संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्| अध्याय ९० रेवा खण्डम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ विषयानुक्रमणिका विषयानुक्रमणिका रेवा खण्डम् - अध्याय ९० भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ९० Translation - भाषांतर श्रीमार्कण्डेय उवाच -रेवाया उत्तरे कूले वैष्णवं तीर्थमुत्तमम् ।जलशायीति वै नाम विख्यातं वसुधातले ॥१॥दानवानां वधं कृत्वा सुप्तस्तत्र जनार्दनः ।चक्रं प्रक्षालितं तत्र देवदेवेन चक्रिणा ।सुदर्शनं च निष्पापं रेवाजलसमाश्रयात् ॥२॥युधिष्ठिर उवाच -चक्रतीर्थं समाचक्ष्व मुनिसंघैश्च वन्दितम् ।विष्णोः प्रभावमतुलं रेवायाश्चैव यत्फलम् ॥३॥श्रीमार्कण्डेय उवाच -साधु साधु महाप्राज्ञ विरक्तस्त्वं युधिष्ठिर ।गुह्याद्गुह्यतरं तीर्थं निर्मितं चक्रिणा स्वयम् ॥४॥तत्तेऽहं सम्प्रवक्ष्यामि कथां पापप्रणाशिनीम् ।आसीत्पुरा महादैत्यस्तालमेघ इति श्रुतः ॥५॥तेन देवा जिताः सर्वे हृतराज्या नराधिप ।यज्ञभागान् स्वयं भुङ्क्ते अहं विष्णुर्न संशयः ॥६॥धनदस्य हृतं चित्तं हृतः शक्रस्य वारणः ।इन्द्राणीं वाञ्छते पापो हयरत्नं रवेरपि ॥७॥तालमेघभयात्पार्थ रविरुद्राः सवासवाः ।यमः स्कन्दो जलेशोऽग्निर्वायुर्देवो धनेश्वरः ॥८॥सवाक्पतिमहेशाश्च नष्टचित्ताः पितामहम् ।गता देवा ब्रह्मलोकं तत्र दृष्ट्वा पितामहम् ॥९॥तुष्टुवुर्विविधैः स्तोत्रैर्वागीशप्रमुखाः सुराः ।गुणत्रयविभागाय पश्चाद्भेदमुपेयुषे ॥१०॥दृष्ट्वा देवान्निरुत्साहान् विवर्णानवनीपते ।प्रसादाभिमुखो देवः प्रत्युवाच दिवौकसः ॥११॥ब्रह्मोवाच -स्वागतं सुरसङ्घस्य कान्तिर्नष्टा पुरातनी ।हिमक्लिष्टप्रभावेण ज्योतींषीव मुखानि वः ॥१२॥प्रशमादर्चिषामेतदनुद्गीर्णं सुरायुधम् ।वृत्रस्य हन्तुः कुलिशं कुण्ठितश्रीव लक्ष्यते ॥१३॥किं चायमरिदुर्वारः पाणौ पाशः प्रचेतसः ।मन्त्रेण हतवीर्यस्य फणिनो दैन्यमाश्रितः ॥१४॥कुबेरस्य मनःशल्यं शंसतीव पराभवम् ।अपविद्धगतो वायुर्भग्नशाख इव द्रुमः ॥१५॥यमोऽपि विलिखन्भूमिं दण्डेनास्तमितत्विषा ।कुरुतेऽस्मिन्नमोघोऽपि निर्वाणालातलाघवम् ॥१६॥अमी च कथमादित्याः प्रतापक्षतिशीतलाः ।चित्रन्यस्ता इव गताः प्रकामालोकनीयताम् ॥१७॥तद्ब्रूत वत्साः किमितः प्रार्थयध्वं समागताः ।किमागमनकृत्यं वो ब्रूत निःसंशयं सुराः ॥१८॥मयि सृष्टिर्हि लोकानां रक्षा युष्मास्ववस्थिता ।ततो मन्दानिलोद्भूतकमलाकरशोभिना ॥१९॥गुरुं नेत्रसहस्रेण प्रेरयामास वृत्रहा ।स द्विनेत्रं हरेश्चक्षुः सहस्रनयनाधिकम् ॥२०॥वाचस्पतिरुवाचेदं प्राञ्जलिर्जलजासनम् ।युष्मद्वंशोद्भवस्तात तालमेघो महाबलः ॥२१॥उपतापयते देवान्धूमकेतुरिवोच्छ्रितः ।तेन देवगणाः सर्वे दुःखिता दानवेन च ॥२२॥तालमेघो दैत्यपतिः सर्वान्नो बाधते बली ।तस्मात्त्वां शरणं प्राप्ताः शरणं नो विधे भव ॥२३॥ततः प्रसन्नो भगवान् वेधास्तानब्रवीद्वचः ॥२४॥ब्रह्मोवाच -तालमेघेन वो मध्ये बली तेन समः सुराः ।विना माधवदेवेन साध्यो मे नैव दानवः ॥२५॥ततः सुरगणाः सर्वे विरिञ्चिप्रमुखा नृप ।क्षीरोदं प्रस्थिताः सर्वे दुःखितास्तेन वैरिणा ॥२६॥त्वरिताः प्रस्थिता देवाः केशवं द्रष्टुकाम्यया ।क्षीरोदं सागरं गत्वास्तुवंस्ते जलशायिनम् ॥२७॥देवा ऊचुः ।जगदादिरनादिस्त्वं जगदन्तोऽप्यनन्तकः ।जगन्मूर्तिरमूर्तिस्त्वं जय गीर्वाणपूजित ॥२८॥जय क्षीरोदशयन जय लक्ष्म्या सदा वृत ।जय दानवनाशाय जय देवकिनन्दन ॥२९॥जय शङ्खगदापाणे जय चक्रधर प्रभो ।इति देवस्तुतिं श्रुत्वा प्रबुद्धो जलशाय्यथ ॥३०॥उवाच मधुरां वाणीं मेघगम्भीरनिस्वनाम् ।किमर्थं बोधितो ब्रह्मन् समर्थैर्वः सुरासुरैः ॥३१॥ब्रह्मोवाच -तालमेघभयात्कृष्ण सम्प्राप्तास्तव मन्दिरम् ।न वध्यः कस्यचित्पापस्तालमेघो जनार्दन ॥३२॥त्वमेव जहि तं दुष्टं मृत्युं यास्यति नान्यथा ॥३३॥श्रीकृष्ण उवाच -स्वस्थानं गम्यतां देवाः स्वकीयां लभत प्रजाम् ।दुष्टात्मानं हनिष्यामि तालमेघं महाबलम् ॥३४॥स्थानं ब्रुवन्तु मे देवा वसेद्यत्र स दानवः ॥३५॥देवा ऊचुः ।हिमाचलगुहायां स वसते दानवेश्वरः ।चतुर्विंशतिसाहस्रैः कन्याभिः परिवारितः ॥३६॥तुरङ्गैः स्यन्दनैः कृष्ण संख्या तस्य न विद्यते ।नटा नानाविधास्तत्र असंख्यातगुणा हरे ॥३७॥द्विरदाः पर्वताकारा हयाश्च द्विरदोपमाः ।महाबलो वसेत्तत्र गीर्वाणभयदायकः ॥३८॥श्रुत्वा देवो वचस्तेषां देवानामातुरात्मनाम् ।अचिन्तयद्गरुत्मन्तं शत्रुसङ्घविनाशनम् ॥३९॥चक्रं करेण संगृह्य गदाचक्रधरः प्रभुः ।शार्ङ्गं च मुशलं सीरं करैर्गृह्य जनार्दनः ॥४०॥आरूढः पक्षिराजेन्द्रं वधार्थं दानवस्य च ।दानवस्य पुरे पेतुरुत्पाता घोररूपिणः ॥४१॥गोमायुर्गृध्रमध्ये तु कपोतैः सममाविशत् ।विना वातेन तस्यैव ध्वजदण्डः पपात ह ॥४२॥सर्पसूषकयोर्युद्धं तथा केसरिनागयोः ।उन्मार्गाः सरितस्तत्रावहन्रक्तविमिश्रिताः ।अकालतरुपुष्पाणि दृश्यन्ते स्म समन्ततः ॥४३॥ततः प्राप्तो जगन्नाथो हिमवन्तं नगेश्वरम् ।पाञ्चजन्यश्वसहसा पूरितः पुरसन्निधौ ॥४४॥तेन शब्देन महता ह्यारूढो दानवेश्वरः ।उवाच च तदा वाक्यं तालमेघो महाबलः ॥४५॥तालमेघ उवाच -कोऽयं मृत्युवशं प्राप्तो ह्यज्ञात्वा मम विक्रमम् ।धुन्धुमाराज्ञया ह्याशु स्वसैन्यपरिवारितः ॥४६॥बलादानय तं बद्ध्वा ममाग्रे बहुशालिनम् ॥४७॥धुन्धुमार उवाच -आनयामि न सन्देहः सुरो यक्षोऽथ किन्नरः ।स्यन्दनौघैः समायुक्तो गजवाजिभटैः सह ॥४८॥हृष्टस्ततो जगद्योनिः सुपर्णस्थो महाबलः ।गृह्यतां गृह्यतामेष इत्युक्तास्तेन किंकराः ॥४९॥चतुर्दिक्षु प्रधावन्त इतश्चेतश्च सर्वतः ।सुपर्णेनाग्निरूपेण दग्धास्ते शलभा यथा ॥५०॥धुन्धुमारोऽपि कृष्णेन शरघातेन ताडितः ।हतो वक्षःस्थले पापो मृतावस्थो रथोपरि ॥५१॥हाहाकारं ततः सर्वे दानवाश्चक्रुरातुराः ।तालमेघस्ततः क्रुद्धो रथारूढो विनिर्गतः ।ददृशे केशवं पार्थ शङ्खचक्रगदाधरम् ॥५२॥तालमेघ उवाच -अन्ये ते दानवाः कृष्ण ये हताः समरे त्वया ।हिरण्यकशिपुप्रख्यानपुमांसो हि तेऽच्युत ॥५३॥इत्युक्त्वा दानवः पार्थ वर्षयामास सायकैः ।दानवस्य शरान्मुक्तान् छेदयामास केशवः ॥५४॥गरुत्मानवधीत्सैन्यमवध्यं यत्सुरासुरैः ।कृष्णेन द्विगुणास्तस्य प्रेषिताः स्वशिलीमुखाः ॥५५॥द्विगुणं द्विगुणीकृत्य प्रेषयामास दानवः ।तानप्यष्टगुणैः कृष्णश्छादयामास सायकैः ॥५६॥ततः क्रुद्धेन दैत्येन ह्याग्नेयं बाणमुत्तमम् ॥५७॥वारुणं प्रेषयामास त्वाग्नेयं शमितं ततः ।वारुणेनैव वायव्यं तालमेघो व्यसर्जयत् ॥५८॥सार्पं चैव हृषीकेशो वायव्यस्य प्रशान्तये ।नारसिंहं नृसिंहोऽपि प्रेषयामास पाण्डव ॥५९॥नारसिंहं ततो दृष्ट्वा तालमेघो महाबलः ।उत्तीर्य स्यन्दनाच्छीघ्रं गृहीत्वा खड्गचर्मणी ॥६०॥कृष्ण त्वां प्रेषयिष्यामि यममार्गं सुदारुणम् ।इत्युक्त्वा दानवः पार्थ आगतः केशवं प्रति ॥६१॥खड्गेनाताडयद्दैत्यो गदापाणिं जनार्दनम् ।मण्डलाग्रं ततो गृह्य केशवो हृष्टमानसः ॥६२॥जघनोरःस्थले पार्थ तालमेघं महाहवे ।जनार्दनस्तदा दैत्यं दैत्यो हरिमहन्मृधे ॥६३॥जनार्दनस्ततः क्रुद्धस्तालमेघाय भारत ।अमोघं चक्रमादाय मुक्तं तस्य च मूर्धनि ॥६४॥निपपात शिरस्तस्य पर्वताश्च चकम्पिरे ।समुद्राः क्षुभिताः पार्थ नद्य उन्मार्गगामिनीः ॥६५॥पुष्पवृष्टिं ततो देवा मुमुचुः केशवोपरि ।अवध्यः सुरसङ्घानां सूदितः केशव त्वया ॥६६॥स्वस्थाश्चैव ततो देवास्तालमेघे निपातिते ।जनार्दनोऽपि कौन्तेय नर्मदातटमाश्रितः ॥६७॥क्षीरोदां नर्मदां मत्वा अनन्तभुजगोपरि ।लक्ष्म्या समन्वितः कृष्णो निलीनश्चोत्तरे तटे ॥६८॥चक्रं विभीषणं मर्त्ये ज्वालामालासमन्वितम् ।पतितं नर्मदातोये जलशायिसमीपतः ॥६९॥निर्धूतकल्मषं जातं नर्मदातोययोगतः ।तालमेघवधोत्पन्नं यत्पापं नृपनन्दन ॥७०॥तत्स्रवं क्षालितं सद्यो नर्मदांभसि भारत ।तदाप्रभृति लोकेऽस्मिञ्जलशायी महीपते ॥७१॥चक्रतीर्थं वदन्त्यन्ये केचित्कालाघनाशनम् ।विख्यातं भारते वर्षे नर्मदायां महीपते ॥७२॥तत्तीर्थस्य प्रभावोऽयं श्रूयतामवनीपते ।यथाऽनन्तो हि नागानां देवानां च जनार्दनः ॥७३॥मासानां मार्गशीर्षोऽस्ति नदीनां नर्मदा यथा ।मासि मार्गशिरे पार्थ ह्येकादश्यां सितेऽहनि ॥७४॥गत्वा यो मनुजो भक्त्या कामक्रोधविवर्जितः ।वैष्णवीं भावनां कृत्वा जलेशं तु व्रजेत वै ॥७५॥एकभुक्तं च नक्तं च तथैवायाचितं नृप ।उपवासं तथा दानं ब्राह्मणानां च भोजनम् ॥७६॥करोति च कुरुश्रेष्ठ न स याति यमालयम् ।यमलोकभयाद्भीता ये लोकाः पाण्डुनन्दन ॥७७॥ते पश्यन्तु श्रियः कान्तं नागपर्यङ्कशायिनम् ।गोपीजनसमावृत्तं योगनिद्रां समाश्रितम् ।विश्वरूपं जगन्नाथं संसारभयनाशनम् ॥७८॥स्नापयेत्परया भक्त्या क्षौद्रक्षीरेण सर्पिषा ।खण्डेन तोयमिश्रेण जगद्योनिं जनार्दनम् ॥७९॥स्नाप्यमानं च पश्यन्ति ये लोका गतमत्सराः ।ते यान्ति परमं लोकं सुरासुरनमस्कृतम् ॥८०॥घृतेन बोधयेद्दीपमथवा तैलपूरितम् ।रात्रौ जागरणं कृत्वा दैवस्याग्रे विमत्सराः ॥८१॥ये कथां वैष्णवीं भक्त्या शृण्वन्ति च नृपोत्तम ।ब्रह्महत्यादिपापानि नश्यन्ते नात्र संशयः ॥८२॥प्रदक्षिणन्ति ये मर्त्या जलशायिजगद्गुरुम् ।प्रदक्षिणीकृता तैस्तु सप्तद्वीपा वसुंधरा ॥८३॥ततः प्रभाते विमले पित्ःन् संतर्पयेज्जलैः ।श्राद्धं च ब्राह्मणैस्तत्र योग्यैः पाण्डव मानवाः ॥८४॥स्वदारनिरतैः शान्तैः परदारविवर्जकैः ।वेदाभ्यसनशीलैश्च स्वकर्मनिरतैः शुभैः ॥८५॥नित्यं यजनशीलैश्च त्रिसन्ध्यापरिपालकैः ।श्रद्धया कारयेच्छ्राद्धं यदीच्छेच्छ्रेय आत्मनः ॥८६॥ते धन्या मानुषे लोके वन्द्या हि भुवि मानवाः ।ये वसन्ति सदाकालं पादपद्माश्रया हरेः ॥८७॥जलशायं प्रपश्यन्ति प्रत्यक्षं सुरनायकम् ।पक्षोपवासं पाराकं व्रतं चान्द्रायणं शुभम् ॥८८॥मासोपवासमुग्रं च षष्ठान्नं पञ्चमं व्रतम् ।तत्र तीर्थे तु यः कुर्यात्सोऽक्षयां गतिमाप्नुयात् ॥८९॥श्रीमार्कण्डेय उवाच -अतः परं प्रवक्ष्यामि तिलधेनोश्च यत्फलम् ।यथा यस्मिन्यदा देया दाने तस्याः शुभं फलम् ॥९०॥एतत्कथान्तरं पुण्यमृषेर्द्वैपायनात्पुरा ।श्रुतं हि नैमिषे पुण्ये नारदाद्यैरनेकधा ॥९१॥इदं परममायुष्यं मङ्गल्यं कीर्तिवर्धनम् ।विप्राणां श्रावयन्विद्वान्फलानन्त्यंसमश्नुते ॥९२॥बहुभ्यो न प्रदेयानि गौर्गृहं शयनं स्त्रियः ।विभक्तदक्षिणा ह्येता दातारं नाप्नुवन्ति च ॥९३॥एकमेतत्प्रदातव्यं न बहूनां युधिष्ठिर ।सा च विक्रयमापन्ना दहत्यासप्तमं कुलम् ॥९४॥यथालाभा तु सर्वेषां चतुर्द्रोणा तु गौः स्मृता ।द्रोणस्य वत्सकः कार्यो बहूनां वापि कामतः ॥९५॥यस्मिन्देशे तु यन्मानं विषये वा विचारितम् ।तेन मानेन तां कुर्वन्नक्षयं फलमश्नुते ॥९६॥सुखपूर्वं शुचौ भूमौ पुष्पधूपाक्षतैस्तथा ।कर्णाभ्यां रत्ने दातव्ये दीपौ नेत्रद्वये तथा ॥९७॥श्रीखण्डमुरसि स्थाप्यं ताभ्यां चैव तु काञ्चनम् ।ऊर्ध्वे मधु घृतं देयं कुर्यात्सर्षपरोमकम् ॥९८॥कम्बले कम्बलं दद्याच्छ्रोण्यां मधु घृतं तथा ।यवसं पायसं दद्याद्घृतं क्षौद्रसमन्वितम् ॥९९॥स्वर्णशृङ्गी रूप्यशिफारुक्मलाङ्गूलसंयुता ।रत्नपृष्ठी तु दातव्या कांस्यपात्रावदोहिनी ॥१००॥यत्स्याद्बाल्यकृतं पापं यद्वा कृतमजानता ।वाचा कृतं कर्मकृतं मनसा यद्विचिन्तितम् ॥१०१॥जले निष्ठीवितं चैव मुशलं वापि लङ्घितम् ।वृषलीगमनं चैव गुरुदारनिषेवणम् ॥१०२॥कन्याया गमनं चैव सुवर्णस्तेयमेव च ।सुरापानं तथा चान्यत्तिलधेनुः पुनाति हि ॥१०३॥अहोरात्रोपवासेन विधिवत्तां विसर्जयेत् ।या सा यमपुरे घोरे नदी वैतरणी स्मृता ॥१०४॥वालुकायोऽश्मस्थला च पच्यते यत्र दुष्कृती ।अवीचिर्नरको यत्र यत्र यामलपर्वतौ ॥१०५॥यत्र लोहमुखाः काका यत्र श्वानो भयंकराः ।असिपत्त्रवनं चैव यत्र सा कूटशाल्मली ॥१०६॥तान्सुखेन व्यतिक्रम्य धर्मराजालयं व्रजेत् ।धर्मराजस्तु तं दृष्ट्वा सूनृतं वक्ति भारत ॥१०७॥विमानमुत्तमं योग्यं मणिरत्नविभूषितम् ।अत्रारुह्य नरश्रेष्ठ प्रयाहि परमां गतिम् ॥१०८॥मा च चाटु भटे देहि मैव देहि पुरोहिते ।मा च काणे विरूपे च न्यूनाङ्गे न च देवले ॥१०९॥अवेदविदुषे नैव ब्राह्मणे सर्वविक्रये ।मित्रघ्ने च कृतघ्ने च मन्त्रहीने तथैव च ॥११०॥वेदान्तगाय दातव्या श्रोत्रियाय कुटुम्बिने ।वेदान्तगसुते देया श्रोत्रिये गृहपालके ॥१११॥सर्वाङ्गरुचिरे विप्रे सद्वृत्ते च प्रियंवदे ।पूर्णिमायां तु माघस्य कार्त्तिक्यामथ भारत ॥११२॥वैशाख्यां मार्गशीर्ष्यां वाषाढ्यां चैत्र्यामथापि वा ।अयने विषुवे चैव व्यतीपाते च सर्वदा ॥११३॥षडशीतिमुखे पुण्ये छायायां कुंजरस्य वा ।एष ते कथितः कल्पस्तिलधेनोर्मयानघ ॥११४॥व्रजन्ति वैष्णवं लोकं दत्त्वा पादं यमोपरि ।प्राणत्यागात्परं लोकं वैष्णवं नात्र संशयः ।भित्त्वाशु भास्करं यान्ति नात्र कार्या विचारणा ॥११५॥एतत्ते सर्वमाख्यातं चक्रतीर्थफलं नृप ।यच्छ्रुत्वा मानवो भक्त्या सर्वपापैः प्रमुच्यते ॥११६॥॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे जलशायितीर्थमाहात्म्यवर्णनं नाम नवतितमोऽध्यायः ॥ N/A References : N/A Last Updated : December 12, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP