संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्|
सर्गः १२२

उत्पत्तिप्रकरणं - सर्गः १२२

योगवासिष्ठः

श्रीवसिष्ठ उवाच ।
प्रथमं जातमात्रेण पुंसा किंचिद्विकसितबुद्धिनैव
सत्संगमपरेण भवितव्यम् ॥१॥
अनवरतप्रवाहपतितोऽयमविद्यानदीनिवहः
शास्त्रसज्जनसंपर्कादृते न तरितुं शक्यते ॥२॥
तेन विवेकतः पुरुषस्य हेयोपादेयविचार उपजायते ॥३॥
तदासौ शुभेच्छाभिधां विवेकभुवमापतितो
भवति ॥४॥
ततो विवेकवशतो विचारणायाम् ॥५॥
सम्यग्ज्ञानेनासम्यग्वासनां त्यजतः संस्मारभा-
वनातो मनस्तनुतामेति ॥६॥
तेन तनुमानसां नाम विवेकभूमिमवतीर्णो भ-
वति ॥७॥
यदैव योगिनः सम्यग्ज्ञानोदयस्तदैव सत्त्वा-
पत्तिः ॥८॥
तद्वशाद्वासना तनुतां गता यदा तदैवासावसं-
सक्त इत्युच्यते कर्मफलेन न बध्यत इति ॥९॥
अथ तानववशादसत्ये भावनातानवमभ्यस्यति ॥१०॥
यावन्न कुर्वन्नपि व्यवहरन्नप्यसत्येषु संसारव-
स्तुषु स्थितोऽपि स्वात्मन्येव क्षीणमनस्त्वादभ्या-
सवशाद्बाह्यं वस्तु कुर्वन्नपि न पश्यति नालम्बनेन
सेवते नाभिध्यायति तनुवासनत्वाच्च केवलं मूढः
सुप्तप्रबुद्ध इव कर्तव्यं करोति ॥११॥
तनुभावितमनस्कस्तेन योगभूमिकां भावनामधिरूढः ॥१२॥
इत्यन्तर्लीनचित्तः कतिचित्संवत्सरानभ्यस्य स-
र्वथैव कुर्वन्नपि बाह्यपदार्थान्भावनां त्यजति तुर्यात्मा
भवति ततो जीवन्मुक्त इत्युच्यते ॥१३॥
नाभिनन्दति संप्राप्तं नाप्राप्तमभिशोचति ।
केवलं विगताशङ्कं संप्राप्तमनुवर्तते ॥१४॥
त्वयापि राघव ज्ञातं ज्ञातव्यमखिलान्तरम् ।
ननु ते सर्वकार्येभ्यो वासना तनुतां गता ॥१५॥
शरीरातीतवृत्तिस्त्वं शरीरस्थोऽथवा भव ।
मागाः शोकं च हर्षं त्वं त्वमात्मा विगतामयः ॥१६॥
त्वय्यात्मनि सिते स्वच्छे सर्वगे सर्वदोदिते ।
कुतो दुःखसुखे राम कुतो मरणजन्मनी ॥१७॥
अबन्धुरपि कस्मात्त्वं बन्धुदुःखानि शोचसि ।
अद्वितीये स्थिते ह्यस्मिन्बान्धवाः क इवात्मनि ॥१८॥
दृश्यते केवले देहे परमाणुचयः परम् ।
देशकालान्यतापत्तेर्नात्मोदेति न लीयते ॥१९॥
अविनाशोऽपि कस्मात्त्वं विनश्यामीति शोचसि ।
अमृत्युवसतौ स्वच्छे विनाशः क इवात्मनि ॥२०॥
घटे कपालतां याते घटाकाशो न नश्यति ।
यथा तथा शरीरेऽस्मिन्नष्टेऽपि न विनश्यति ॥२१॥
मृगतृष्णातरङ्गिण्यां क्षीणायामातपो यथा ।
न नश्यति तथा देहे नष्टे नात्मा विनश्यति ॥२२॥
वाञ्छैवोदेति ते कस्माद्भ्रान्तिरन्तर्निरर्थिका ।
अद्वितीयो द्वितीयं किं यद्वस्त्वात्माभिवाञ्छतु॥२३॥
श्रव्यं स्पृश्यं तथा दृश्यं रस्यं घ्रेयं च राघव ।
न किंचिदस्ति जगति व्यतिरिक्तं यदात्मनः ॥२४॥
सर्वशक्ताविमास्तस्मिन्नात्मन्येवाखिलाः स्थिताः ।
शक्तयो वितते व्यक्ते आकाश इव शून्यता ॥२५॥
चित्ताद्राघव रूढेयं त्रिलोकीललनोदिता ।
त्रिविधेन क्रमेणेह जन्मना जनितभ्रमा ॥२६॥
मनःप्रशमने सिद्धे वासनाक्षयनामनि ।
कर्मक्षयाभिधानैव मायेयं प्रविनश्यति ॥२७॥
संसारोग्रारघट्टेऽस्मिन्नारूढा यन्त्रवाहिनी ।
रज्जुस्तां वासनामेतां छिन्धि राघव यत्नतः ॥२८॥
अपरिज्ञायमानैषा महामोहप्रदायिनी ।
परिज्ञाता त्वनन्ताख्या सुखदा ब्रह्मदायिनी ॥२९॥
आगता ब्रह्मणो भुक्त्वा संसारमिह लीलया ।
पुनर्ब्रह्मैव संस्मृत्य ब्रह्मण्येव विलीयते ॥३०॥
शिवाद्राघव नीरूपादप्रमेयान्निरामयात् ।
सर्वभूतानि जातानि प्रकाशा इव तेजसः ॥३१॥
रेखावृन्दं यथा पर्णे वीचिजालं यथा जले ।
कटकादि यथा हेम्नि तथोष्णादि यथाऽनले ॥३२॥
तदेतद्भावनारूपे तथेदं भुवनत्रयम् ।
तस्मिन्नेव स्थितं जातं तस्मादेव तदेव च ॥३३॥
स एव सर्वभूतानामात्मा ब्रह्मेति कथ्यते ।
तस्मिञ्जाते जगज्ज्ञातं स ज्ञाता भुवनत्रये ॥३४॥
शास्त्रसंव्यवहारार्थं तस्यास्य वितताकृतेः ।
चिद्ब्रह्मात्मेति नामानि कल्पितानि कृतात्मभिः ॥३५॥
विषयेन्द्रियसंयोगे हर्षामर्षविवर्जिता ।
सैषा शुद्धानुभूतिर्हि सोऽयमात्मा चिदव्ययः ॥३६॥
आकाशातितराच्छाच्छ इदं तस्मिंश्चिदात्मनि ।
स्वाभोग एव हि जगत्पृथग्वत्प्रतिबिम्बति ॥३७॥
बुद्धिस्तद्व्यतिरेकेण लोभमोहादयो हि तान् ।
पात्यसद्व्यतिरेकेण ते च तस्मिंस्तदेव ते। ॥३८॥
अदेहस्यैव ते राम निर्विकल्पचिदाकृतेः ।
लज्जाभयविषादेभ्यः कुतो मोहः समुत्थितः ॥३९॥
अदेहो देहजैरेभिर्लज्जादिभिरसन्मयैः ।
किं मूर्ख इव दुर्बुद्धिर्विकल्पैरभिभूयसे ॥४०॥
अखण्डचितिरूपस्य देहे खण्डनमागते ।
असम्यग्दर्शिनोऽप्यस्ति न नाशः किमु सन्मतेः ॥४१॥
आपतेदर्कमार्गेऽपि न निरुद्धगमागमम् ।
चित्तं नाम स विज्ञेयः पुरुषो न शरीरकम् ॥४२॥
शरीरे सत्यसति वा पुमानेव जगत्त्रये ।
ज्ञोऽप्यज्ञोऽपि स्थितो राम नष्टेदेहे न नश्यति ॥४३॥
यानीमानि विचित्राणि दुःखानि परिपश्यसि ।
तानि देहस्य सर्वाणि नाग्राह्यस्य चिदात्मनः ॥४४॥
मनोमार्गादतीतत्वाद्यासौ शून्यमिव स्थिता ।
चित्कथं नाम दुःखैर्वा सुरवेर्वा परिगृह्यते ॥४५॥
स्वास्पदात्मानमेवासौ विनष्टाद्देहपञ्जरात् ।
अभ्यस्तां वासनां यातः षट्पदः खमिवाम्बुजात् ॥४६॥
असच्चेदात्मतत्त्वं तदस्मिंस्ते देहपञ्जरे ।
नष्टे किं नाम नष्टं स्याद्राम केनानुशोचसि ॥४७॥
सत्यं भावय तेन त्वं मा मोहमनुभावय ।
निरिच्छस्यात्मनो नेच्छा काचिदप्यनघाकृतेः ॥४८॥
साक्षिभूते समे स्वच्छे निर्विकल्पे चिदात्मनि ।
निरिच्छं प्रतिबिम्बन्ति जगन्ति मुकुरे यथा ॥४९॥
साक्षिभूते समे स्वच्छे निर्विकल्पे चिदात्मनि ।
स्वयं जगन्ति दृश्यन्ते सन्मणाविव रश्मयः ॥५०॥
अनिच्छमपि संबन्धो यथा दर्पणबिम्बयोः ।
तथैवेहात्मजगतोर्भेदाभेदौ व्यवस्थितौ ॥५१॥
सूर्यसंनिधिमात्रेण यथोदेति जगत्क्रिया ।
चित्सत्तामात्रकेणेदं जगन्निष्पद्यते तथा ॥५२॥
पिण्डग्रहो निवृत्तोऽस्या एवं राम जगत्स्थितेः ।
आकाशमेषा संपन्ना भवतामपि चेतसि ॥५३॥
सत्तामात्रेण दीपस्य यथालोकः स्वभावतः ।
चित्तत्त्वस्य स्वभावात्तु तथेयं जागती स्थितिः ॥५४॥
पूर्वं मनः समुदितं परमात्मतत्त्वात्तेनाततं जगदिदं स्वविकल्पजालैः ।
शून्येन शून्यमपि तेन यथाम्बरेण नीलत्वमुल्लसितचारुतरामिधानम् ॥५५॥
संकल्पसंक्षयवशाद्गलिते तु चित्ते संसारमोहमिहिका गलिता भवन्ति ।
स्वच्छं विभाति शरदीव खमागतायां चिन्मात्रमेकमजमाद्यमनन्तमन्तः ॥५६॥
कर्मात्मकं प्रथममेव मनोऽभ्युदेति संकल्पतः कमलजप्रकृतीस्तदेत्य ।
नानाभिधं जगदिदं हिं मुधा तनोति वेतालदेहकलनामिव मुग्धबालः ॥५७॥
असन्मयं सदिव पुरो विलक्ष्यते पुनर्भवत्यथ परिलीयते पुनः ।
स्वयं मनश्चिति चितसंस्फुरद्वपुर्महार्णवे जलवलयावली यथा ॥५८॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मोक्षोपायेषूत्पत्तिप्रकरणे स्वरूपनिरूपणं नाम द्वाविंशत्युत्तरशततमः सर्गः ॥१२२॥

N/A

References : N/A
Last Updated : September 14, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP