संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः ७१ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणं - सर्गः ७१ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः ७१ Translation - भाषांतर श्रीवसिष्ठ उवाच ।अथ सा बहुकालेन कर्कटी नाम राक्षसी ।सर्वेषां नरमांसानां नतु तृप्तिमुपाययौ ॥१॥पूर्वेणैव किलाह्ना सा तृप्ता रुधिरबिन्दुना ।सूच्याः किमिव मात्यन्तस्तृष्णासूची सुदुर्भरा ॥२॥चिन्तयामास हा कष्टं किमहं सूचिता गता ।सूक्ष्मास्मि हतशक्तिश्च अपि ग्रासो न माति च ॥३॥क्व मे तानि विशालानि गतान्यङ्गानि दुर्धियः ।कालमेघविशालानि वने शीर्णानि पर्णवत् ॥४॥मय्यस्यां मन्दभाग्यायां मनागपि न माति हि ।स्वादुमांसरसग्रासो वसावासित आसयन् ॥५॥पङ्कान्तर्विनिमज्जामि पतामि धरणीतले ।हस्तास्मि जनपादौघैः शुक्रेण मलिनास्मि च ॥६॥हा हताहमनाथाहमनाश्वासा निरास्पदा ।दुःखाद्दुःखे निमज्जामि संकटात्संकटेऽपि च ॥७॥न सखी न च मे दासी न मे माता न मे पिता ।न मे बन्धुर्न मे भृत्या न मे भ्राता न मे सुतः ॥८॥न मे देहो न मे स्थानं न मे कश्चित्समाश्रयः ।नैकस्थाने समावासो भ्राम्यामि वनपर्णवत् ॥९॥आपदां धुरि तिष्ठामि निविष्टास्मि सुदारुणे ।अभावमपि वाञ्छामि सोऽपि संपद्यते न मे ॥१०स्वको देहः परित्यक्तो मूढचेतनया मया ।काचबुद्ध्या विमूढेन हस्ताच्चिन्तामणिर्यथा ॥११॥आपतद्धि मनो मोहं पूर्वमापत्प्रयच्छति ।पश्चादनर्थविस्ताररूपेण परिजृम्भते ॥१२॥धूमेषु परितिष्ठामि मार्गे विलुलितास्मि च ।तृणेषु प्रेषितास्म्यन्तर्हा मे दुःखपरम्परा ॥१३॥परप्रैषकरी नित्यं परसंचारचारिणी ।परं कार्पण्यमायाता जाता परवशास्म्यलम् ॥१४॥भ्रान्तिं करोमि तुच्छे च सापि वेधनरूपिणी ।अहो ममाल्पभाग्याया दौर्भाग्यमपि दुर्भगम् ॥१५॥उत्थितः स्फारवेतालः कुर्वत्याः शान्तिमद्य मे ।सर्वनाशोऽवदातेन प्रवृत्ताया ममोदिता ॥१६॥किं मन्दया मया तादृक्संत्यक्तं तन्महावपुः ।यथा नाशेन वा भाव्यं तथोदेत्यशुभा मतिः ॥१७॥मामवान्तरनिर्मग्नां सूक्ष्मां कीटतनोरपि ।उद्धरिष्यति को नाम पांसुराशिभिरावृताम् ॥१८॥विविक्तमनसां बुद्धौ क्व स्फुरन्ति हताशयाः ।ग्राममार्गतृणानीव गिरेरुपरिवासिनाम् ॥१९॥स्थिताया अज्ञताम्भोधौ क्व ममाभ्युदयो भवेत् ।अन्धस्योदेति प्राकाश्यं नखद्योतानुसेविनः ॥२०॥अतः कियन्तं नो जाने कालमावलितापदम् ।मयापच्छ्वभ्रगर्तेषु लुठितव्यं हतेहया ॥२१॥कदा स्यामञ्जनमहाशैलपुत्रकरूपिणी ।द्यावापृथिव्योर्वैधुर्ये स्तम्भतामनुतिष्ठत ॥२२॥मेघमालासमभुजा चिरं विद्युत्पदेक्षणा ।नीहारजालवसना प्रोच्चकेशमिताम्बरा ॥२३॥लम्बोदराभ्रसंदर्शप्रनर्तितशिखण्डिनी ।लम्बलोलस्तनी श्यामा देहवातद्रवत्स्तनी ॥२४॥हासभस्मच्छटाच्छन्नसूर्यमण्डलरोधिनी ।कृतान्तग्रसनोद्युक्तकृत्यैकाकृतिधारिणी ॥२५॥कृशानूलूखलदृशा सूर्यस्रग्दामहारिणी ।पर्वतात्पर्वते शृङ्गे न्यस्य पादौ विहारिणी ॥२६॥कदा मे स्याद्गुरुश्वभ्रभासुरं तन्महोदरम् ।कदा मे स्याच्छरन्मेघमेदुरा नखरावली ॥२७॥कदा मे स्यान्महारक्षोविद्रावणकरं स्मितम् ।स्वस्फिग्वाद्यैररण्यान्यां कदा नृत्येयमुन्मदा ॥२८॥वसासवमहाकुम्भैर्मृतमांसास्थिसंचयैः ।कदा करिष्येऽविरतं मेदुरोदरपूरणम् ॥२९॥कदा पीतमहालोकरुधिरा क्षीबतां गता ।भवेयं मुदिता दृप्ता मुद्रिता निद्रया ततः ॥३०॥मयैव कुतपोवह्नौ तदन्यं भासुरं वपुः ।भस्मत्वं कनकेनेव सूचित्वमुररीकृतम् ॥३१॥क्व किलाञ्जनशैलाभं वपुर्भरितदिक्तटम् ।क्व प्राचिकाखुरसमं सूचित्वं तृणपेलवम् ॥३२॥त्यजत्याशु मृदित्यज्ञः प्राप्यापि कनकाङ्गदम् ।मया सूचित्वलोभेन संत्यक्तं भासुरं वपुः ॥३३॥हा महोदर विन्ध्याद्रिसनीहारगुहोपम ।अद्य नान्तं करोषि त्वं कथं सिंहेन हस्तिनाम् ॥३४॥हा भुजौ भरनिर्भग्नशिखरौ शशभृन्नखैः ।पुरोडाशधिया चन्द्रं कथमद्य न बाधतः ॥३५॥हा वक्षः काचवैधुर्यगिरीन्द्रतटसुन्दर ।नाद्य सिंहादि यौकं तद्धृतं रोमवनं तथा ॥३६॥हा नेत्रे कृष्णरजनीरजःशुष्केन्धनैजने ।कस्मान्न मे भूषयतो दृग्ज्वालामालया दिश ॥३७॥हा स्कन्ध बन्धो नष्टोऽसि निषिद्धोऽसि महीतले ।कालेन विनिपिष्टोऽसि निघृष्टोऽसि शिलातले ॥३८॥हा मुखेन्दो तपसि किं नाद्य त्वं मम रश्मिभिः ।कल्पान्तदावसंशान्तचन्द्रबिम्बमनोहर ॥३९॥हा हा हस्तौ महाकारौ तावद्य क्व गतौ मम ।संपन्नास्मि महासूचिर्मक्षिकाखुरदोलिता ॥४०॥हा भगोग्रकरञ्जाढ्यसत्कन्दश्वभ्रशोभन ।विन्ध्याद्वरेण्यविपुलनितम्बामलबिम्बक ॥४१॥क्वाकारोऽम्बरपूरकः क्व च नवं तुच्छात्मसूचीवपू ।रोदोरन्ध्रसमं क्व वास्य कुहरं क्वेदं च सूचीमुखम् ।क्व ग्रासो बहुमांसभारबहुलः क्वाब्बिन्दुना भोजनंसूक्ष्मास्म्येतदहो मयैव रचितं स्वात्मक्षये नाटकम्इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपाये उत्पत्तिप्रकरणे क० सूचिकापरिदेवनं नामैकसप्ततितमः सर्गः ॥७१॥ N/A References : N/A Last Updated : September 13, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP