संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्|
सर्गः ३०

उत्पत्तिप्रकरणम् - सर्गः ३०

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ


श्रीवसिष्ठ उवाच ।
पृथिव्यप्तेजसां तत्र नभस्वन्नभसोरपि ।
यथोत्तरं दशगुणानतीत्यावरणान्क्षणात् ॥१॥
ददर्श परमाकाश तत्प्रमाणविवर्जितम् ।
तथा ततं जगदिदं यथा तत्राण्डमात्रकम् ॥२॥
तादृशावरणान्सर्गान्ब्रह्माण्डेषु ददर्श सा ।
कोटिशः स्फुरितान्व्योम्नि त्रसरेणूनिवातपे ॥३॥
महाकाशमहाम्भोधौ महाशून्यत्ववारिणि ।
महाचिद्द्रवभावोत्थान्बुद्बुदानर्बुदप्रभान् ॥४॥
कांश्चिदापततोऽधस्तात्कांश्चिच्चोपरि गच्छतः ।
कांश्चित्तिर्यग्गतीनन्यान्स्थितांस्तब्धान्स्वसंविदा ॥५॥
यत्र यत्रोदिता संविद्येषां येषां यथा यथा ।
तत्र तत्रोदितं रूपं तेषां तेषां तथा तथा ॥६॥
नेहैव तत्र नामोर्ध्वं नाधो न च गमागमाः ।
अन्यदेव पदं किंचित्तस्माद्देहागमं हि तत् ॥७॥
उत्पद्योत्पद्यते तत्र स्वयं संवित्स्वभावतः ।
स्वसंकल्पैः शमं याति बालसंकल्पजालवत् ॥८॥
श्रीराम उवाच ।
किमधः स्यात्किमूर्ध्वं स्यात्किं तिर्यक्तत्र भासुरे ।
इति ब्रूहि मम ब्रह्मन्निहैव यदि न स्थितम् ॥९॥
श्रीवसिष्ठ उवाच ।
ससर्वावरणा एते महत्यन्तविवर्जिते ।
ब्रह्माण्डा भान्ति दुर्दृष्टेर्व्योम्नि केशोण्ड्रको यथा ॥१०॥
अस्वातन्त्र्यात्प्रधावन्ति पदार्थाः सर्व एव यत् ।
ब्रह्माण्डे पार्थिवो भागस्तदधस्तूर्ध्वमन्यथा ॥११॥
पिपीलिकानां महतां व्योम्नि वर्तुललोष्टके ।
दशदिक्कमधः पादाः पृष्ठमूर्ध्वमुदाहृतम् ॥१२॥
वृक्षवल्मीकजालेन केषांचिद्धृदि भूतलम् ।
ससुरानरदैत्येन वेष्टितं व्योम निर्मलम् ॥१३॥
संभूतं सह भूतेन सग्रामपुरपर्वतम् ।
इदं कल्पनभूतेन पक्वाक्षोटमिव त्वचा ॥१४॥
यथा विन्ध्यवनाभोगे प्रस्फुरन्ति करेणवः ।
तथा तस्मिन्पराभोगे ब्रह्माण्डत्रसरेणवः ॥१५॥
तस्मिन्सर्वं ततः सर्वं तत्सर्वं सर्वतश्च यत् ।
तच्च सर्वमयो नित्यं तथा तदणुकं प्रति ॥१६॥
शुद्धबोधमये तस्मिन्परमालोकवारिधौ ।
अजस्रमेत्य गच्छन्ति ब्रह्मण्डाख्यास्तरङ्गकाः ॥१७॥
अन्तःशून्याः स्थिताः केचित्संकल्पक्षयरात्रयः ।
तरङ्गा इव तोयेऽब्धौ प्रोह्यन्ते शून्यतार्णवे ॥१८॥
केषांचिदन्तःकल्पान्तः प्रवृत्तो घर्घरारवः ।
न श्रुतोऽन्यैर्न च ज्ञातः स्वभावेन रसाकुलैः ॥१९॥
अन्येषां प्रथमारम्भे शुद्धभूषु विजृम्भते ।
सर्गः संसिक्तबीजानां कोशेऽङ्कुरकला यथा ॥२०॥
महाप्रलयसंपत्तौ सूर्यार्चिर्विद्युतोऽद्रयः ।
प्रवृत्ता गलितुं केचित्तापे हिमकणा इव ॥२१॥
आकल्पं निपतन्त्येव केचिदप्राप्तभूमयः ।
यावद्विशीर्य जायन्ते तथा संविन्मयाः किल ॥२२॥
स्तब्धा इव स्थिताः केचित्केशोण्ड्रकमिवाम्बरे ।
वायोः स्पन्दा इवाभान्ति तथा प्रोदितसंविदः ॥२३॥
आचाराद्वेदशास्त्राणामाद्य एवान्यथोदिते ।
आरम्भोऽपि तथान्येषामनित्यः संस्थितः क्रमः ॥२४॥
केचिद्ब्रह्मादिपुरुषाः केचिद्विष्ण्वादिसर्गपाः ।
केचिच्चान्यप्रजानाथाः केचिन्निर्नाथजन्तवः ॥२५॥
केचिद्विचित्रसर्गेशाः केचित्तिर्यङ्मयान्तराः ।
केचिदेकार्णवापूर्णा इतरे जनिवर्जिताः ॥२६॥
केचिच्छिलाङ्गनिष्पिण्डाः केचित्कृमिमयान्तराः ।
केचिद्देवमया एव केचिन्नरमयान्तराः ॥२७॥
केचिन्नित्यान्धकाराढ्यास्तथा शीलितजन्तवः ।
केचिन्नित्यप्रकाशाढ्यास्तथा शीलितजन्तवः ॥२८॥
केचिन्मशकसंपूर्णा उदुम्बरफलश्रियः ।
नित्यं शून्यान्तराः केचिच्छून्यस्पन्दात्मजन्तवः ॥२९॥
सर्गेण तादृशेनान्ये पूर्णा येऽन्तर्धियामिह ।
कल्पनामपि नायान्ति व्योमपूर्णाचलो यथा ॥३०॥
तादृगम्बरमेतेषां महाकाशं ततं स्थितम् ।
आजीवितं प्रगच्छद्भिर्विष्ण्वाद्यैर्यन्न मीयते ॥३१॥
प्रत्येकस्याण्डगोलस्य स्थितः कटकरत्नवत् ।
भूताकृष्टिकरो भावः पार्थिवः स्वस्वभावतः ॥३२॥
यः सर्वविभवोऽस्माकं धियां न विषयं ततः ।
तज्जगत्कथने शक्तिर्न ममास्ति महामते ॥३३॥
भीमान्धकारगहने सुमहत्यरण्ये
नृत्यन्त्यदर्शितपरस्परमेव मत्ताः ।
यक्षा यथा प्रवितते परमाम्बरेऽन्त-
रेवं स्फुरन्ति सुबहूनि महाजगन्ति ॥३४॥

इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपाये उत्पत्तिप्रकरणे लीलो० विचित्रब्रह्माण्डकोटिवर्णनं नाम त्रिंशः सर्गः ॥३०॥

N/A

References : N/A
Last Updated : September 10, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP