रेवा खण्डम् - अध्याय २१९
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
श्रीमार्कण्डेय उवाच -
नर्मदादक्षिणे कूले तीर्थं कोटीश्वरं परम् ।
यत्र स्नानं च दानं च सर्वं कोटिगुणं भवेत् ॥१॥
तत्र देवाः सगन्धर्वा ऋषयो ये तथामलाः ।
कोटितीर्थे परां सिद्धिं सम्प्राप्ता भुवि दुर्लभाम् ॥२॥
स्थापितश्च महादेवस्तत्र कोटीश्वरो नृप ।
तं दृष्ट्वा देवदेवेशं सिद्धिं प्राप्नोत्यनुत्तमाम् ॥३॥
तत्र तीर्थे तु यत्किंचिच्छुभं वा यदि वाशुभम् ।
क्रियते तन्नृपश्रेष्ठ सर्वं कोटिगुणं भवेत् ॥४॥
तत्र दक्षिणमार्गस्था ये केचिन्मुनिसत्तमाः ।
सिद्धा मृताः पदं यान्ति पितृलोकं ध्रुवं हि ते ॥५॥
उत्तरं नर्मदाकूलं ये श्रेष्ठा मुनिपुंगवाः ।
देवलोकं गताः पूर्वमिति शास्त्रस्य निश्चयः ॥६॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कोटितीर्थमाहात्म्यवर्णनं नामैकोनविंशदधिकद्विशततमोऽध्यायः ॥
N/A
References : N/A
Last Updated : December 17, 2024

TOP