संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्| अध्याय ६० रेवा खण्डम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ विषयानुक्रमणिका विषयानुक्रमणिका रेवा खण्डम् - अध्याय ६० भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ६० Translation - भाषांतर श्रीमार्कण्डेय उवाच -भूयोऽप्यहं प्रवक्ष्यामि आदित्येश्वरमुत्तमम् ।सर्वदुःखहरं पार्थ सर्वविघ्नविनाशनम् ॥१॥आयुःश्रीवर्द्धनं नित्यं पुत्रदं स्वर्गदं शिवम् ।यस्य तीर्थस्य चान्यानि तीर्थानि कुरुनन्दन ॥२॥नालभन्त श्रियं नाके मर्त्ये पातालगोचरे ।कुरुक्षेत्रं गया गङ्गा नैमिषं पुष्करं तथा ॥३॥वाराणसी च केदारं प्रयागं रुद्रनन्दनम् ।महाकालं सहस्राक्षं शुक्लतीर्थं नृपोत्तम ॥४॥रवितीर्थस्य सर्वाणि कलां नार्हन्ति षोडशीम् ।रवितीर्थे हि यद्वृत्तं तच्छृणुष्व नृपोत्तम ॥५॥स्नेहात्ते कथयिष्यामि वार्द्धकेनातिपीडितः ।शृण्वन्तु ऋषयः सर्वे तपोनिष्ठा महौजसः ॥६॥श्रुतं मे रुद्रसांनिध्ये नन्दिस्कन्दगणैः सह ।पार्वत्या पृष्टः शम्भुश्च रवितीर्थस्य यत्फलम् ॥७॥शम्भुना च यदाख्यातं गिरिजायाः ससम्भ्रमम् ।तत्सर्वमेकचित्तेन रुद्रोद्गीतं श्रुतं मया ॥८॥तत्तेऽहं सम्प्रवक्ष्यामि शृणु यत्नेन पाण्डव ।दुर्भिक्षोपहता विप्रा नर्मदां तु समाश्रिताः ॥९॥उद्दालको वशिष्ठश्च माण्डव्यो गौतमस्तथा ।याज्ञवल्क्योऽथ गर्गश्च शाण्डिल्यो गालवस्तथा ॥१०॥नाचिकेतो विभाण्डश्च वालखिल्यादयस्तथा ।शातातपश्च शङ्खश्च जैमिनिर्गोभिलस्तथा ॥११॥जैगीषव्यः शतानीकः सर्व एव समागताः ।तीर्थयात्रा कृता तैस्तु नर्मदायाः समन्ततः ॥१२॥आदित्येश्वरमायाताः प्रसङ्गादृषिपुंगवाः ।वृक्षैः संछादितं शुभ्रं धवतिन्दुकपाटलैः ॥१३॥जम्बीरैरर्जुनैः कुब्जैः शमीकेसरकिंशुकैः ।तस्मिंस्तीर्थे महापुण्ये सुगन्धिकुसुमाकुले ॥१४॥पुन्नागनालिकेरैश्च खदिरैः कल्पपादपैः ।अनेकश्वापदाकीर्णं मृगमार्जारसंकुलम् ॥१५॥ऋक्षहस्तिसमाकीर्णं चित्रकैश्चोपशोभितम् ।प्रविष्टा ऋषयः सर्वे वने पुष्पसमाकुले ॥१६॥वनान्ते च स्त्रियो दृष्ट्वा रक्ता रक्ताम्बरान्विताः ।रक्तमाल्यानुशोभाढ्या रक्तचन्दनचर्चिताः ॥१७॥रक्ताभरणसंयुक्ताः पाशहस्ता भयावहाः ।तासां समीपगा दृष्टाः कृष्णजीमूतसन्निभाः ॥१८॥महाकाया भीमवक्त्राः पाशहस्ता भयावहाः ।अनावृष्ट्युपमा दृष्टा आतुराः पिङ्गलोचनाः ॥१९॥दीर्घजिह्वा करालास्या तीक्ष्णदंष्ट्रा दुरासदा ।वृद्धा नारी कुरुश्रेष्ठ दृष्टान्या ऋषिपुंगवैः ॥२०॥ततः समीपगा वृद्धा तस्य वृन्दस्य भारत ।स्वाध्यायनिरता विप्रा दृष्टास्तैः पापकर्मभिः ॥२१॥ऊचुस्ते तु समूहेन ब्राह्मणांस्तपसि स्थितान् ।अस्माकं स्वामिनः सर्वे तिष्ठन्ते तीर्थमध्यतः ।ते प्रस्थाप्या महाभागाः सर्वथैव त्वरान्विताः ॥२२॥तच्छ्रुत्वा वचनं तेषां सर्वे चैव त्वरान्विताः ।जग्मुस्ते नर्मदाकक्षं दृष्ट्वा रेवां द्विजोत्तमाः ॥२३॥ततः केचित्स्तुवन्त्यन्ये जय देवि नमोऽस्तु ते ॥२४॥नमोऽस्तु ते सिद्धगणैर्निषेविते नमोऽस्तु ते सर्वपवित्रमङ्गले ।नमोऽस्तु ते विप्रसहस्रसेविते नमोऽस्तु रुद्राङ्गसमुद्भवे वरे ॥२५॥नमोऽस्तु ते सर्वपवित्रपावने नमोऽस्तु ते देवि वरप्रदे शिवे ।नमामि ते शीतजले सुखप्रदे सरिद्वरे पापहरे विचित्रिते ॥२६॥अनेकभूतौघसुसेविताङ्गे गन्धर्वयक्षोरगपाविताङ्गे ।महागजौघैर्महिषैर्वराहैरापीयसे तोयमहोर्मिमाले ॥२७॥नमामि ते सर्ववरे सुखप्रदे विमोचयास्मानघपाशबद्धान् ॥२८॥भ्रमन्ति तावन्नरकेषु मर्त्या यावत्तवाम्भो नहि संश्रयन्ति ।स्पृष्टं करैश्चन्द्रमसो रवेश्चेत्तद्देवि दद्यात्परमं पदं तु ॥२९॥अनेकसंसारभयार्दितानां पापैरनेकैरभिवेष्टितानाम् ।गतिस्त्वमम्भोजसमानवक्त्रे द्वन्द्वैरनेकैरभिसंवृतानाम् ॥३०॥नद्यश्च पूता विमला भवन्ति त्वां देवि सम्प्राप्य न संशयोऽत्र ।दुःखातुराणामभयं ददासि शिष्टैरनेकैरभिपूजितासि ॥३१॥विण्मूत्रदेहाश्च निमग्नदेहा भ्रमन्ति तावन्नरकेषु मर्त्याः ।महाबलध्वस्ततरङ्गभङ्गं जलं न यावत्तव संस्पृशन्ति ॥३२॥म्लेच्छाः पुलिन्दास्त्वथ यातुधानाः पिबन्ति येऽंभस्तव देवि पुण्यम् ।तेऽपि प्रमुच्यन्ति भयाच्च घोरात्किमत्र विप्रा भवपाशभीताः ॥३३॥सरांसि नद्यः क्षयमभ्युपेता घोरे युगेऽस्मिन्कलिनावसृष्टे ।त्वं भ्राजसे देवि जलौघपूर्णा दिवीव नक्षत्रपथे च गङ्गा ॥३४॥तव प्रासादाद्वरदे विशिष्टे कालं यथेमं परिपालयित्वा ।यास्याम मोक्षं तव सुप्रसादाद्वयं यथा त्वं कुरु नः प्रसादम् ॥३५॥त्वामाश्रिता ये शरणं गताश्च गतिस्त्वमम्बेव पितेव पुत्रान् ।त्वत्पालिता यावदिमं सुघोरं कालं त्वनावृष्टिहतं क्षिपामः ॥३६॥एवं स्तुता तदा देवी नर्मदा सरितां वरा ।प्रत्यक्षा सा परा मूर्तिर्ब्राह्मणानां युधिष्ठिर ॥३७॥श्रीमार्कण्डेय उवाच -पठन्ति ये स्तोत्रमिदं नरेन्द्र शृण्वन्ति भक्त्या परया प्रशान्ताः ।ते यान्ति रुद्रं वृषसंयुतेन यानेन दिव्याम्बरभूषिताङ्गाः ॥३८॥ये स्तोत्रमेतत्सततं जपन्ति स्नात्वा च तोयेन तु नर्मदायाः ।तेभ्योऽन्तकाले सरिदुत्तमेयं गतिं विशुद्धामचिराद्ददाति ॥३९॥प्रातः समुत्थाय तथा शयानो यः कीर्तयेतानुदिनं स्तवेन्द्रम् ।देहक्षयं स्वे सलिले ददाति समाश्रयं तस्य महानुभाव ॥४०॥पापैर्विमुक्ता दिवि मोदमानाः सम्भोगिनश्चैव तु नान्यथा च ॥४१॥प्रसन्ना नर्मदा देवी स्तोत्रेणानेन भारत ।जलेनाप्यायितान् विप्रान् दक्षिणापथवाहिनी ॥४२॥अमृतत्वं तु वो दद्मि योगिभिर्यन्न गम्यते ।दुर्लभं यत्सुरैः सर्वैर्मत्प्रसादाल्लभिष्यथ ॥४३॥इति ते ब्राह्मणा राजंल्लब्धा वरमनुत्तमम् ।गमिष्यन्तः प्रीतचित्ता ददृशुश्चित्रमद्भुतम् ॥४४॥श्रीमार्कण्डेय उवाच -दृष्टास्तैः पुरुषाः पार्थ नर्मदातटसंस्थिताः ।स्नानदेवार्चनासक्ताः पञ्च एव महाबलाः ॥४५॥ते दृष्टा ब्राह्मणैः सर्वैर्वेदवेदाङ्गपारगैः ।संपृष्टास्तैर्महाराज यथा तदवधारय ॥४६॥विप्रा ऊचुः ।वनान्ते स्त्रीयुगं दृष्ट्वा महारौद्रं भयावहम् ।वृद्धाश्च पुरुषास्तत्र पाशहस्ता भयावहाः ॥४७॥दुर्धर्षा दुर्निरीक्ष्याश्च इतश्चेतश्च चञ्चलाः ।व्याहरन्तः शुभां वाचं न तत्र गतिरस्ति वै ॥४८॥अपरस्परयोः सर्वे निरीक्षन्तः पुनःपुनः ।तैस्तु यद्वचनं प्रोक्तं तत्सर्वं कथ्यतामिति ॥४९॥अस्माकं पुरुषाः पञ्च तिष्ठन्ति तत्र सत्तमाः ।ते प्रस्थाप्या महाभागाः सर्वथैव त्वरान्विताः ॥५०॥अथ ते पुरुषाः पञ्च श्रुत्वा वाक्यमिदं शुभम् ।परस्परं निरीक्षन्तो वदन्ति च पुनःपुनः ॥५१॥क्व ते कस्य कुतो याताः किमुक्तं तैर्भयावहैः ॥५२॥पुरुषा ऊचुः ।तीर्थावगाहनं सर्वैः पूर्वदक्षिणपश्चिमैः ।उत्तरैश्च कृतं भक्त्या न पापं तैर्व्यपोहितम् ॥५३॥निष्पापाश्चाथ संजातास्तीर्थस्यास्य प्रभावतः ।शृण्वन्तु ऋषयः सर्वे वह्निकालोपमा द्विजाः ॥५४॥पातकानि च घोराणि यान्यचिन्त्यानि देहिनाम् ।पापिष्ठेन तु चैकेन गुरुदारा निषेविता ॥५५॥हृतं चान्येन मित्रस्वं सुवर्णं च धनं तथा ।ब्रह्महत्या महारौद्रा कृता चान्येन पातकम् ॥५६॥सुरापानं तु चान्यस्य संजातं चाप्यकामतः ।गोवध्या चाप्यकामेन कृता चैकेन पापिना ॥५७॥अकामतोऽपि सर्वेषां पातकानि नराधिप ।ब्राह्मणानां तु ते श्रुत्वा वाक्यं तद्विस्मयान्विताः ॥५८॥सद्य एव तदा जाताः पापिष्ठा गतकल्मषाः ।तीर्थस्यास्य प्रभावेन नर्मदायाः प्रभावतः ॥५९॥न क्वचित्पातकानां तु प्रवेशश्चात्र जायते ।एवं संचित्य ते सर्वे पापिष्ठाश्च परस्परम् ॥६०॥चित्रभानुः स्मृतस्तैस्तु विचिन्त्य हृदये हरिम् ।स्नात्वा रेवाजले पुण्ये तर्पिताः पितृदेवताः ॥६१॥नत्वा तु भास्करं देवं हृदि ध्यात्वा जनार्दनम् ।प्रदक्षिणं तु तं भक्त्या ज्वलन्तं जातवेदसम् ॥६२॥पतिताः पाण्डवश्रेष्ठ पापोद्विग्ना महीपते ।सात्त्विकीं वासनां कृत्वा त्यक्त्वा रजस्तमस्तथा ॥६३॥हतं तैः पावके सर्वं रेवाया उत्तरे तटे ।विमानस्थास्तदा दृष्टा ब्राह्मणैस्ते युधिष्ठिर ॥६४॥आश्चर्यमतुलं दृष्टमृषिभिर्नर्मदातटे ।तदाप्रभृति ते सर्वे रागद्वेषविवर्जिताः ॥६५॥रवितीर्थं द्विजा हृष्टाः सेवन्ते मोक्षकाङ्क्षया ।तीर्थस्यास्य च यत्पुण्यं तच्छृणुष्व नराधिप ॥६६॥पीडितो वृद्धभावेन भक्त्या प्रीतो नरेश्वर ।उद्देशं कथयिष्यामि द्विक्रोशाभ्यन्तरे स्थितः ॥६७॥कुरुक्षेत्रं यथा पुण्यं रवितीर्थं श्रुतं मया ।ईश्वरेण पुरा ख्यातं षण्मुखस्य नराधिप ॥६८॥श्रुतं रुद्राच्च तैः सर्वैरहं तत्र समीपगः ।ईश्वर उवाच -मार्तण्डग्रहणे प्राप्ते ये व्रजन्ति षडानन ।रवितीर्थे कुरुक्षेत्रे तुल्यमेतत्फलं लभेत् ॥६९॥स्नाने दाने तथा जप्ये होमे चैव विशेषतः ।कुरुक्षेत्रे समं पुण्यं नात्र कार्या विचारणा ॥७०॥ग्रामे वा यदि वारण्ये पुण्या सर्वत्र नर्मदा ।रवितीर्थे विशेषेण रेवा पुण्यफलप्रदा ॥७१॥षष्ठ्यां सूर्यदिने भक्त्या व्यतीपाते च वै धृतौ ।संक्रान्तौ ग्रहणेऽमायां ये व्रजन्ति जितेन्द्रियाः ॥७२॥कामक्रोधैर्विमुक्ताश्च रागद्वेषैस्तथैव च ।उपोष्य परया भक्त्या देवस्याग्रे नराधिप ॥७३॥रात्रौ जागरणं कृत्वा दीपं देवस्य बोधयेत् ।कथां वै वैष्णवीं पार्थ वेदाभ्यसनमेव च ॥७४॥ऋग्वेदं वा यजुर्वेदं सामवेदमथर्वणम् ।ऋचमेकां जपेद्यस्तु स वेदफलमाप्नुयात् ॥७५॥गायत्र्या च चतुर्वेदफलमाप्नोति मानवः ।प्रभाते पूजयेद्विप्रानन्नदानहिरण्यतः ॥७६॥भूमिदानेन वस्त्रेण अन्नदानेन शक्तितः ।छत्रोपानहशय्यादिगृहदानेन पाण्डव ॥७७॥ग्रामधूर्वहदानेन गजकन्याहयेन च ।विद्याशकटदानेन सर्वेषामभयं भवेत् ॥७८॥शत्रुश्च मित्रतां याति विषं चैवामृतं भवेत् ।ग्रहा भवन्ति सुप्रीताः प्रीतस्तस्य दिवाकरः ॥७९॥एतत्ते सर्वमाख्यातं रवितीर्थफलं नृप ।ये शृण्वन्ति नरा भक्त्या रवितीर्थफलं शुभम् ॥८०॥तेऽपि पापविनिर्मुक्ता रविलोके वसन्ति हि ।गोदानेन च यत्पुण्यं यत्पुण्यं भृगुदर्शने ॥८१॥केदार उदकं पीत्वा तत्पुण्यं जायते नृणाम् ।अब्दमश्वत्थसेवायां तिलपात्रप्रदो भवेत् ॥८२॥तत्फलं समवाप्नोति आदित्येश्वरकीर्तनात् ।श्रुते यस्य प्रभावे न जायते यन्नृपात्मज ॥८३॥तत्सर्वं कथयिष्यामि भक्त्या तव महीपते ।पापानि च प्रलीयन्ते भिन्नपात्रे यथा जलम् ॥८४॥तीर्थस्याभिमुखो नित्यं जायते नात्र संशयः ।गुह्याद्गुह्यतरं तीर्थं कथितं तव पाण्डव ॥८५॥पापिष्ठानां कृतघ्नानां स्वामिमित्रावघातिनाम् ।तीर्थाख्यानं शुभं तेषां गोपितव्यं सदा बुधैः ॥८६॥॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे आदित्येश्वरतीर्थमाहात्म्यवर्णनं नाम षष्टितमोऽध्यायः ॥ N/A References : N/A Last Updated : December 09, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP