संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः ५६ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणं - सर्गः ५६ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः ५६ Translation - भाषांतर श्रीवसिष्ठ उवाच ।एतस्मिन्नन्तरे राजा परिवृत्ताक्षितारकः ।बभूवैकतनुप्राणशेषः शुष्कसिताधरः ॥१॥जीर्णपर्णसवर्णाभः क्षीणपाण्डुमुखच्छविः ।भृङ्गध्वनितसच्छायश्वासकूजाविकूणितः ॥२॥महामरणमूर्च्छान्धकूपे निपतिताशयः ।अन्तर्निलीननिःशेषनेत्रादीन्द्रियवृत्तिमान् ॥३॥चित्रन्यस्त इवाकारमात्रदृश्यो विचेतनः ।निःस्पन्दसर्वावयवः समुत्कीर्ण इवोपले ॥४॥बहुनात्र किमुक्तेन तनुदेशेन तं जहौ ।प्राणः पिपतिषुं वृक्षं स्वं पक्षीवान्तरिक्षगः ॥५॥ते तं ददृशतुर्बाले दिव्यदृष्टी नभोगतम् ।जीवं प्राणमयी संविद्गन्धलेशमिवानिले ॥६॥सा जीवसंविद्गगने वातेन मिलिता सती ।खे दूरं गन्तुमारेभे वासनानुविधायिनी ॥७॥तामेवानुससाराथ स्त्रीद्वयं जीवसंविदम् ।भ्रमरीयुगलं वातलग्नां गन्धकलामिव ॥८॥ततो मुहूर्तमात्रेण शान्ते मरणमूर्च्छने ।अम्बरे बुबुधे संविद्गन्धलेखेन वायुना ॥९॥अपश्यत्पुरुषान्याम्यान्नीयमानं च तैर्वपुः ।बन्धुपिण्डप्रदानेन शरीरं जातमात्मनः ॥१०॥मार्गे कर्मफलोल्लासमतिदूरतरे स्थितम् ।वैवस्वतपुरं प्राप जन्तुभिः परिवेष्टितम् ॥११॥प्राप्तं वैवस्वतपुरमादिदेश ततो यमः ।अस्य कर्माण्यशुभ्राणि नैव सन्ति कदाचन ॥१२॥नित्यमेवावदातानां कर्तायं शुभकर्मणाम् ।भगवत्याः सरस्वत्या वरेणायं विवर्धितः ॥१३॥प्राक्तनोऽस्य शवीभूतो देहोऽस्ति कुसुमाम्बरे ।प्रविशत्वेष तं गत्वा त्यज्यतामिति चेतसा ॥१४॥ततस्त्यक्तो नभोमार्गे यन्त्रोपल इव च्युतः ।अथ जीवकला लीला ज्ञप्तिश्चेति त्रयं नभः ॥१५॥पुप्लुवे जीवलेखा तु रूपिण्यौ ते न पश्यति ।तामेवानुसरन्त्यौ ते समुल्लङ्घ्य नभस्तलम् ॥१६॥लोकान्तराण्यतीत्याशु विनिर्गत्य जगद्गृहात् ।द्वितीयं जगदासाद्य भूमण्डलमुपेत्य च ॥१७॥ते द्वे संकल्परूपिण्यौ संगते जीवलेखया ।पद्मराजपुरं प्राप्य लीलान्तःपुरमण्डपम् ॥१८॥क्षणाद्विविशतुः स्वैरं वातलेखा यथाम्बुजम् ।सूर्यभासो यथाम्भोजं सुरभिः पवनं यथा ॥१९॥श्रीराम उवाच ।ब्रह्मन्प्राप्तः कथमसौ शवस्य निकटं गृहम् ।कथं तेन परिज्ञातो मार्गो मृतशरीरिणा ॥२०॥श्रीवसिष्ठ उवाच ।तस्य स्ववासनान्तःस्थशवस्य किल राघव ।तत्सर्वं हृद्गतं कस्मान्नासौ प्राप्नोति तद्गृहम् ॥२१॥भ्रान्तिमात्रमसंख्येयं जगज्जीवकणोदरे ।वटधानातरुमिव स्थितं को वा न पश्यति ॥२२॥यथा जीवद्वपुर्बीजमङ्कुरं हृदि पश्यति ।स्वभावभूतं चिदणुस्त्रैलोक्यनिचयं तथा ॥२३॥नरो यथैकदेशस्थो दूरदेशान्तरस्थितम् ।संपश्यति निधानं स्वं मनसानारतं सदा ॥२४॥तथा स्ववासनान्तस्थमभीष्टं परिपश्यति ।जीवो जातिशताढ्योऽपि भ्रमे परिगतोऽपि सन् ॥२५॥श्रीराम उवाच ।भगवन्पिण्डदानादिवासनारहिताकृतिः ।कीदृक्संपद्यते जीवः पिण्डो यस्मै न दीयते ॥२६॥श्रीवसिष्ठ उवाच ।पिण्डोऽथ दीयते मावा पिण्डो दत्तो मयेति चित् ।वासना हृदि संरूढा तत्पिण्डफलभाङ्गरः ॥२७॥यच्चित्तं तन्मयो जन्तुर्भवतीत्यनुभूतयः ।सदेहेषु विदेहेषु न भवत्यन्यथा क्वचित् ॥२८॥सपिण्डोस्मीति संवित्त्या निष्पिण्डोपि सपिण्डवान्निष्पिण्डोस्मीति संवित्त्या सपिण्डोपि नपिण्डवान्॥२९॥यथाभावनमेतेषां पदार्थानां हि सत्यता ।भावना च पदार्थेभ्यः कारणेभ्य उदेति हि ॥३०॥यथा वासनया जन्तोर्विषमप्यमृतायते ।असत्यः सत्यतामेति पदार्थो भावनात्तथा ॥३१॥कारणेन विनोदेति न कदाचन कस्यचित् ।भावना काचिदपि नो इति निश्चयवान्भव ॥३२॥कारणेन विना कार्यमा महाप्रलयं क्वचित् ।न दृष्टं न श्रुतं किंचित्स्वयं त्वेकोदयादृते ॥३३॥चिदेव वासना सैव धत्ते स्वप्न इवार्थताम् ।कार्यकारणतां याति सैवागत्येव तिष्ठति ॥३४॥श्रीराम उवाच ।धर्मो नास्ति ममेत्येव यः प्रेतो वासनान्वितः ।तस्य चेत्सुहृदा भूरिधर्मः कृत्वा समर्पितः ॥३५॥तत्तदात्र स किं धर्मो नष्टः स्यादुत वा न वा ।सत्यार्था वाप्यसत्यार्था भावना किं बलाधिका ॥३६॥श्रीवसिष्ठ उवाच ।देशकालक्रियाद्रव्यसंपत्त्योदेति भावना ।यत्रैवाभ्युदिता सा स्यात्स द्वयोरधिको जयी ॥३७॥धर्मदातुः प्रवृत्ता चेद्वासना तत्तया क्रमात् ।आपूर्यते प्रेतमतिर्न चेत्प्रेतधियाशुभा ॥३८॥एवं परस्परजयाज्जयत्यत्रातिवीयेवान् ।तस्माच्छुभेन यत्नेन शुभाभ्यासमुदाहरेत् ॥३९॥श्रीराम उवाच ।देशकालादिना ब्रह्मन्वासना समुदेति चेत् ।तन्महाकल्पसर्गादौ देशकालादयः कुतः ॥४०॥कारणे समुदेतीदं तैस्तदा सहकारिभिः ।सहकारिकारणानामभावे वासना कुतः ॥४१॥श्रीवसिष्ठ उवाच ।एवमेतन्महाबाहो सत्यात्मन्न कदाचन ।महाप्रलयसर्गादौ देशकालौ न कौचन ॥४२॥सहकारिकारणानामभावे सति दृश्यधीः ।नेयमस्ति न चोत्पन्ना न च स्फुरति काचन ॥४३॥दृश्यस्यासंभवादेव किंचिद्यद्दृश्यते त्विदम् ।तद्ब्रह्मैव स्वचिद्रूपं स्थितमित्थमनामयम् ॥४४॥एतच्चाग्रे युक्तिशतैः कथयिष्याम एव ते ।एतदर्थं प्रयत्नोऽयं वर्तमानकथां श्रृणु ॥४५॥एवं ददृशतुः प्राप्ते मन्दिरं सुन्दरोदरम् ।कीर्णं पुष्पोपहारेण वसन्तमिव शीतलम् ॥४६॥प्रशान्ताचारसंरम्भराजधान्या समन्वितम् ।मन्दारकुन्दमाल्यादिशवं तत्र समं स्थितम् ॥४७॥मन्दारकुन्दस्रग्दामवृताम्वरबृहच्छवम् ।शवशय्याशिरःस्थाग्र्यपूर्णकुम्भादिमङ्गलम् ॥४८॥अनिवृत्तगृहद्वारगवाक्षकठिनार्गलम् ।प्रशाम्यद्दीपकालोकश्यामलामलभित्तिकम् ।गृहैकदेशसंसुप्तमुखश्वाससमीकृतम् ॥४९॥संपूर्णचन्द्रसकलोदयकान्तिकान्तंसौन्दर्यनिर्जितपुरन्दरमन्दिरर्द्धि ।वैरिञ्चपद्ममुकुलान्तरचारुशोभंनिःशब्दमन्दमिव निर्मलमिन्दुकान्तम् ॥५०॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्र० लीलो० मरणशयनानन्तरप्रेतव्यवस्था नाम षट्पञ्चाशः सर्गः ॥५६॥ N/A References : N/A Last Updated : September 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP