संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः १७ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणम् - सर्गः १७ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १७ Translation - भाषांतर श्रीसरस्वत्युवाच ।शवीभूतमिमं वत्से भर्तारं पुष्पपुञ्जके ।आच्छाद्य स्थापयैनं त्वं पुनर्भर्तारमेप्यसि ॥१॥पुष्पाणि म्लानिमेष्यन्ति नो नचैष विनङ्क्ष्यति ।भूयश्च तव भर्तृत्वमचिरेण करिष्यति ॥२॥एतदीयश्च जीवोऽसावाकाशविशदस्तव ।न निर्गमिष्यति क्षिप्रमितोऽन्तःपुरमण्डपात् ॥३॥षट्पदश्रेणिनयना समाकर्ण्येति बन्धुभिः ।सा समाश्वासितागत्य पयोभिरिव पद्मिनी ॥४॥पतिं संस्थाप्य तत्रैव पुष्पपूरप्रगोपितम् ।किंचिदाश्वासिताऽतिष्ठद्दरिद्रेव निधानिनी ॥५॥तस्मिन्नेव दिने सैषा तस्मिञ्छुद्धान्तमण्डपे ।अर्धरात्रे परिजने सर्वस्मिन्निद्रया हृते ॥६॥ज्ञप्तिं भगवतीं देवीं शुद्धध्यानमहाधिया ।दुःखादाह्वाययामास सोवाच समुपेत्य ताम् ॥७॥किं स्मृतास्मि त्वया वत्से धत्से किमिति शोकिताम् ।संसारभ्रान्तयो भान्ति मृगतृष्णाम्बुवत्तधा ॥८॥लीलोवाच ।क्व ममावस्थितो भर्ता किं करोत्यथ कीदृशः ।समीपं नय मां तस्य नैका शक्नोमि जीवितुम् ॥९॥श्रीदेव्युवाच ।चित्ताकाशं चिदाकाशमाकाशं च तृतीयकम् ।द्वाभ्यां शून्यतरं विद्धि चिदाकाशं वरानने ॥१०॥तच्चिदाकाशकोशात्म चिदाकाशैकभावनात् ।अविद्यमानमप्याशु दृश्यतेऽथानुभूयते ॥११॥देशाद्देशान्तरप्राप्तौ संविदो मध्यमेव यत् ।निमिषेण चिदाकाशं तद्विद्धि वरवर्णिनि ॥१तस्मिन्निरस्तनिःशेषसंकल्पा स्थितिमेषि चेत् ।सर्वात्मकं पदं तत्त्वं त्वं तदाप्नोष्यसंशयम् ॥१३॥अत्यन्ताभावसंपत्त्या जगतश्चैतदाप्यते ।नान्यथा मद्वरेणाशु त्वं तु प्राप्स्यसि सुन्दरि ॥१४॥श्रीवसिष्ठ उवाच ।इत्युक्त्वा सा ययौ देवी दिव्यमात्मीयमास्पदम् ।लीला तु लीलयैवासीन्निर्विकल्पसमाधिभाक् ॥१५॥तत्तत्याज निमेषेण सान्तःकरणपञ्जरम् ।स्वदेहं खमिवोड्डीना मुक्तनीडा विहंगमी ॥१६॥ददर्श खस्था भर्तारं तस्मिन्नेवालयाम्बरे ।संस्थितं पृथिवीपालमास्थाने बहुराजनि ॥१७॥सिंहासने समारूढं जयजीवेति संस्तुतम् ।प्रस्तुतं मण्डलानीककार्यमाहर्तुमादृतम् ॥१८॥पताकामञ्जरीकीर्णराजधानीगृहस्थितम् ।पूर्वद्वारस्थितासंख्यमुनिविप्रर्षिमण्डलम् ॥१९॥दक्षिणद्वारगासंख्यराजराजेशमण्डलम् ।पश्चिमद्वारगासंख्यललनालोकमण्डलम् ॥२०॥उत्तरद्वारगासंख्यरथहस्त्यश्वसंकुलम् ।एकभृत्यविनिर्णीतदक्षिणापथविग्रहम् ॥२१॥कर्णाटनाथरचितपूर्वदेशक्रियाक्रमम् ।सुराष्ट्राधिपनिर्णीतसर्वम्लेच्छोत्तरापथम् ॥२२॥मालदेशसमाक्रान्तसर्वपाश्चात्यतङ्गणम् ।दक्षिणाब्धितटायातलङ्कादूतविनोदितम् ॥२३॥पूर्वाब्धितटमाहेन्द्रसिद्धोक्तगगनापगम् ।उत्तराब्धितटायातदूतवर्णितगुह्यकम् ॥२४॥पश्चिमाब्धितटालोकवर्णितास्तमद्यक्रमम् ।असंख्यवद्धभूपालकलाकीर्णाखिलाजिरम् ॥२५॥यज्ञवाटपठद्विप्र जिततूर्याग्रनिःस्वनम् ।बन्दिकोलाहलोल्लासप्रतिश्रुद्वनकुञ्जरम् ॥२६॥गेयवाद्योद्यतध्वानप्रध्वनद्गगनान्तरम् ।हयहस्तिरथाराजिरजोमेघघनाम्बरम् ॥२७॥पुष्पकर्पूरधूपाढ्यं गन्धामोदितपर्वतम् ।सर्वमण्डलसंभाररचितानेकशासनम् ॥२८॥यशःकर्पूरजलदसुशुभ्राम्बरपर्वतम् ।रोदसीस्तम्भभूतैकस्वप्रतापजितार्ककम् ॥२९॥आरम्भमन्थरोदारकार्यसंव्यग्रभूमिपम् ।नानानगरनिर्माणसोद्योगस्थपतीश्वरम् ॥३०॥पपाताथ महारम्भा सा तां नरपतेः सभाम् ।व्योमात्मिका व्योममयीं मिहिकेवाम्बराटवीम् ॥३१॥भ्रमन्तीं तत्र तामग्रे ददृशुस्ते न केचन ।संकल्पमात्ररचितां पुरुषाः कामिनीमिव ॥३२॥तथा ते तां न ददृशुः संचरन्तीं पुरोगताम् ।अन्यसंकल्परचितामन्येन नगरीं यथा ॥३३॥प्राक्तनानेव तान्सर्वान्स्वान्ददर्श सभागतान् ।भूभृतेव सुसंप्रज्ञान्नगरान्नगरान्तरम् ॥३४॥तद्देशांस्तत्समाचारांस्तथा तानेव बालकान् ।ता एव बालवनितास्तांस्तानेव च मन्त्रिणः ॥३५॥तानेव भूमिपालांश्च तांस्तानेव च पण्डितान् ।तानेव नर्मसचिवान्भृत्यांस्तानेव तादृशान् ॥३६॥अथान्यानप्यपूर्वांश्च पण्डितान्सुहृदस्तथा ।व्यवहारांस्तथान्यांश्च पौरानन्यांस्तथैव च ॥३७॥मध्याह्नकाले दिवसे घनदावाकुला दिशः ।अन्तरिक्षं सचन्द्रार्कं साम्भोदपवनध्वनि ॥३८॥महीरुहनदीशैलपुरपत्तनमण्डितम् ।नानानगरविन्यास जङ्गलग्रामसंकुलम् ॥३९॥द्विरष्टवर्षं भूपालं प्राक्तन्या जरसोज्झितम् ।प्राक्तनीं जनतां सर्वां समस्तान्ग्रामवासिनः ॥४०॥सा तानालोक्य ललना चिन्तापरवशाभवत् ।तस्मिन्नगरवास्तव्याः किं ते सर्वे मृता इति ॥४१॥पुनः प्रज्ञप्तिबोधेन प्राक्तनान्तःपुरं गता ।क्षणेन च ददर्शात्र सार्धरात्रे तथैव तान् ॥४२॥अथ सोत्थापयामास निद्राक्रान्तं सखीजनम् ।आह चातीव मे दुःखमास्थानं दीयतामिति ॥४३॥भर्तुः सिंहासनस्यास्य पार्श्वे तिष्ठाम्यहं यदि ।पश्यामि स्वभ्यसंघातं तत्प्रजीवामि नान्यथा ॥४४॥स राजपरिवारोऽथ तयेत्युक्ते यथाक्रमम् ।आसीद्विनिद्रः संव्यग्रः सर्वः सर्वस्वकर्मणि ॥४५॥पौरान्सभ्यात्समानेतुं ययुर्याष्टीकपङ्क्तयः ।व्यवहारं कलयितुमुर्व्यामर्ककरा इव ॥४६॥आस्थानभूमिं भृत्याश्च मार्जयामासुरादृताः ।प्रावृट्पयोदमलिन खं शरद्वासरा इव ॥४७॥अङ्गणं प्रति दीपौघास्तस्थुः पीततमोम्भसः ।आश्चर्यदर्शनायेव संप्राप्ता ऋक्षपङ्क्तयः ॥४८॥जनताः पूरयामासुः पूरैरजिरभूमिकाः ।अब्धीन्प्रलयसंशुष्कान्पुरासर्ग इवाम्भसा ॥४९॥आजग्मुर्मन्त्रिसामन्ताः स्वंस्वं स्थानमनिन्दिताः ।त्रैलोक्ये पुनरुत्पन्ने लोकपाला यथा दिशः ॥५०॥ववुराकीर्णकर्पूरसान्द्रावश्यायशीतलाः ।उत्फुल्लकुसुमोद्वान्तमांसलामोदितानिलाः ॥५१॥पर्यन्तेषु प्रतीहारास्तस्थुर्धवलवाससः ।ऋष्यमूकार्कतापार्तमेघमाला इवाद्रिषु ॥५२॥प्रभापीततमः पुञ्जाः पेतुः पुष्पोत्करा भुवि ।चण्डमारुतविध्वस्तास्तारकानिकरा इव ॥५३॥आस्थानं पूरयामासुर्महीपालानुयायिनः ।उत्फुल्लकमलोत्कीर्णं हंसा इव सरोवरम् ॥५४॥सिंहासनसमीपस्थे हैमचित्रासने नवे ।उपाविशदसौ लीला लीलेव स्मरचेतसि ॥५५॥ददर्श तान्नृपान्सर्वान्पूर्वानेव यथास्थितान् ।गुरूनार्यान्सखीन्सभ्यान्सुहृत्संबन्धिबान्धवान् ॥५६॥सकलमेव हि पूर्ववदेव सा समवलोक्य मुदं परमां ययौ ।नृपतिराष्ट्रजनं खलु जीवनाभ्युदितया च बभौ शशिवच्छ्रिया ॥५७॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलोपाख्याने सदेहराष्ट्रवर्णनं नाम सप्तदशः सर्गः ॥१७॥ N/A References : N/A Last Updated : September 10, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP