संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्| अध्याय ५४ रेवा खण्डम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ विषयानुक्रमणिका विषयानुक्रमणिका रेवा खण्डम् - अध्याय ५४ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ५४ Translation - भाषांतर ईश्वर उवाच -ततश्चानन्तरं राजा जगामोद्वेगमुत्तमम् ।कथं यामि गृहं त्वद्य वाराणस्यामहं पुनः ॥१॥ब्रह्महत्यासमाविष्टो जुहोम्यग्नौ कलेवरम् ।अथवा तस्य वाक्येन तं गच्छाम्याश्रमं प्रति ॥२॥कथयामि यथावृत्तं गत्वा तस्य महामुनेः ।एवं संचिन्त्य राजासौ जगामाश्रमसन्निधौ ॥३॥ऋक्षशृङ्गस्य चास्थीनि गृहीत्वा स नृपोत्तमः ।दृष्टिमार्गे स्थितस्तस्य महर्षेर्भावितात्मनः ॥४॥दीर्घतपा उवाच -आगच्छ स्वागतं तेऽस्तु आसनेऽत्रोपविश्यताम् ।अर्घं ददाम्यहं येन मधुपर्कं सविष्टरम् ॥५॥चित्रसेन उवाच -अर्घस्यास्य न योग्योऽहं महर्षे नास्मि भाषणे ।मृगमध्यस्थितो विप्रस्तव पुत्रो मया हतः ॥६॥पुत्रघ्नं विद्धि मां विप्र तीव्रदण्डेन दण्डय ।मृगभ्रान्त्या हतो विप्र ऋक्षशृङ्गो महातपाः ॥७॥इति मत्वा मुनिश्रेष्ठ कुरु मे त्वं यथोचितम् ।माता तद्वचनं श्रुत्वा गृहान्निष्क्रम्य विह्वला ॥८॥हा हतास्मीत्युवाचेदं पपात धरणीतले ।विललाप सुदुःखार्ता पुत्रशोकेन पीडिता ॥९॥हा हता पुत्र पुत्रेति करुणं कुररी यथा ।विललापातुरा माता क्व गतो मां विहाय वै ।मुखं दर्शय चात्मीयं मातरं मां हि मानय ॥१०॥श्रुताध्ययनसम्पन्नं जपहोमपरायणम् ।आगतं त्वां गृहद्वारे कदा द्रक्ष्यामि पुत्रक ॥११॥लोकोक्त्या श्रूयते चैतच्चन्दनं किल शीतलम् ।पुत्रगात्रपरिष्वङ्गश्चन्दनादपि शीतलः ॥१२॥किं चन्दनेन पीयूपबिन्दुना किं किमिन्दुना ॥१३॥पुत्रगात्रपरिष्वङ्गपात्रं गात्रं भवेद्यदि ॥१४॥परिष्वजितुमिच्छामि त्वामहं पुत्र सुप्रिय ।पञ्चत्वमनुयास्यामि त्वद्विहीनाद्य दुःखिता ॥१५॥एवं विलपती दीना पुत्रशोकेन पीडिता ।मूर्छिता विह्वला दीना निपपात महीतले ॥१६॥भार्यां च पतितां दृष्ट्वा पुत्रशोकेन पीडिताम् ।चुकोप स मुनिस्तत्र चित्रसेनाय भूभृते ॥१७॥दीर्घतपा उवाच -याहि याहि महापाप मा मुखं दर्शयस्व मे ।किं त्वया घातितो विप्रो ह्यकामाच्च सुतो मम ॥१८॥ब्रह्महत्या भविष्यन्ति बह्व्यस्ते वसुधाधिप ।सकुटुम्बस्य मे त्वं हि मृत्युरेष उपस्थितः ॥१९॥एवमुक्त्वा ततो विप्रो विचिन्त्य च पुनःपुनः ।परित्यज्य तदा क्रोधं मुनिभावाज्जगाद ह ॥२०॥दीर्घतपा उवाच -उद्वेगं त्यज भो वत्स दुरुक्तं गदितो मया ।पुत्रशोकाभिभूतेन दुःखतप्तेन मानद ॥२१॥किं करोति नरः प्राज्ञः प्रेर्यमाणः स्वकर्मभिः ।प्रागेव हि मनुष्याणां बुद्धिः कर्मानुसारिणी ॥२२॥अनेनैव विधानेन पञ्चत्वं विहितं मम ।हत्यास्तव भविष्यन्ति पूर्वमुक्ता न संशयः ॥२३॥ब्रह्मक्षत्रविशां मध्ये शूद्रचण्डालजातिषु ।कस्त्वं कथय सत्यं मे कस्माच्च निहतो द्विजः ॥२४॥चित्रसेन उवाच -विज्ञापयामि विप्रर्षे क्षन्तव्यं ते ममोपरि ।नाहं विप्रोऽस्मि वै तात न वैश्यो न च शूद्रजः ॥२५॥न व्याधश्चान्त्यजातो वा क्षत्रियोऽहं महामुने ।काशीराजो मृगान् हन्तुमागतो वनमुत्तमम् ॥२६॥भ्रान्त्या निपातितो ह्येष मृगरूपधरो मुनिः ।इदानीं तव पादान्ते संश्रितः पातकान्वितः ॥२७॥किं कर्तव्यं मया विप्र उपायं कथयस्व मे ॥२८॥दीर्घतपा उवाच -ब्रह्महत्या न शक्येताप्येका निस्तरितुं प्रभो ।दशैका च कथं शक्यास्ताः शृणुष्व नरेश्वर ॥२९॥चत्वारो मे सुता राजन् सभार्या मातृपूर्वकाः ।मया सह न जीवन्ति ऋक्षशृङ्गस्य कारणे ॥३०॥उपायं शोभनं तात कथयिष्ये शृणुष्व तम् ।शक्रोऽपि यदि तं कर्तुं सुखोपायं नरेश्वर ॥३१॥सकुटुम्बं समस्तं मां दाहयित्वानले नृप ।अस्थीनि नर्मदातोये शूलभेदे विनिक्षिप ॥३२॥नर्मदादक्षिणे कूले शूलभेदं हि विश्रुतम् ।सर्वपापहरं तीर्थं सर्वदुःखघ्नमुत्तमम् ॥३३॥शुचिर्भूत्वा ममास्थीनि तत्र तीर्थे विनिक्षिप ।मोक्ष्यसे सर्वपापैस्त्वं मम वाक्यान्न संशयः ॥३४॥राजोवाच -आदेशो दीयतां तात करिष्यामि न संशयः ।समस्तं मेऽस्ति यत्किंचिद्राज्यं कोशः सुहृत्सुताः ॥३५॥तवाधीनं महाविप्र प्रयच्छामि प्रसीद मे ।परस्परं विवदतोर्विप्र राज्ञोस्तदा नृप ॥३६॥स्फुटित्वा हृदयं शीघ्रं मुनिभार्या मृता तदा ।पुत्रशोकसमाविष्टा निर्जीवा पतिता क्षितौ ॥३७॥पुत्राश्च मातृशोकेन सर्वे पञ्चत्वमागताः ।स्नुषाश्चैव तदा सर्वा मृताश्च सह भर्तृभिः ॥३८॥पञ्चत्वं च गताः सर्वे मुनिमुख्या नृपोत्तम ।विप्रानाह्वापयामास ये तत्राश्रमवासिनः ॥३९॥तेभ्यो निवेदयामास यथावृत्तं नृपोत्तमः ।स तैस्तदाभ्यनुज्ञातः काष्ठान्यादाय यत्नतः ॥४०॥दाहं संचयनं चक्रे चित्रसेनो महीपतिः ।ऋक्षशृङ्गादिसर्वेषां गृहीत्वास्थीनि यत्नतः ॥४१॥याम्याशां प्रस्थितो राजा पादचारी महीपते ।न शक्नोति यदा गन्तुं छायामाश्रित्य तिष्ठति ॥४२॥विश्रम्य च पुनर्गच्छेद्भाराक्रान्तो महीपतिः ।सचैलं कुरुते स्नानं मुक्त्वास्थीनि पदे पदे ॥४३॥पिबेज्जलं निराहारः स गच्छन् दक्षिणामुखः ।अचिरेणैव कालेन संगतो नर्मदातटम् ॥४४॥आश्रमस्थान् द्विजान् दृष्ट्वा पप्रच्छ पृथिवीपतिः ॥४५॥चित्रसेन उवाच -कथ्यतां शूलभेदस्य मार्गं मे द्विजसत्तमाः ।येन यामि महाभागाः स्वकार्यार्थस्य सिद्धये ॥४६॥मुनय ऊचुः ।इतः क्रोशान्तरादर्वाक्तीर्थं परमशोभनम् ।नर्मदादक्षिणे कूले ततो द्रक्ष्यसि नान्यथा ॥४७॥ऋषिवाक्येन राजासौ शीघ्रं गत्वा नरेश्वरः ।स ददर्श ततः शीघ्रं बहुद्विजसमाकुलम् ॥४८॥बहुद्रुमलताकीर्णं बहुपुष्पोपशोभितम् ।ऋक्षसिंहसमाकीर्णं नानाव्रतधरैः शुभैः ॥४९॥एकपादास्थिताः केचिदपरे सूर्यदृष्टयः ।एकाङ्गुष्ठ स्थिताः केचिदूर्ध्वबाहुस्थिताः परे ॥५०॥दिनैकभोजनाः केचित्केचित्कन्दफलाशनाः ।त्रिरात्रभोजनाः केचित्पराकव्रतिनोऽपरे ॥५१॥चान्द्रायणरताः केचित्केचित्पक्षोपवासिनः ।मासोपवासिनः केचित्केचिदृत्वन्तपारणाः ॥५२॥योगाभ्यासरताः केचित्केचिद्ध्यायन्ति तत्पदम् ।शीर्णपर्णाशिनः केचित्केचिच्च कटुकाशनाः ॥५३॥शैवालभोजनाः केचित्केचिन्मारुतभोजनाः ।गार्हस्थ्ये च स्थिताः केचित्केचिच्चैवाग्निहोत्रिणः ॥५४॥एवंविधान् द्विजान् दृष्ट्वा जानुभ्यामवनिं गतः ।प्रणम्य शिरसा राजन्राजा वचनमब्रवीत् ॥५५॥चित्रसेन उवाच -कस्मिन्देशे च तत्तीर्थं सत्यं कथयत द्विजाः ।येनाभिवाञ्छिता सिद्धिः सफला मे भविष्यति ॥५६॥ऋषय ऊचुः ।धन्वन्तरशतं गच्छ भृगुतुङ्गस्य मूर्धनि ।कुण्डं द्रक्ष्यसि तत्पूर्णं विस्तीर्णं पयसा शिवम् ॥५७॥तेषां तद्वचनं श्रुत्वा गतः कुण्डस्य सन्निधौ ।दृष्ट्वा चैव तु तत्तीर्थं भ्रान्तिर्जाता नृपस्य वै ॥५८॥ततो विस्मयमापन्नश्चिन्तयन्वै मुहुर्मुहुः ।आकाशस्थं ददर्शासौ सामिषं कुररं नृपः ॥५९॥भ्रममाणं गृहीताहिं वध्यमानं निरामिषैः ।परस्परं च युयुधुः सर्वेऽप्यामिषकाङ्क्षया ॥६०॥हतश्चञ्चुप्रहारेण स ततः पतितोऽंभसि ।शूलेन शूलिना यत्र भूभागो भेदितः पुरा ॥६१॥तत्तीर्थस्य प्रभावेण स सद्यः पुरुषोऽभवत् ।विमानस्थं ददर्शासौ पुमांसं दिव्यरूपिणम् ॥६२॥गन्धर्वाप्सरसो यक्षास्तं यान्तं तुष्टुवुर्दिवि ।अप्सरोगीयमाने तु गते सूर्यस्य मूर्धनि ।चित्रसेनस्ततस्तस्मिन्नाश्चर्यं परमं गतः ॥६३॥ऋषिणा कथितं यद्वत्तद्वत्तीर्थं न संशयः ।हृष्टरोमाभवद्दृष्ट्वा प्रभावं तीर्थसम्भवम् ॥६४॥ममाद्य दिवसो धन्यो यस्मादत्र समागतः ।अस्थीनि भूमौ निक्षिप्य स्नानं कृत्वा यथाविधि ॥६५॥तिलमिश्रेण तोयेनातर्पयत्पितृदेवताः ।गृह्यास्थीनि ततो राजा चिक्षेपान्तर्जले तदा ॥६६॥क्षणमेकं ततो वीक्ष्य राजोर्द्ध्ववदनः स्थितः ।तान् ददर्श पुनः सर्वान् दिव्यरूपधराञ्छुभान् ॥६७॥दिव्यवस्त्रैश्च संवीतान् दिव्याभरणभूषितान् ।विमानैर्विविधैर्दिव्यैरप्सरोगणसेवितैः ॥६८॥पृथग्भूतांश्च तान् सर्वान् विमानेषु व्यवस्थितान् ।उत्पत्तिवत्समालोक्य राजा संहर्षी सोऽभवत् ॥६९॥ऋषिर्विमानमारूढश्चित्रसेनमथाब्रवीत् ।भोभोः साधो महाराज चित्रसेन महीपते ॥७०॥त्वत्प्रसादान्नृपश्रेष्ठ गतिर्दिव्या ममेदृषी ।जातेयं यत्त्वया कार्यं कृतं परमशोभनम् ॥७१॥स्वसुतोऽपि न शक्नोति पित्ःणां कर्तुमीदृशम् ।मदीयवचनात्तात निष्पापस्त्वं भविष्यसि ॥७२॥फलं प्राप्स्यसि राजेन्द्र कामिकं मनसेप्सितम् ।आशीर्वादांस्ततो दत्त्वा चित्रसेनाय धीमते ।स्वर्गं जगाम ससुतस्ततो दीर्घतपा मुनिः ॥७३॥॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चमावन्त्यखण्डे रेवाखण्डे दीर्घतपसः स्वर्गारोहणवर्णनं नाम चतुःपञ्चाशत्तमोऽध्यायः ॥ N/A References : N/A Last Updated : December 09, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP