खण्डम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ विषयानुक्रमणिका विषयानुक्रमणिका रेवा खण्डम् - अध्याय १९ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १९ Translation - भाषांतर श्रीमार्कण्डेय उवाच -ततस्त्वेकार्णवे तस्मिन्मुमूर्षुरहमातुरः ।काकूच्छ्वासस्तरंस्तोयं बाहुभ्यां नृपसत्तम ॥१॥शृणोम्यर्णवमध्यस्थो निःशब्दस्तिमिते तदा ।अम्भोरवमनौपम्यं दिशो दश विनादिनम् ॥२॥हंसकुदेन्दुसंकाशां हारगोक्षीरपाण्डुराम् ।नानारत्नविचित्राङ्गीं स्वर्णशृङ्गां मनोरमाम् ॥३॥सुरैः प्रवालकमयैर्लाङ्गुलध्वजशोभिताम् ।प्रलम्बघोणां नर्दन्तीं खुरैरर्णवगाहिनीम् ॥४॥गां ददर्शाहमुद्विग्नो मामेवाभिमुखीं स्थिताम् ।किंकिणीजालमुक्ताभिः स्वर्णघण्टासमावृताम् ॥५॥तस्याश्चरणविक्षेपैः सर्वमेकार्णवं जलम् ।विक्षिप्तफेनपुञ्जौघैर्नृत्यन्तीव समं ततः ॥६॥ररास सलिलोत्क्षेपैः क्षोभयन्ती महार्णवम् ।सा मामाह महाभाग श्लक्ष्णगम्भीरया गिरा ॥७॥मा भैषीर्वत्स वत्सेति मृत्युस्तव न विद्यते ।महादेवप्रसादेन न मृत्युस्ते ममापि च ॥८॥ममाश्रयस्व लाङ्गूलं त्वामतस्तारयाम्यहम् ।घोरादस्माद्भयाद्विप्र यावत्संप्लवते जगत् ॥९॥क्षुत्तृषाप्रतिघातार्थं स्तनौ मे त्वं पिबस्व ह ।पयोऽमृताश्रयं दिव्यं तत्पीत्वा निर्वृतो भव ॥१०॥तस्यास्तद्वचनं श्रुत्वा हर्षात्पीतो मया स्तनः ।न क्षुत्तृषा पीतमात्रे स्तने मह्यं तदाभवत् ॥११॥दिव्यं प्राणबलं जज्ञे समुद्रप्लवनक्षमम् ।ततस्तां प्रत्युवाचेदं का त्वमेकार्णवीकृते ॥१२॥भ्रमसे ब्रूहि तत्त्वेन विस्मयो मे महान्हृदि ।भ्रमतोऽत्र ममार्तस्य मुमूर्षोः प्रहतस्य ॥१३॥त्वं हि मे शरणं जाता भाग्यशेषेण सुव्रते ॥१४॥गौरुवाच -किमहं विस्मृता तुभ्यं विश्वरूपा महेश्वरी ।नर्मदा धर्मदा न्ःणां स्वर्गशर्मबलप्रदा ॥१५॥दृष्ट्वा त्वां सीदमानं तु रुद्रेणाहं विसर्जिता ।तं द्विजं तारयस्वार्ये मा प्राणांस्त्यजतां जले ॥१६॥गोरूपेण विभोर्वाक्यात्त्वत्सकाशमिहागता ।मा मृषावचनः शम्भुर्भवेदिति च सत्वरा ॥१७॥एवमुक्तस्तयाहं तु इन्द्रायुधनिभं शुभम् ।लाङ्गूलमव्ययं ज्ञात्वा भुजाभ्यामवलम्बितः ॥१८॥ततोऽतरं तं जलधिं लाङ्गूलध्वजमाश्रितः ।असौ देवो महादेव इति मां प्रत्यभाषत ॥१९॥ततो युगसहस्रान्तमहं कालं तया सह ।व्यचरं वै तमोभूते सर्वतः सलिलावृते ॥२०॥महार्णवे ततस्तस्मिन् भ्रमन्गोः पुच्छमाश्रितः ।निर्वाते चान्धकारे च निरालोके निरामये ॥२१॥अकस्मात्सलिले तस्मिन्नतसीपुष्पसन्निभम् ।विभिन्नांजनसङ्काशमाकाशमिव निर्मलम् ॥२२॥नीलोत्पलदलश्यामं पीतवाससमव्ययम् ।किरीटेनार्कवर्णेन विद्युद्विद्योतकारिणा ॥२३॥भ्राजमानेन शिरसा खमिवात्यन्तरूपिणम् ।कुण्डलोद्धष्टगल्लं तु हारोद्द्योतितवक्षसम् ॥२४॥जाम्बूनदमयैर्दिव्यैर्भूषणैरुपशोभितम् ।नागोपधानशयनं सहस्रादित्यवर्चसम् ॥२५॥अनेकबाहूरुधरं नैकवक्त्रं मनोरमम् ।सुप्तमेकार्णवे वीरं सहस्राक्षशिरोधरम् ॥२६॥जटाजूटेन महता स्फुरद्विद्युत्समार्चिषा ।एकार्णवं जगत्सर्वं व्याप्य देवं व्यवस्थितम् ॥२७॥ग्रसित्वा शङ्करः सर्वं सदेवासुरमानवम् ।प्रपश्याम्यहमीशानं सुप्तमेकार्णवे प्रभुम् ॥२८॥सर्वव्यापिनमव्यक्तमनन्तं विश्वतोमुखम् ।तस्य पादतलाभ्याशे स्वर्णकेयूरमण्डिताम् ॥२९॥विश्वरूपां महाभागां विश्वमायावधारिणीम् ।श्रीमयीं ह्रीमयीं देवीं धीमयीं वाङ्मयीं शिवाम् ॥३०॥सिद्धिं कीर्तिं रतिं ब्राह्मीं कालरात्रिमयोनिजाम् ।तामेवाहं तदात्यन्तमीश्वरान्तिकमास्थिताम् ॥३१॥अद्राक्षं चन्द्रवदनां धृतिं सर्वेश्वरीमुमाम् ॥३२॥शान्तं प्रसुप्तं नवहेमवर्णमुमासहायं भगवन्तमीशम् ।तमोवृतं पुण्यतमं वरिष्ठं प्रदक्षिणीकृत्य नमस्करोमि ॥३३॥ततः प्रसुप्तः सहसा विबुद्धो रात्रिक्षये देववरः स्वभावात् ।विक्षोभयन् बाहुभिरर्णवाम्भो जगत्प्रणष्टं सलिले विमृश्य ॥३४॥किं कार्यमित्येव विचिन्तयित्वा वाराहरूपोऽभवदद्भुताङ्गः ।महाघनाम्भोधरतुल्यवर्चाः प्रलम्बमालाम्बरनिष्कमाली ॥३५॥सशङ्खचक्रासिधरः किरीटी सवेदवेदाङ्गमयो महात्मा ।त्रैलोक्यनिर्माणकरः पुराणो देवत्रयीरूपधरश्च कार्ये ॥३६॥स एव रुद्रः स जगज्जहार सृष्ट्यर्थमीशः प्रपितामहोऽभूत् ।संरक्षणार्थं जगतः स एव हरिः सुचक्रासिगदाब्जपाणिः ॥३७॥तेषां विभागो न हि कर्तुमर्हो महात्मनामेकशरीरभाजाम् ।मीमांसाहेत्वर्थविशेषतर्कैर्यस्तेषु कुर्यात्प्रविभेदमज्ञः ॥३८॥स याति घोरं नरकं क्रमेण विभागकृद्द्वेषमतिर्दुरात्मा ।या यस्य भक्तिः स तयैव नूनं देहं त्यजन् स्वं ह्यमृतत्वमेति ॥३९॥संमोहयन्मूर्तिभिरत्र लोकं स्रष्टा च गोप्ता क्षयकृत्स देवः ।तस्मान्न मोहात्मकमाविशेत द्वेषं न कुर्यात्प्रविभिन्नमूर्तिः ॥४०॥वाराहमीशानवरोऽप्यतोऽसौ रूपं समास्थाय जगद्विधाता ।नष्टे त्रिलोकेऽर्णवतोयमग्ने विमार्गितोयौघमयेऽन्तरात्मा ॥४१॥भित्त्वार्णवं तोयमथान्तरस्थं विवेश पातालतलं क्षणेन ।जले निमग्नां धरणीं समस्तां समस्पृशत्पङ्कजपत्रनेत्राम् ॥४२॥विशीर्णशैलोपलशृङ्गकूटां वसुंधरां तां प्रलये प्रलीनाम् ।दंष्ट्रैकया विष्णुरतुल्यसाहसः समुद्दधार स्वयमेव देवः ॥४३॥सा तस्य दंष्ट्राग्रविलम्बिताङ्गी कैलासशृङ्गाग्रगतेव ज्योत्स्ना ।विभ्राजते साप्यसमानमूर्तिः शशाङ्कशृङ्गे च तडिद्विलग्ना ॥४४॥तामुज्जहारार्णवतोयमग्नां करी निमग्नामिव हस्तिनीं हठात् ।नावं विशीर्णामिव तोयमध्यादुदीर्णसत्त्वोऽनुपमप्रभावः ॥४५॥स तां समुत्तार्य महाजलौघात्समुद्रमार्यो व्यभजत्समस्तम् ।महार्णवेष्वेव महार्णवाम्भो निक्षेपयामास पुनर्नदीषु ॥४६॥शीर्णांश्च शैलान्स चकार भूयो द्वीपान्समस्तांश्च तथार्णवांश्च ।शैलोपलैर्ये विचिताः समन्ताच्छिलोच्चयांस्तान्स चकार कल्पे ॥४७॥अनेकरूपं प्रविभज्य देहं चकार देवेन्द्रगणान्समस्तान् ।मुखाच्च वह्निर्मनसश्च चन्द्रश्चक्षोश्च सूर्यः सहसा बभूव ॥४८॥जज्ञेऽथ तस्येश्वरयोगमूर्तेः प्रध्यायमानस्य सुरेन्द्रसङ्घः ।वेदाश्च यज्ञाश्च तथैव वर्णास्तथा हि सर्वौषधयो रसाश्च ॥४९॥जगत्समस्तं मनसा बभूव यत्स्थावरं किंचिदिहाण्डजं वा ।जरायुजं स्वेदजमुद्भिज्जं वा यत्किंचिदा कीटपिपीलकाद्यम् ॥५०॥ततो विजज्ञे मनसा क्षणेन अनेकरूपाः सहसा महेशा ।चकार यन्मूर्तिभिरव्ययात्मा अष्टाभिराविश्य पुनः स तत्र ॥५१॥लीलां चकाराथ समृद्धतेजा अतोऽत्र मे पश्यत एव विप्राः ।तेषां मया दर्शनमेव सर्वं यावन्मुहूर्तात्समकारि भूप ॥५२॥कृत्वा त्वशेषं किल लीलयैव स देवदेवो जगतां विधाता ।सर्वत्रदृक्सर्वग एव देवो जगाम चादर्शनमादिकर्ता ॥५३॥यत्तन्मुहूर्तादिह नामरूपं तावत्प्रपश्यामि जगत्तथैव ।द्वीपैः समुद्रैरभिसंवृतं हि नक्षत्रतारादिविमानकीर्णम् ॥५४॥वियत्पयोदग्रहचक्रचित्रं नानाविधैः प्राणिगणैर्वृतं च ।तां वै न पश्यामि महानुभावां गोरूपिणीं सर्वसुरेश्वरीं च ॥५५॥क्व सांप्रतं सेति विचिन्त्य राजन्विभ्रान्तचित्तस्त्वभवं तदैव ।दिशो विभागानवलोकयानृते पुनस्तां कथमीश्वराङ्गीम् ॥५६॥पश्यामि तामत्र पुनश्च शुभ्रां महाभ्रनीलां शुचिशुभ्रतोयाम् ।वृक्षैरनेकैरुपशोभिताङ्गीं गजैस्तुरङ्गैर्विहगैर्वृतां च ॥५७॥यथा पुरातीरमुपेत्य देव्याः समास्थितश्चाप्यमरकण्टके तु ।तथैव पश्यामि सुखोपविष्ट आत्मानमव्यग्रमवाप्तसौख्यम् ॥५८॥तथैव पुण्या मलतोयवाहां दृष्ट्वा पुनः कल्पपरिक्षयेऽपि ।अम्बामिवार्यामनुकम्पमानामक्षीणतोयां विरुजां विशोकः ॥५९॥एवं महत्पुण्यतमं च कल्पं पठन्ति शृण्वन्ति च ये द्विजेन्द्राः ।महावराहस्य महेश्वरस्य दिने दिने ते विमला भवन्ति ॥६०॥अशुभशतसहस्रं ते विधूय प्रपन्नास्त्रिदिवममरजुष्टं सिद्धगन्धर्वयुक्तम् ।विमलशशिनिभाभिः सर्व एवाप्सरोभिः सह विविधविलासैः स्वर्गसौख्यं लभन्ते ॥६१॥॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे श्रीनर्मदामाहात्म्ये वाराहकल्पवृत्तान्तवर्णनं नामैकोनविंशोऽध्यायः ॥ N/A References : N/A Last Updated : December 08, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP