संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्|
अध्याय १३८

रेवा खण्डम् - अध्याय १३८

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


श्रीमार्कण्डेय उवाच -
ततो गच्छेत्पाण्डुपुत्र शक्रतीर्थमनुत्तमम् ।
यत्र सिद्धो महाभागो देवराजः शतक्रतुः ॥१॥
गौतमेन पुरा शप्तं ज्ञात्वा देवाः सुरेश्वरम् ।
ब्रह्माद्या देवताः सर्व ऋषयश्च तपोधनाः ॥२॥
गौतमं प्रार्थयामासुर्वाक्यैः सानुनयैः शुभैः ।
गतराज्यं गतश्रीकं शक्रं प्रति मुनीश्वर ॥३॥
इन्द्रेन रहितं राज्यं न कश्चित्कामयेद्द्विज ।
देवो वा मानवो वापि एतत्ते विदितं प्रभो ॥४॥
तस्य त्वं भगयुक्तस्य दयां कुरु द्विजोत्तम ।
गतश्चादर्शनं शक्रो दूषितः स्वेन पाप्मना ॥५॥
देवानां वचनं श्रुत्वा गौतमो वेदवित्तमः ।
तथेति कृत्वा शक्रस्य वरं दातुं प्रचक्रमे ॥६॥
एतद्भगसहस्रं तु पुरा जातं शतक्रतो ।
तल्लोचनसहस्रं तु मत्प्रसादाद्भविष्यति ॥७॥
एवमुक्तः सहस्राक्षः प्रणम्य मुनिसत्तमम् ।
ब्राह्मणांस्तान्महाभागान्नर्मदां प्रत्यगात्ततः ॥८॥
स्नात्वा स विमले तोये संस्थाप्य त्रिपुरान्तकम् ।
जगाम त्रिदशावासं पूज्यमानोऽप्सरोगणैः ॥९॥
तत्र तीर्थे तु यः स्नात्वा पूजयेत्परमेश्वरम् ।
परदाराभिगमनान्मुच्यते पातकान्नरः ॥१०॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शक्रतीर्थमाहात्म्यवर्णनं नामाष्टत्रिंशदधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : December 15, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP