रेवा खण्डम् - अध्याय १४४
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महाराज द्वादशीतीर्थमुत्तमम् ।
क्षरन्ति सर्वदानानि जपहोमबलिक्रियाः ॥१॥
न क्षीयते तु राजेन्द्र चक्रतीर्थे तु यत्कृतम् ।
यद्भूतं यद्भविष्यच्च तीर्थमाहात्म्यमुत्तमम् ॥२॥
कथितं तन्मया सर्वं पृथग्भावेन भारत ॥३॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे द्वादशीतीर्थमहात्म्यवर्णनं नाम चतुश्चत्वारिंशदधिकशततमोऽध्यायः ॥
N/A
References : N/A
Last Updated : December 15, 2024
TOP