संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्| अध्याय २१८ रेवा खण्डम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ विषयानुक्रमणिका विषयानुक्रमणिका रेवा खण्डम् - अध्याय २१८ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय २१८ Translation - भाषांतर श्रीमार्कण्डेय उवाच -ततो गच्छेद्धराधीश तीर्थं परमशोभनम् ।जमदग्निरिति ख्यातं यत्र सिद्धो जनार्दनः ॥१॥युधिष्ठिर उवाच -कथं सिद्धो द्विजश्रेष्ठ वासुदेवो जगद्गुरुः ।मानुषं रूपमास्थाय लोकानां हितकाम्यया ॥२॥एतत्सर्वं यथान्यायं देवदेवस्य चक्रिणः ।चरितं श्रोतुमिच्छामि कथ्यमानं त्वयानघ ॥३॥श्रीमार्कण्डेय उवाच -आसीत्पूर्वं महाराज हैहयाधिपतिर्महान् ।कार्तवीर्य इति ख्यातो राजा बाहुसहस्रवान् ॥४॥हस्त्यश्वरथसम्पन्नः सर्वशस्त्रभृतां वरः ।वेदविद्याव्रतस्नातः सर्वभूताभयप्रदः ॥५॥माहिष्मत्याः पतिः श्रीमान्राजा ह्यक्षौहिणीपतिः ।स कदाचिन्मृगान्हन्तुं निर्जगाम महाबलः ॥६॥बहुभिर्दिवसैः प्राप्तो भृगुकच्छमनुत्तमम् ।जमदग्निर्महातेजा यत्र तिष्ठति तापसः ॥७॥रेणुकासहितः श्रीमान्सर्वभूताभयप्रदः ।तस्य पुत्रोऽभवद्रामः साक्षान्नारायणः प्रभुः ॥८॥सर्वक्षत्रगुणैर्युक्तो ब्रह्मविद्ब्राह्मणोत्तमः ।तोषयन्परया भक्त्या पितरौ परमार्थवत् ॥९॥तं तदा चार्जुनं दृष्ट्वा जमदग्निः प्रतापवान् ।चरन्तं मृगयां गत्वा ह्यातिथ्येन न्यमन्त्रयत् ॥१०॥तथेति चोक्त्वा स नृपः सभृत्यबलवाहनः ।जगाम चाश्रमं पुण्यमृषेस्तस्य महात्मनः ॥११॥तत्क्षणादेव सम्पन्नं श्रिया परमया वृतम् ।विस्मयं परमं तत्र दृष्ट्वा राजा जगाम ह ॥१२॥गतमात्रस्तु सिद्धेन परमान्नेन भोजितः ।सभृत्यबलवान्राजा ब्राह्मणेन यदृच्छया ।किमेतदिति पप्रच्छ कारणं शक्तिमेव च ॥१३॥कामधेनोः प्रभावं तं ज्ञात्वा प्राह ततो द्विजम् ।दक्षिणां देहि मे विप्र कल्मषां धेनुमुत्तमाम् ॥१४॥शतं शतसहस्राणामयुतं नियुतं परम् ।भूषितानां च धेनूनां ददामि तव चार्बुदम् ॥१५॥जमदग्निरुवाच -अयुतैः प्रयुतैर्नाहं शतकोटिभिरुत्तमाम् ।कामधेनुमिमां तात न दद्मि प्रतिगम्यताम् ॥१६॥एवमुक्तः स राजेन्द्रस्तेन विप्रेण भारत ।क्रोधसंरक्तनयन इदं वचनमब्रवीत् ॥१७॥यस्येदृशः कामचारो मय्यपि द्विजपांसन ।अहं ते पश्यतस्तस्मान्नयामि सुरभिं गृहात् ॥१८॥द्विज उवाच -कः क्रीडति सरोषेण निर्भयो हि महाहिना ।मृत्युदृष्टोतरेणापि मम धेनुं नयेत यः ॥१९॥एवमुक्त्वा महादण्डं ब्रह्मदण्डमिवापरम् ।गृहीत्वा परमक्रुद्धो जमदग्निरुवाच ह ॥२०॥यस्यास्ति शक्तिस्तेजो वा क्षत्रियस्य कुलाधमः ।धेनुं नयतु मे सद्यः क्षीणायुः सपरिच्छदः ॥२१॥एतच्छ्रुत्वा वचः क्रूरं हैहयः शतशो वृतः ।धावमानः क्षितितले ब्रह्मदण्डहतोऽपतत् ॥२२॥हुंकृतेन ततो धेन्वाः खड्गपाशासिपाणयः ।निर्गच्छन्तः प्रदृश्यन्ते कल्मषायाः सहस्रशः ॥२३॥नासापुटाग्राद्रोमाग्रात्किराता मागधा गुदात् ।रन्ध्रान्तरेषु चोत्पन्नाः शतशोऽथ सहस्रशः ॥२४॥एवमन्योऽन्यमाहत्य हैहयष्टङ्कणान्दहन् ।विनाशं सह विप्रेण गता ह्यर्जुनतेजसा ॥२५॥कार्तवीर्यो जयं लब्ध्वा संख्ये हत्वा द्विजोत्तमम् ।जगाम स्वां पुरीं हृष्टः कृतान्तवशमोहितः ॥२६॥ततस्त्वरान्वितः प्राप्तः पश्चाद्रामो गते रिपौ ।आक्रन्दमानां जननीं ददर्श पितुरन्तिके ॥२७॥राम उवाच -केनेदमात्मनाशाय ह्यज्ञानात्साहसं कृतम् ।मम तातं जिघांसुर्यो द्रष्टुं मृत्युमिहेच्छति ॥२८॥ततः सा रामवाक्येन गतसत्त्वेव विह्वला ।उदरं करयुग्मेन ताडयन्ती ह्युवाच तम् ॥२९॥अर्जुनेन नृशंसेन क्षत्रियैरपरैः सह ।इहागत्य पिता तेन निहतो बाहुशालिना ॥३०॥तं पश्य निहतं तातं गतासुं गतचेतसम् ।संस्कृत्य विधिवत्पुत्र तर्पयस्व यथातथम् ॥३१॥एतच्छ्रुत्वा स वचनं जननीमभिवाद्य ताम् ।प्रतिज्ञामकरोद्यां तां शृणुष्व च नराधिप ॥३२॥त्रिःसप्तकृत्वः पृथिवीं निःक्षत्रियकुलान्वयाम् ।स्नात्वा च तेषामसृजा तर्पयिष्यामि ते पतिम् ॥३३॥तस्यापि परशुना बाहून् कार्तवीर्यस्य दुर्मतेः ।छित्त्वा पास्यामि रुधिरमिति सत्यं शृणुष्व मे ॥३४॥एवं प्रतिज्ञां कृत्वासौ जामदग्न्यः प्रतापवान् ।क्रोधेन महताविष्टः संस्कृत्य पितरं ततः ॥३५॥माहिष्मतीं पुरीं रामो जगाम क्रोधमूर्छितः ।छित्त्वा बाहुवनं तस्य हत्वा तं क्षत्रियाधमम् ॥३६॥जगाम क्षत्रियान्ताय पृथिवीमवलोकयन् ।सप्तद्वीपार्णवयुतां सशैलवनकाननाम् ॥३७॥पूर्वतः पश्चिमामाशां दक्षिणोत्तरतः कुरून् ।समन्तपञ्चके पञ्च चकार रुधिरह्रदान् ॥३८॥स तेषु रुधिराम्भस्तु ह्रदेषु क्रोधमूर्छितः ।पितॄन् संतर्पयामास रुधिरेणेति नः श्रुतम् ॥३९॥अथर्चीकादय उपेत्य पितरो ब्राह्मणर्षभम् ।तं क्षमस्वेति जगदुस्ततः स विरराम ह ॥४०॥तेषां समीपे यो देशो ह्रदानां रुधिराम्भसाम् ।समं तपं चक्रमिति पुण्यं तत्परिकीर्तितम् ॥४१॥निवर्त्य कर्मणस्तस्मात्पित्ःन् प्रोवाच पाण्डव ।रामः परमधर्मात्मा यदिदं रुधिरं मया ॥४२॥क्षिप्तं पञ्चसु तीर्थेषु तद्भूयात्तीर्थमुत्तमम् ।तथेत्युक्त्वा तु ते सर्वे पितरोऽदृश्यतां गताः ॥४३॥एवं रामस्य संसर्गो देवमार्गे युधिष्ठिर ।सर्वपापक्षयकरो दर्शनात्स्पर्शनान्नृणाम् ॥४४॥रेणुकाप्रत्ययार्थाय अद्यापि पितृदेवताः ।दृश्यन्ते देवमार्गस्थाः सर्वपापक्षयंकराः ॥४५॥तत्र तीर्थे तु राजेन्द्र नर्मदोदधिसङ्गमे ।स्थानं कृत्वा विधानेन मुच्यन्ते पातकैर्नराः ॥४६॥कुशाग्रेणापि कौन्तेय न स्पृष्टव्यो महोदधिः ।अनेन तत्र मन्त्रेण स्नातव्यं नृपसत्तम ॥४७॥नमस्ते विष्णुरूपाय नमस्तुभ्यमपां पते ।सान्निध्यं कुरु देवेश सागरे लवणाम्भसि ।इति स्पर्शनमन्त्रः ॥४८॥अग्निश्च तेजो मृडया च देहे रेतोऽथ विष्णुरमृतस्य नाभिः ।एतद्ब्रुवन् पाण्डव सत्यवाक्यं ततोऽवगाहेत पतिं नदीनाम् ॥४९॥पञ्चरत्नसमायुक्तं फलपुष्पाक्षतैर्युतम् ।मन्त्रेणानेन राजेन्द्र दद्यादर्घं महोदधेः ॥५०॥सर्वरत्ननिधानस्त्वं सर्वरत्नाकराकरः ।सर्वामरप्रधानेश गृहाणार्घं नमोऽस्तु ते ।इत्यर्घमन्त्रः ॥५१॥आ जन्मजनितात्पापान्मामुद्धर महोदधे ।याह्यर्चितो रत्ननिधे पर्वतान् पार्वणोत्तम ।इति विसर्जनमन्त्रः ॥५२॥कोऽपरः सागराद्देवात्स्वर्गद्वारविपाटन ।तत्र सागरपर्यन्तं महातीर्थमनुत्तमम् ॥५३॥जामदग्न्येन रामेण तत्र देवः प्रतिष्ठितः ।यत्र देवाः सगन्धर्वा मुनयः सिद्धचारणाः ॥५४॥उपासते विरूपाक्षं जमदग्निमनुत्तमम् ।रेणुकां चैव ये देवीं पश्यन्ति भुवि मानवाः ॥५५॥प्रियवासे शिवे लोके वसन्ति कालमीप्सितम् ।तत्र स्नात्वा नरो राजंस्तर्पयन्पितृदेवताः ॥५६॥तारयेन्नरकाद्घोरात्कुलानां शतमुत्तरम् ।स्नात्वा दत्त्वात्र सहिताः श्रुत्वा वै भक्तिपूर्वकम् ॥५७॥॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे जामदग्न्यतीर्थमाहात्म्यवर्णनं नामाष्टादशाधिकद्विशततमोऽध्यायः ॥ N/A References : N/A Last Updated : December 17, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP