संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्| अध्याय ३८ रेवा खण्डम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ विषयानुक्रमणिका विषयानुक्रमणिका रेवा खण्डम् - अध्याय ३८ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ३८ Translation - भाषांतर श्रीमार्कण्डेय उवाच -ततो गच्छेत राजेन्द्र गुहावासीति चोत्तमम् ।यत्र सिद्धो महादेवो गुहावासी समार्बुदम् ॥१॥युधिष्ठिर उवाच -केन कार्येण भो तात महादेवो जगद्गुरुः ।गुहायामनयत्कालं सुदीर्घं द्विजसत्तम ॥२॥एतद्विस्तरतः सर्वं कथयस्व ममानघ ।श्रोतुमिच्छाम्यहं सर्वपरं कौतूहलं हि मे ॥३॥मार्कण्डेय उवाच -साधु प्रश्नो महाराज पृष्टो यो वै त्वयोत्तमः ।पुराणे विस्तरो ह्यस्य न शक्यो हि मयाधुना ॥४॥कथितुं वृद्धभावत्वादतीतो बहुकालिकः ।संक्षेपात्तेन ते तात कथयामि निबोध मे ॥५॥पुरा कृतयुगे राजन्नासीद्दारुवनं महत् ।नानाद्रुमलताकीर्णं नानावल्ल्युपशोभितम् ॥६॥सिंहव्याघ्रवराहैश्च गजैः खड्गैर्निषेवितम् ।बहुपक्षियुतं दिव्यं यथा चैत्ररथं वनम् ॥७॥तत्र केचिन्महाप्राज्ञा वसन्ति संशितव्रताः ।वसन्ति परया भक्त्या चतुराश्रमभाविताः ॥८॥ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा ।स्वधर्मनिरताः सर्वे वाञ्छन्तः परमं पदम् ॥९॥तावद्वसन्तसमये कस्मिंश्चित्कारणान्तरे ।विमानस्थो महादेवो गच्छन्वै ह्युमया सह ॥१०॥ददर्श तोय आवासमृक्सामयजुर्नादितम् ।अलक्ष्यागतनिर्गम्यं सर्वपापक्षयंकरम् ॥११॥तं दृष्ट्वा मुदिता देवी हर्षगङ्गदया गिरा ।पप्रच्छ देवदेवेशं शशाङ्ककृतभूषणम् ॥१२॥देव्युवाच -कस्यायमाश्रमो देव वेदध्वनिनिनादितः ।यं दृष्ट्वा क्षुत्पिपासाद्यैः श्रमैश्च परिहीयते ॥१३॥महेश्वर उवाच -किं त्वया न श्रुतं देवि महादारुवनं महत् ।बहुविप्रजनो यत्र गृहधर्मेण वर्तते ॥१४॥अत्र यः स्त्रीजनः कश्चिद्भर्तृशुश्रूषणे रतः ।नान्यो देवो न वै धर्मो ज्ञायते शैलनन्दिनि ॥१५॥एतच्छ्रुत्वा परं वाक्यं देवदेवेन भाषितम् ।कौतूहलसमाविष्टा शङ्करं पुनरब्रवीत् ॥१६॥यत्त्वयोक्तं महादेव पतिधर्मरताः स्त्रियः ।तासां त्वं मदनो भूत्वा चारित्रं क्षोभय प्रभो ॥१७॥ईश्वर उवाच -यत्त्वयोक्तं च वचनं न हि मे रोचते प्रिये ।ब्राह्मणा हि महद्भूतं न चैषां विप्रियं चरेत् ॥१८॥मन्युप्रहरणा विप्राश्चक्रप्रहरणो हरिः ।चक्रात्क्रूरतरो मन्युस्तस्माद्विप्रं न कोपयेत् ॥१९॥न ते देवा न ते लोका न ते नगा न चासुराः ।दृश्यन्ते त्रिषु लोकेषु ये तैर्दृष्टैर्न नाशिताः ॥२०॥तेषां मोक्षस्तथा स्वर्गो भूमिर्मर्त्ये फलानि च ।येषां तुष्टा महाभागा ब्राह्मणाः क्षितिदेवताः ॥२१॥एवं ज्ञात्वा महाभागे असद्ग्राहं परित्यज ।तत्र लोके विरुद्धं वै कुप्यन्ते येन वै द्विजाः ॥२२॥देव्युवाच -नाहं ते दयिता देव नाहं ते वशवर्तिनी ।अकृत्वाधश्व वै तासां मानं सुरसुपूजितम् ॥२३॥लोकलोके महादेव अशक्यं नास्ति ते प्रभो ।क्रियतां मम चैवैकमेतत्कार्यं सुरोत्तम ॥२४॥एवमुक्तो महादेवो देव्या वाक्यहिते रतः ।कृत्वा कापालिकं रूपं ययौ दारुवनं प्रति ॥२५॥महाहितजटाजूटं नियम्य शशिभूषणम् ।कण्ठत्राणं परं कृत्वा धारयन् कर्णकुण्डले ॥२६॥व्याघ्रचर्मपरीधानो मेखलाहारभूषितः ।नूपुरध्वनिनिघोषैः कम्पयन् वै वसुंधराम् ॥२७॥महानूर्द्ध्वजटामाली कृत्तिभस्मानुलेपनः ।कृत्वा हस्ते कपालं तु ब्रह्मणश्च महात्मनः ॥२८॥महाडमरुघोषेण कम्पयन् वै वसुंधराम् ।प्रभातसमये प्राप्तो महादारुवनं प्रति ॥२९॥तावत्पुण्यजनः सर्वपुष्पपत्रफलार्थिकः ।निर्गतो बहुभिः सार्द्धं पवमानः समन्ततः ॥३०॥तद्दृष्ट्वा महदाश्चर्यं रूपं देवस्य भारत ।युवतीनां मनस्तासां कामेन कलुषीकृतम् ॥३१॥शोभनं पुरुषं दृष्ट्वा सर्वा अपि वराङ्गनाः ।क्लेदभावं ततो जग्मुर्मुदा दारुवनस्त्रियः ॥३२॥विकारा बहवस्तासां देवं दृष्ट्वा महाद्भुतम् ।संजाता विप्रपत्नीनां तदा तासु नरोत्तम ॥३३॥परिधानं न जानन्ति काश्चिद्दृष्ट्वा वराङ्गनाः ।उत्तरीयं तथा चान्या महामोहसमन्विताः ॥३४॥केशभारपरिभ्रष्टा काचिदेवासनोत्थिता ।दातुकामा तदा भैक्ष्यं चेष्टितुं नैव चाशकत् ॥३५॥काचिद्दृष्ट्वा महादेवं रूपयौवनगर्विता ।उत्सङ्गे संस्थितं बालं विस्मृता पायितुं स्तनम् ॥३६॥कामबाणहता चान्या बाहुभ्यां पीड्य सुस्तनौ ।निःश्वसन्ती तदा चोष्णं न किंचित्प्रतिजल्पति ॥३७॥एवं संक्षोभ्य तं सर्वं स्त्रीजनं परमेश्वरः ।जगाम तत्र वै तासां क्षोभं कृत्वा महाद्भुतम् ॥३८॥तावत्ते ब्राह्मणाः सर्वे भ्रमित्वा काननं महत् ।आगताः स्वगृहे दारान् ददृशुश्च हतौजसः ॥३९॥यासां पूर्वतरा भक्तिः पातिव्रत्ये पतीन्प्रति ।चलितास्ता विदित्वाशु निर्जग्मुर्द्विजसत्तमाः ॥४०॥संविदं परमां कृत्वा ज्ञात्वा देवं महेश्वरम् ।क्षोभयित्वा मनस्तासां ततश्चादर्शनं गतम् ॥४१॥क्रोधाविष्टो द्विजः कश्चिद्दण्डमुद्यम्य धावति ।कल्माषयष्टिमन्ये च तथान्ये दर्भमुष्टिकाम् ॥४२॥इतश्चेतश्च ते सर्वे भ्रमित्वा काननं नृप ।एकीभूत्वा महात्मानो व्याजह्रुश्च रुषा गिरम् ॥४३॥यदिदं च हुतं किंचिद्गुरवस्तोषिता यदि ।तेन सत्येन देवस्य लिङ्गं पततु चोत्तमम् ॥४४॥आश्रमादाश्रमं सर्वे न त्यजामो विधिक्रमात् ।तेन सत्येन देवस्य लिङ्गं पततु भूतले ॥४५॥एवं सत्यप्रभावेन त्रिरुक्तेन द्विजन्मनाम् ।शिवस्य पश्यतो लिङ्गं पतितं धरणीतले ॥४६॥हाहाकारो महानासील्लोकालोकेऽपि भारत ।देवस्य पतिते लिङ्गे जगतश्च महाक्षये ॥४७॥पतमानस्य लिङ्गस्य शब्दोऽभूच्च सुदारुणः ।उल्कापाता दिशां हाहा भूमिकम्पाश्च दारुणाः ॥४८॥पतन्ति पर्वताग्राणि शोषं यान्ति च सागराः ।देवस्य पतिते लिङ्गे देवा विमनसोऽभवन् ॥४९॥समेत्य सहिताः सर्वे ब्रह्माणं परमेष्ठिनम् ।कृताञ्जलिपुटाः सर्वे स्तुवन्ति विविधैः स्तवैः ॥५०॥ततस्तुष्टो जगन्नाथश्चतुर्वदनपङ्कजः ।आर्तान्प्राह सुरान्सर्वान्मा विषादं गमिष्यथ ॥५१॥ब्रह्मशापाभिभूतोऽसौ देवदेवस्त्रिलोचनः ।तुष्टैस्तैस्तपसा युक्तैः पुनर्मोक्षं गमिष्यति ॥५२॥एतच्छ्रुत्वा ययुर्देवा यथागतमरिन्दम ।भावयित्वा ततः सर्वे मुनयश्चैव भारत ॥५३॥विश्वामित्रवसिष्ठाद्या जाबालिरथ कश्यपः ।समेत्य सहिताः सर्वे तमूचुस्त्रिपुरान्तकम् ॥५४॥ब्रह्मतेजो हि बलवद्द्विजानां हि सुरेश्वर ।क्षान्तियुक्तस्तपस्तप्त्वा भविष्यसि गतक्लमः ॥५५॥यतः क्षोभादृषीणां च तदेवं लिङ्गमुत्तमम् ।पतितं ते महादेव न तत्पूज्यं भविष्यति ॥५६॥न तच्छ्रेयोऽग्निहोत्रेण नाग्निष्टोमेन लभ्यते ।प्राप्नुवन्ति च यच्छ्रेयो मानवा लिङ्गपूजने ॥५७॥देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् ।वचनेन तु विप्राणामेतत्पूज्यं भविष्यति ॥५८॥ब्रह्मविष्ण्विन्द्रचन्द्राणामेतत्पूज्यं भविष्यति ।यत्फलं तव लिङ्गस्य इह लोके परत्र च ॥५९॥एवमुक्तो जगन्नाथः प्रणिपत्य द्विजोत्तमान् ।मुदा परमया युक्तः कृताञ्जलिरभाषत ॥६०॥ब्राह्मणा जङ्गमं तीर्थं निर्जलं सार्वकामिकम् ।येषां वाक्योदकेनैव शुध्यन्ति मलिनो जनाः ॥६१॥न तत्क्षेत्रं न तत्तीर्थमूषरं पुष्कराणि च ।ब्राह्मणे मन्युमुत्पाद्य यत्र गत्वा स शुध्यति ॥६२॥न तच्छास्त्रं यन्न विप्रप्रणीतं न तद्दानं यन्न विप्रप्रदेयम् ।न तत्सौख्यं यन्नविप्रप्रसादान्न तद्दुःखं यन्न विप्रप्रकोपात् ॥६३॥पृथिव्यां यानि तीर्थानि गङ्गाद्याः सरितस्तथा ।एकस्य विप्रवाक्यस्य कलां नार्हन्ति षोडशीम् ॥६४॥अभिनन्द्य द्विजान्सर्वाननुज्ञातो महर्षिभिः ।ततोऽगमत्तदा देवो नर्मदातटमुत्तमम् ॥६५॥परमं व्रतमास्थाय गुहावासी समार्बुदम् ।तपश्चचार भगवाञ्जपस्नानरतः सदा ॥६६॥समाप्ते नियमे तात स्थापयित्वा महेश्वरम् ।वन्द्यमानः सुरैः सार्द्धं कैलासमगमत्प्रभुः ॥६७॥नर्मदायास्तटे तेन स्थापितः परमेश्वरः ।तेनैव कारणेनासौ नर्मदेश्वर उच्यते ॥६८॥योऽर्चयेन्नर्मदेशानं यतिर्वै संजितेन्द्रियः ।स्नात्वा चैव महादेवमश्वमेधफलं लभेत् ॥६९॥ददाति यः पितृभ्यस्तु तिलपुष्पकुशोदकम् ।त्रिःसप्तपूर्वजास्तस्य स्वर्गे मोदन्ति पाण्डव ॥७०॥यस्तु भोजयते विप्रांस्तस्मिंस्तीर्थे नराधिप ।पायसं घृतमिश्रं तु स लभेत्कोटिजं फलम् ॥७१॥सुवर्णं रजतं वापि ब्राह्मणेभ्यो युधिष्ठिर ।ददाति तोयमध्यस्थः सोऽग्निष्टोमफलं लभेत् ॥७२॥अष्टम्यांवा चतुर्दश्यां निराहारो वसेत्तु यः ।नर्मदेश्वरमासाद्य प्राप्नुयाज्जन्मनः फलम् ॥७३॥अग्निप्रवेशं यः कुर्यात्तस्मिंस्तीर्थे नराधिप ।तस्य व्याधिभयं न स्यात्सप्तजन्मसु भारत ॥७४॥अनाशकं तु यः कुर्यात्तस्मिंस्तीर्थे नराधिप ।अनिवर्तिका गतिस्तस्य रुद्रलोके भविष्यति ॥७५॥एष ते विधिरुद्दिष्टस्तस्योत्पत्तिर्नरोत्तम ।पुराणे विहिता तात संज्ञा तस्य तु विस्तरात् ॥७६॥एतं कीर्तयते यस्तु नर्मदेश्वरसम्भवम् ।भक्त्या शृणोति च नरः सोऽपि स्नानफलं लभेत् ॥७७॥॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये नर्मदेश्वरतीर्थमाहात्म्यवर्णनं नामाष्टत्रिंशोऽध्यायः ॥ N/A References : N/A Last Updated : December 09, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP