संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः २२ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणम् - सर्गः २२ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः २२ Translation - भाषांतर श्रीदेव्युवाच ।यथा स्वप्नपरिज्ञानात्स्वप्नदेहो न वास्तवः ।अनुभूतोऽप्ययं तद्वद्वासनातानवादसन् ॥१॥यथा स्वप्नपरिज्ञानात्स्वप्नदेहः प्रशाम्यति ।वासनातानवात्तद्वज्जाग्रद्देहोऽपि शाम्यति ॥२॥स्वप्नसंकल्पदेहान्ते देहोऽयं चेत्यते यथा ।तथा जाग्रद्भावनान्ते उदेत्येवातिवाहिकः ॥३॥स्वप्ने निर्वासनाबीजे यथोदेति सुषुप्तता ।जाग्रत्यवासनाबीजे तथोदेति विमुक्तता ॥४॥येयं तु जीवन्मुक्तानां वासना सा न वासना ।शुद्धसत्त्वाभिधानं तत्सत्तासामान्यमुच्यते ॥५॥या सुप्तवासना निद्रा सा सुषुप्तिरिति स्मृता ।यत्सुप्तवासनं जाग्रद्धनोऽसौ मोह उच्यते ॥६॥प्रक्षीणवासना निद्रा तुर्यशब्देन कथ्यते ।जाग्रत्यपि भवत्येव विदिते परमे पदे ॥७॥प्रक्षीणवासना येह जीवतां जीवनस्थितिः ।अमुक्तैरपरिज्ञाता सा जीवन्मुक्ततोच्यते ॥८॥शुद्धसत्त्वानुपतितं चेतः प्रतनुवासनम् ।आतिवाहिकतामेति हिमं तापादिवाम्बुताम् ॥९॥आतिवाहिकतां यातं बुद्धं चित्तान्तरैर्मनः ।सर्गजन्मान्तरगतैः सिद्धैर्मिलति नेतरत् ॥१०॥यदा तेऽयमहंभावः स्वभ्यासाच्छान्तिमेष्यति ।तदोदेष्यति ते स्फारादृश्यान्ता बोधता स्वयम् ॥११॥आतिवाहिकताज्ञानं स्थितिमेष्यति शाश्वतीम् ।यदा तदा ह्यसंकल्पाँल्लोकान्द्रक्ष्यसि पावनान् ॥१२॥वासनातानवे तस्मात्कुरु यत्नमनिन्दिते ।तस्मिन्प्रौढिमुपायाते जीवन्मुक्ता भविष्यसि ॥१३॥यावन्न पूरितस्त्वेष शीतलो बोधचन्द्रमाः ।तावद्देहमवस्थाप्य लोकान्तरमवेक्ष्यताम् ॥१४॥मांसदेहो मांसदेहेनैव संश्लेषमेष्यति ।नतु चित्तशरीरेण व्यवहारेषु कर्मसु ॥१५॥यथानुभव मे वैतद्यथास्थितमुदाहृतम् ।आबालसिद्धसंसिद्धं न नाम वरशापवत् ॥१६॥अवबोधघनाभ्यासाद्देहस्यास्यैव जायते ।संसारवासनाकार्श्ये नूनं चित्तशरीरता ॥१७॥उदेष्यन्ती च सैवात्र केनचिन्नोपलक्ष्यते ।केवलं तु जनैर्देहो म्रियमाणोऽवलोक्यते ॥१८॥देहस्त्वयं न म्रियते न च जीवति किंच ते ।के किल स्वप्नसंकल्पभ्रान्तौ मरणजीविते ॥१९॥जीवितं मरणं चैव संकल्पपुरुषे यथा ।असत्यमेव भात्येव तस्मिन्पुत्रि शरीरके ॥२०॥लीलोवाच ।तदेतदुपदिष्टं मे ज्ञानं देवि त्वयाऽमलम् ।यस्मिञ्श्रुतिगते शान्तिमेति दृश्यविषूचिका ॥२१॥अत्रोपकुरु मे ब्रूहि कोऽभ्यासः कीदृशोऽथवा ।स कथं पोषमायाति पुष्टे तस्मिंश्च किं भवेत् ॥२२॥श्रीदेव्युवाच ।यद्येन क्रियते किंचिद्येन येन यदा यदा ।विनाभ्यासेन तन्नेह सिद्धिमेति कदाचन ॥२३॥तच्चिन्तनं तत्कथनमन्योन्यं तत्प्रबोधनम् ।एतदेकपरत्वं च तदभ्यासं विदुर्बुधाः ॥२४॥ये विरक्ता महात्मानो भोगभावनतानवम् ।भावयन्त्यभवायान्तर्भव्या भुवि जयन्ति ते ॥२५॥उदितौदार्यसौन्दर्यवैराग्यरसरञ्जिता ।आनन्दस्पन्दिनी येषां मतिस्तेऽभ्यासिनः परे ॥२६॥अत्यन्ताभावसंपत्तौ ज्ञातृज्ञेयस्य वस्तुनः ।युक्त्या शास्त्रैर्यतन्ते ये ते ब्रह्माभ्यासिनः स्थिताः ॥२७॥सर्गादावेव नोत्पन्नं दृश्यं नास्त्येव तत्सदा ।इदं जगदहं चेति बोधाभ्यास उदाहृतः ॥२८॥दृश्यासंभवबोधेन रागद्वेषादितानवे ।रतिर्बलोदिता यासौ ब्रह्माभ्यास उदाहृतः ॥२९॥दृश्यासंभवबोधेन विना द्वेषादितानवम् ।तप इत्युच्यते तस्मान्न ज्ञानं तच्च दुःखतत् ॥३०॥दृश्यासंभवबोधो हि ज्ञानं ज्ञेयं च कथ्यते ।तदभ्यासेन निर्वाणमित्यभ्यासो महोदयः ॥३१॥भवबहुलनिशानितान्तनिद्रा-सततविवेकविबोधवारिसेकैः ।प्रगलति हिमशीतलैरशेषाशरदि महामिहिकेव चेतसीति ॥३२॥इत्युक्तवत्यथ मुनौ दिवसो जगामसायंतनाय विधयेऽस्तमिनो जगाम ।स्नातुं सभा कृतनमस्करणा जगामश्यामाक्षये रविकरैश्च सहाजगाम ॥३३॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे विज्ञानाभ्यासवर्णनं नाम द्वाविंशः सर्गः ॥२२॥चतुर्थो दिवसः । N/A References : N/A Last Updated : September 10, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP