संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्| अध्याय १९२ रेवा खण्डम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ विषयानुक्रमणिका विषयानुक्रमणिका रेवा खण्डम् - अध्याय १९२ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १९२ Translation - भाषांतर मार्कण्डेय उवाच -तस्यैवानन्तरं तात देवतीर्थमनुत्तमम् ।दृष्ट्वा तु श्रीपतिं पापैर्मुच्यते मानवो भुवि ॥१॥महर्षेस्तस्य जामाता भृगोर्देवो जनार्दनः ॥२॥युधिष्ठिर उवाच -कोऽयं श्रियः पतिर्देवो देवानामधिपो विभुः ।कथं जन्माभवत्तस्य देवेषु त्रिषु वा मुने ॥३॥सम्बन्धी च कथं जातो भृगुणा सह केशवः ।एतद्विस्तरतो ब्रह्मन् वक्तुमर्हसि भार्गव ॥४॥मार्कण्डेय उवाच -संक्षेपात्कथयिष्यामि साध्यस्य चरितं महत् ।न हि विस्तरतो वक्तुं शक्ताः सर्वे महर्षयः ॥५॥नारायणस्य नाभ्यब्जाज्जातो देवश्चतुर्मुखः ।तस्य दक्षोऽङ्गजो राजन् दक्षिणाङ्गुष्ठसम्भवः ॥६॥धर्मः स्तनान्तात्संजातस्तस्य पुत्रोऽभवत्किल ।नारायणसहायोऽसावजोऽपि भरतर्षभ ॥७॥मरुत्वती वसुर्ज्ञाना लम्बा भानुमती सती ।संकल्पा च मुहूर्ता च साध्या विश्वावती ककुप् ॥८॥धर्मपत्न्यो दशैवैता दाक्षायण्यो महाप्रभाः ।तासां साध्या महाभागा पुत्रानजनयन्नृप ॥९॥नरो नारायणश्चैव हरिः कृष्णस्तथैव च ।विष्णोरंशांशका ह्येते चत्वारो धर्मसूनवः ॥१०॥तथा नारायणनरौ गन्धमादनपर्वते ।आत्मन्यात्मानमाधाय तेपतुः परमं तपः ॥११॥ध्यायमानावनौपम्यं स्वं कारणमकारणम् ।वासुदेवमनिर्देश्यमप्रतर्क्यमनन्तरम् ॥१२॥योगयुक्तौ महात्मानावास्थितावुरुतापसौ ।तयोस्तपःप्रभावेण न तताप दिवाकरः ॥१३॥ववाह शङ्कितो वायुः सुखस्पर्शो ह्यशङ्कितः ।शिशिरोऽभवदत्यर्थं ज्वलन्नपि विभावसुः ॥१४॥सिंहव्याघ्रादयः सौम्याश्चेरुः सह मृगैर्गिरौ ।तयोर्गौरिव भारार्ता पृथिवी पृथिवीपते ॥१५॥चेरुश्च भूधराश्चैव चुक्षुभे च महोदधिः ।देवाश्च स्वेषु धिष्ण्येषु निष्प्रभेषु हतप्रभाः ।बभूवुरवनीपाल परमं क्षोभमागताः ॥१६॥देवराजस्तथा शक्रः संतप्तस्तपसा तयोः ।युयोजाप्सरसस्तत्र तयोर्विघ्नचिकीर्षया ॥१७॥इन्द्र उवाच -रम्भे तिलोत्तमे कुब्जे घृताचि ललिते शुभे ।प्रम्लोचे सुभ्रु सुम्लोचे सौरभेयि महोद्धते ॥१८॥अलम्बुषे मिश्रकेशि पुण्डरीके वरूथिनि ।विलोकनीयं बिभ्राणा वपुर्मन्मथबोधनम् ॥१९॥गन्धमादनमासाद्य कुरुध्वं वचनं मम ।नरनारायणौ तत्र तपोदीक्षान्वितौ द्विजौ ॥२०॥तेपाते धर्मतनयौ तपः परमदुश्चरम् ।तावस्माकं वरारोहाः कुर्वाणौ परमं तपः ॥२१॥कर्मातिशयदुःखार्तिप्रदावायतिनाशनौ ।तद्गच्छत न भीः कार्या भवतीभिरिदं वचः ॥२२॥स्मरः सहायो भविता वसन्तश्च वराङ्गनाः ।रूपं वयः समालोक्य मदनोद्दीपनं परम् ।कन्दर्पवशमभ्येति विवशः को न मानवः ॥२३॥मार्कण्डेय उवाच -इत्युक्त्वा देवराजेन मदनेन समं तदा ।जग्मुरप्सरसः सर्वा वसन्तश्च महीपते ॥२४॥गन्धमादनमासाद्य पुंस्कोकिलकुलाकुलम् ।चचार माधवो रम्यं प्रोत्फुल्लवनपादपम् ॥२५॥प्रववौ दक्षिणाशायां मलयानुगतोऽनिलः ।भृङ्गमालारुतरवै रमणीयमभूद्वनम् ॥२६॥गन्धश्च सुरभिः सद्यो वनराजिसमुद्भवः ।किन्नरोरगयक्षाणां बभूव घ्राणतर्पणः ॥२७॥वराङ्गनाश्च ताः सर्वा नरनारायणावृषी ।विलोभयितुमारब्धा वागङ्गललितस्मितैः ॥२८॥जगौ मनोहरं काचिन्ननर्त तत्र चाप्सराः ।अवादयत्तथैवान्या मनोहरतरं नृप ॥२९॥हावैर्भावैः सृतैर्हास्यैस्तथान्या वल्गुभाषितैः ।तयोः क्षोभाय तन्वङ्ग्यश्चक्रुरुद्यममङ्गनाः ॥३०॥तथापि न तयोः कश्चिन्मनसः पृथिवीपते ।विकारोऽभवदध्यात्मपारसम्प्राप्तचेतसोः ॥३१॥निवातस्थौ यथा दीपावकम्पौ नृप तिष्ठतः ।वासुदेवार्पणस्वस्थे तथैव मनसी तयोः ॥३२॥पूर्यमाणोऽपि चाम्भोभिर्भुवमन्यां महोदधिः ।यथा न याति संक्षोभं तथा तन्मानसं क्वचित् ॥३३॥सर्वभूतहितं ब्रह्म वासुदेवमयं परम् ।मन्यमानौ न रागस्य द्वेषस्य च वशंगतौ ॥३४॥स्मरोऽपि न शशाकाथ प्रवेष्टुं हृदयं तयोः ।विद्यामयं दीपयुतमन्धकार इवालयम् ॥३५॥पुष्पोज्ज्वलांस्तरुवरान् वसन्तं दक्षिणानिलम् ।ताश्चैवाप्सरसः सर्वाः कन्दर्पं च महामुनी ॥३६॥यच्चारब्धं तपस्ताभ्यामात्मानं गन्धमादनम् ।ददर्शातेऽखिलं रूपं ब्रह्मणः पुरुषर्षभ ॥३७॥दाहाय नामलो वह्नेर्नापः क्लेदाय चाम्भसः ।तद्द्रव्यमेव तद्द्रव्यविकाराय न वै यतः ॥३८॥ततो विज्ञाय विज्ञाय परं ब्रह्म स्वरूपतः ।मधुकन्दर्पयोषित्सु विकारो नाभवत्तयोः ॥३९॥ततो गुरुतरं यत्नं वसन्तमदनौ नृप ।चक्राते ताश्च तन्वङ्ग्यस्तत्क्षोभाय पुनःपुनः ॥४०॥अथ नारायणो धैर्यं संधायोदीर्णमानसः ।ऊरोरुत्पादयामास वराङ्गीमबलां तदा ॥४१॥त्रैलोक्यसुन्दरीरत्नमशेषमवनीपते ।गुणैर्लाघवमभ्येति यस्याः संदर्शनादनु ॥४२॥तां विलोक्य महीपाल चकम्पे मनसानिलः ।वसन्तो विस्मयं यातः स्मरः सस्मार किंचन ॥४३॥रम्भातिलोत्तमाद्याश्च वैलक्ष्यं देवयोषितः ।न रेजुरवनीपाल तल्लक्ष्यहृदयेक्षणाः ॥४४॥ततः कामो वसन्तश्च पार्थिवाप्सरसश्च ताः ।प्रणम्य भगवन्तौ तौ तुष्टुवुर्मुनिसत्तमौ ॥४५॥वसन्तकामाप्सरस ऊचुः ।प्रसीदतु जगद्धाता यस्य देवस्य मायया ।मोहिताः स्म विजानीमो नान्तरं विद्यते द्वयोः ॥४६॥प्रसीदतु स वां देवो यस्य रूपमिदं द्विधा ।धामभूतस्य लोकानामनादेरप्रतिष्ठतः ॥४७॥नरनारायणौ देवौ शङ्खचक्रायुधावुभौ ।आस्तां प्रसादसुमुखावस्माकमपराधिनाम् ॥४८॥निधानं सर्वविद्यानां सर्वपापवनानलः ।नारायणोऽतो भगवान् सर्वपापं व्यपोहतु ॥४९॥शार्ङ्गचिह्नायुधः श्रीमानात्मज्ञानमयोऽनघः ।नरः समस्तपापानि हतात्मा सर्वदेहिनाम् ॥५०॥जटाकलापबद्धोऽयमनयोर्नः क्षमावतोः ।सौम्यास्यदृष्टिः पापानि हन्तुं जन्मार्जितानि वै ॥५१॥तथात्मविद्यादोषेण योऽपराधः कृतो महान् ।त्रैलोक्यवन्द्यौ यौ नाथौ विलोभयितुमागताः ॥५२॥प्रसीद देव विज्ञानधन मूढदृशामिव ।भवन्ति सन्तः सततं स्वधर्मपरिपालकाः ॥५३॥दृष्ट्वैतन्नः समुत्पन्नं यथा स्त्रीरत्नमुत्तमम् ।त्वयि नारायणोत्पन्ना श्रेष्ठा पारवती मतिः ॥५४॥तेन सत्येन सत्यात्मन्परमात्मन्सनातन ।नारायण प्रसीदेश सर्वलोकपरायण ॥५५॥प्रसन्नबुद्धे शान्तात्मन्प्रसन्नवदनेक्षण ।प्रसीद योगिनामीश नर सर्वगताच्युत ॥५६॥नमस्यामो नरं देवं तथा नारायणं हरिम् ।नमो नराय नम्याय नमो नारायणाय च ॥५७॥प्रसन्नानामनाथानां तथा नाथवतां प्रभो ।शं करोतु नरोऽस्माकं शं नारायण देहि नः ॥५८॥मार्कण्डेय उवाच -एवमभ्यर्चितः स्तुत्या रागद्वेषादिवर्जितः ।प्राहेशः सर्वभूतानां मध्ये नारायणो नृप ॥५९॥नारायण उवाच -स्वागतं माधवे कामे भवत्वप्सरसामपि ।यत्कार्यमागतानां च इहास्माभिस्तदुच्यताम् ॥६०॥यूयं संसिद्धये नूनमस्माकं बलशत्रुणा ।संप्रेषितास्ततोऽस्माकं नृत्ययोगादिदर्शनम् ॥६१॥न वयं गीतनृत्येन नाङ्गचेष्टादिभाषितैः ।लुब्धा वै विषयैर्मन्ये विषया दारुणात्मकाः ॥६२॥शब्दादिसङ्गदुष्टानि यदा नाक्षाणि नः शुभाः ।तदा नृत्यादयो भावाः कथं लोभप्रदायिनः ॥६३॥ते सिद्धाः स्म न वै साध्या भवतीनां स्मरस्य च ।माधवस्य च शाक्रोऽपि स्वास्थ्यं यात्वविशङ्किताः ॥६४॥योऽसौ परश्च परमः पुरुषः परमेश्वरः ।परमात्मा समस्तस्य स्थावरस्य चरस्य च ॥६५॥उत्पत्तिहेतुरेते च यस्मिन्सर्वं प्रलीयते ।सर्वावासीति देवत्वाद्वासुदेवेत्युदाहृतः ॥६६॥वयमंशांशकास्तस्य चतुर्व्यूहस्य मानिनः ।तदादेशितवार्त्मानौ जगद्बोधाय देहिनाम् ॥६७॥तत्सर्वभूतं सर्वेशं सर्वत्र समदर्शिनम् ।कुतः पश्यन्तौ रागादीन्करिष्यामो विभेदिनः ॥६८॥वसन्ते मयि चेन्द्रे च भवतीषु तथा स्मरे ।यदा स एव भूतात्मा तदा द्वेषादयः कथम् ॥६९॥तन्मयान्यविभक्तानि यदा सर्वेषु जन्तुषु ।सर्वेश्वरेश्वरो विष्णुः कुतो रागादयस्ततः ॥७०॥ब्रह्माणमिन्द्रमीशानमादित्यमरुतोऽखिलान् ।विश्वेदेवानृषीन् साध्यान्वसून्पितृगणांस्तथा ॥७१॥यक्षराक्षसभूतादीन्नागान्सर्पान्सरीसृपान् ।मनुष्यपक्षिगोरूपगजसिंहजलेचरान् ॥७२॥मक्षिकामशकान्दंशाञ्छलभाञ्जलजान् कृमीन् ।गुल्मवृक्षलतावल्लीत्वक्सारतृणजातिषु ॥७३॥यच्च किंचिददृश्यं वा दृश्यं वा त्रिदशाङ्गनाः ।मन्यध्वं जातमेकस्य तत्सर्वं परमात्मनः ॥७४॥जायमानः कथं विष्णुमात्मानं परमं च यत् ।रागद्वेषौ तथा लोभं कः कुर्यादमराङ्गनाः ॥७५॥सर्वभूतमये विष्णौ सर्वगे सर्वधातरि ।निपात्य तं पृथग्भूते कुतो रागादिको गुणः ॥७६॥एवमस्मासु युष्मासु सर्वभूतेषु चाबलाः ।तन्मथैकत्वभूतेषु रागाद्यवसरः कुतः ॥७७॥सम्यग्दृष्टिरियं प्रोक्ता समस्तैक्यावलोकिनी ।पृथग्विज्ञानमात्रैव लोकसंव्यवहारवत् ॥७८॥भूतेन्द्रियान्तः करणप्रधानपुरुषात्मकम् ।जगद्वै ह्येतदखिलं तदा भेदः किमात्मकः ॥७९॥भवन्ति लयमायान्ति समुद्रसलिलोर्मयः ।न वारिभेदतो भिन्नास्तथैवैक्यादिदं जगत् ॥८०॥यथाग्नेरर्चिषः पीताः पिङ्गलारुणधूसराः ।तथापि नाग्नितो भिन्नास्तथैतद्ब्रह्मणो जगत् ॥८१॥भवतीभिश्च यत्क्षोभमस्माकं स पुरंदरः ।कारयत्यसदेतच्च विवेकाचारचेतसाम् ॥८२॥भवन्त्यः स च देवेन्द्रो लोकाश्च ससुरासुराः ।समुद्राद्रिवनोपेता मद्देहान्तरगोचराः ॥८३॥यथेयं चारुसर्वाङ्गी भवतीनां मयाग्रतः ।दर्शिता दर्शयिष्यामि तथा चैवाखिलं जगत् ॥८४॥प्रयातु शक्रो मा गर्वमिन्द्रत्वं कस्य सुस्थिरम् ।यूयं च मा स्मयं यात सन्ति रूपान्विताः स्त्रियः ॥८५॥किं सुरूपं कुरूपं वा यदा भेदो न दृश्यते ।तारतम्यं सुरूपत्वे सततं भिन्नदर्शनात् ॥८६॥भवतीनां स्मयं मत्वा रूपौदार्यगुणोद्भवम् ।मयेयं दर्शिता तन्वी ततस्तु शममेष्यथ ॥८७॥यस्मान्मदूरोर्निष्पन्ना त्वियमिन्दीवरेक्षणा ।उर्वशी नाम कल्याणी भविष्यति वराप्सराः ॥८८॥तदियं देवराजस्य नीयतां वरवर्णिनी ।भवत्यस्तेन चास्माकं प्रेषिताः प्रीतिमिच्छता ॥८९॥वक्तव्यश्च सहस्राक्षो नास्माकं भोगकारणात् ।तपश्चर्या न वाप्राप्यफलं प्राप्तुमभीप्सता ॥९०॥सन्मार्गमस्य जगतो दर्शयिष्ये करोम्यहम् ।तथा नरेण सहितो जगतः पालनोद्यतः ॥९१॥यदि कश्चित्तवाबाधां करोति त्रिदशेश्वर ।तमहं वारयिष्यामि निवृत्तो भव वासव ॥९२॥कर्तासि चेत्त्वमाबाधां न दुष्टस्येह कस्यचित् ।तं चापि शास्ता तदहं प्रवर्तिष्याम्यसंशयम् ॥९३॥एतज्ज्ञात्वा न सन्तापस्त्वया कार्यो हि मां प्रति ।उपकाराय जगतामवतीर्णोऽस्मि वासव ॥९४॥या चेयमुर्वशी मत्तः समुद्भूता पुरंदर त्रेताग्निहेतुभूतेयं एवं प्राप्य भविष्यति ॥९५॥॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये श्रीपत्युत्पत्तिवर्णनं नाम द्विनवत्युत्तरशततमोऽध्यायः ॥ N/A References : N/A Last Updated : December 17, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP