उत्पत्तिप्रकरणं - सर्गः ४७
योगवासिष्ठः
श्रीवसिष्ठ उवाच ।
एतस्मिन्वर्तमाने तु घोरे समरसंगमे ।
लीलाद्वयमुवाचेदं ज्ञप्तिं भगवतीं पुनः ॥१॥
लीलाद्वयमुवाच ।
देवि कस्मादकस्मान्नौ भर्ता जयति नौ रणे ।
वद त्वय्यपि तुष्टायामस्मिन्विद्रुतवारणे ॥२॥
श्रीसरस्वत्युवाच ।
चिरमाराधितानेन विदूरथनृपारिणा ।
अहं पुत्रि जयार्थेन न विदूरथभूभृता ॥३॥
तेनासावेव जयति जीयते च विदूरथः ।
ज्ञप्तिरन्तर्गता संविदेतां मां यो यदा यथा ॥४॥
प्रेरयत्याशु तत्तस्य तदा संपादयाम्यहम् ।
यो यथा प्रेरयति मां तस्य तिष्ठामि तत्फला ॥५॥
न स्वभावोऽन्यतां धत्ते वह्नेरौष्ण्यमिवैष मे ।
अनेन मुक्त एव स्यामहमित्यस्मि भाविता ॥६॥
प्रतिभारूपिणी तेन बाले मुक्तो भविष्यति ।
एतदीयः स्वयं शत्रुः सिन्धुर्नाम महीपतिः ॥७॥
जयाम्यहं स्यां संग्राम इत्यनेनास्मि पूजिता ।
तस्माद्विदूरथो देहं तत्प्राप्य सह भार्यया ॥८॥
त्वयानया च कालेन बाले मुक्तो भविष्यति ।
एतदीयः स्वयं शत्रुः सिन्धुर्नाम महीपतिः ॥९॥
हत्वैनं वसुधापीठे जयी राज्यं करिष्यति ।
श्रीवसिष्ठ उवाच ।
एवं देव्यां वदन्त्या तु बलयोर्युध्यमानयोः ॥१०॥
रविर्द्रष्टुमिवाश्चर्यमाजगामोदयाचलम् ।
चेलुस्तिमिरसंघाता बलानीवारिरूपिणः ॥११॥
असृजन्जीवसङ्घान्ये संध्यायां तारका इव ।
शनैः प्रकटतां जग्मुर्नीलाकाशाद्रिभूमयः ॥१२॥
भुवनं कज्जलाम्भोधेरिवोत्क्षिप्तमराजत ।
पेतुः कनकनिःस्यन्दसुन्दरा रविरश्मयः ॥१३॥
शैलेषु वरवीरेषु रणे रक्तच्छटा इव ।
अदृश्यत ततो व्योम तथा रणमहीतलम् ॥१४॥
बाहुभिर्भ्रान्तभुजगं प्रभाभिः कीर्णकाञ्चनम् ।
कुण्डलैः कीर्णरत्नौघं शिरोभिर्दृष्टपङ्कजम् ॥१५॥
आयुधैः खड्गनीरन्ध्रं शरैः शलभनिर्भरम् ।
रक्ताभास्थिरसंध्याढ्यं ससिद्धपुरुषं शवैः ॥१६॥
हारैः ससर्पनिर्मोकं कटैरिद्धं सुसंकुलम् ।
लसल्लतं पताकाभिरुरुभिः कृततोरणम् ॥१७॥
हस्तैः पादैः पल्लवितं शरैः शरवणोपमम् ।
शस्त्रांशुशाद्वलश्यामं शस्त्रपूरैः सकैतकम् ॥१८॥
कीर्णमायुधमालाभिरुन्मत्तमिव भैरवम् ।
फुल्लाशोकवनाकारं शस्त्रसंघट्टवह्निभिः ॥१९॥
उदघुंघुमहाशब्दैर्विद्रवत्सिद्धनायकैः ।
सौवर्णनगराकारं बालार्ककचितायुधैः ॥२०॥
प्रासासिशक्तिचक्रर्ष्टिमुद्गरारणिताम्बरम् ।
वहद्रक्तनदीरंहः प्रोह्यमानशवोत्करम् ॥२१॥
भुशुण्डीशक्तिकुन्तासिशूलपाषाणसंकुलम् ।
शूलशस्त्राहतिच्छन्नकबन्धपतनान्वितम् ॥२२॥
कालताण्डववेतालकुलारब्धहलारवम् ।
शून्ये रणाङ्गणे दीप्तौ पद्मसिन्ध्वो रथौ चलौ ॥२३॥
अदृश्येतां नभश्चिह्नौ चन्द्रसूर्यौ दिवीव तौ ।
चक्रशूलभुशुण्ड्यृष्टिप्रासायुधसमाकुला ॥२४॥
सहस्रेण सहस्रेण वीराणां परिवारितौ ।
विचरन्तौ यथाकामं मण्डलैर्विततारवैः ॥२५॥
सचीत्कारमहाचक्रपिष्टानेकमृतामृतौ ।
तरन्तौ रक्तसरितौ मत्तवारणलीलया ॥२६॥
केशशैवलसंपन्ने चक्रचक्रजलेन्दुके ।
वहच्चक्राहतिक्षोभपातिताकुलवारणौ ॥२७॥
मणिमुक्ताझणत्काररणत्कूबरकारवौ ।
वाताहतपताकाग्रपटत्पटपटारवौ ॥२८॥
अनुयातौ महावीरैर्भूरिमिर्भीरुसैनिकैः ।
धारा वमद्भिः कुन्तानां शराणां धनुषामपि ॥२९॥
शक्तीनां प्रासशङ्कूनां चक्राणां कचतां रणे ।
तत्र तौ क्षणमावृत्ये मण्डले भूमिकुण्डले ॥३०॥
उभौ व्यतिबभूवाते संमुखावायुधावुभौ ।
नाराचधारानिकरविक्षेपकरकध्वनौ ॥३१॥
अन्योन्यमपि गर्जन्तौ मत्ताब्धिजलदाविव ।
तयोः प्रहरतोर्बाणा वसुधानरसिंहयोः ॥३२॥
पाषाणमुसलाकारा व्योमविस्तारिणोऽभवन् ।
करवालमुखाः केचिन्मुद्गराननकाः परे ॥३३॥
शितचक्रमुखाः केचित्केचित्परशुवक्त्रकाः ।
केचिच्छक्तिमुखाः केचित्केचिच्छूलशिलामुखाः ।
त्रिशूलवदनाः केचित्स्थूला इव महाशिलाः ॥३४॥
प्रलयपवनपातिताः शिलौघा
इव निपतन्ति शिलीमुखास्तदा स्म ।
प्रमिलितमभवत्तयोस्तदानीं
प्रलयविजृम्भितसिन्धुसंभ्रमेण ॥३५॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे ली० विदूरथसिन्धुसमागमो नाम सप्तचत्वारिंशः सर्गः ॥४७॥
N/A
References : N/A
Last Updated : September 11, 2021
TOP