संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्|
अध्याय १००

रेवा खण्डम् - अध्याय १००

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महीपाल तीर्थं परमरोचनम् ।
मार्कण्डेशमिति ख्यातं नर्मदादक्षिणे तटे ॥१॥
उत्तमं सर्वतीर्थानां गीर्वाणैर्वन्दितं शिवम् ।
गुह्याद्गुह्यतरं पुत्र नाख्यातं कस्यचिन्मया ॥२॥
स्थापितं तु मया पूर्वं स्वर्गसोपानसंनिभम् ।
ज्ञानं तत्रैव मे जातं प्रसादाच्छङ्करस्य च ॥३॥
अन्यस्तत्रैव यो गत्वा द्रुपदामन्तर्जले जपेत् ।
स पातकैरशेषश्च मुच्यते पाण्डुनन्दन ॥४॥
वाचिकैर्मानसैश्च वा कर्मजैरपि पातकैः ।
पिण्डिकां चाप्यवष्टभ्य याम्यामाशां च संस्थितः ॥५॥
योजयेच्छूलिनं भक्त्या द्वात्रिंशद्बहुरूपिणम् ।
देहपाते शिवं गच्छेदिति मे निश्चयो नृप ॥६॥
आज्येन बोधयेद्दीपमष्टम्यां निशि भारत ।
स्वर्गलोकमवाप्नोति इत्येवं शङ्करोऽब्रवीत् ॥७॥
श्राद्धं तत्रैव यो भक्त्या कुर्वीत नृपनन्दन ।
पितरस्तस्य तृप्यन्ति यावदाभूतसम्प्लवम् ॥८॥
इङ्गुदैर्बदरैर्बिल्वैरक्षतेन जलेन वा ।
तर्पयेत्तत्र यो वंश्यानाप्नुयाज्जन्मनः फलम् ॥९॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मार्कण्डेश्वरतीर्थमाहात्म्यवर्णनं नाम शततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : December 12, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP