संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्|
अध्याय १५४

रेवा खण्डम् - अध्याय १५४

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


श्रीमार्कण्डेय उवाच -
नर्मदादक्षिणे कूले तीर्थं कलकलेश्वरम् ।
विख्यातं सर्वलोकेषु स्वयं देवेन निर्मितम् ॥१॥
अन्धकं समरे हत्वा देवदेवो महेश्वरः ।
सहितो देवगन्धर्वैः किन्नरैश्च महोरगैः ॥२॥
शङ्खतूर्यनिनादैश्च मृदङ्गपणवादिभिः ।
वीणावेणुरवैश्चान्यैः स्तुतिभिः पुष्कलादिभिः ॥३॥
गायन्ति सामानि यजूंषि चान्ये छन्दांसि चान्ये ऋचमुद्गिरन्ति ।
स्तोत्रैरनेकैरपरे गृणन्ति महेश्वरं तत्र महानुभावाः ॥४॥
प्रमथानां निनादेन कल्कलेन च बन्दिनाम् ।
यस्मात्प्रतिष्ठितं लिङ्गं तस्माज्जातं तदाख्यया ॥५॥
तत्र तीर्थे तु यः स्नात्वा वीक्षेत्कलकलेश्वरम् ।
वाजपेयात्परं पुण्यं स लभेन्मानवो भुवि ॥६॥
तेन पुण्येन पूतात्मा प्राणत्यागाद्दिवं व्रजेत् ।
आरूढः परमं यानं गीयमानोऽप्सरोगणैः ॥७॥
उपभुज्य महाभोगान्कालेन महता ततः ।
मर्त्यलोके महात्मासौ जायते विमले कुले ॥८॥
ब्राह्मणः सुभगो लोके वेदवेदाङ्गपारगः ।
व्याधिशोकविनिर्मुक्तो जीवेच्च शरदां शतम् ॥९॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कलकलेश्वरतीर्थफलमाहात्म्यवर्णनं नाम चतुःपञ्चाशदधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : December 15, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP