उत्पत्तिप्रकरणम् - सर्गः १९
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
श्रीदेव्युवाच ।
वित्तवेषवयःकर्मविद्याविभवचेष्टितैः ।
वसिष्ठस्यैव सदृशो नतु वासिष्ठचेष्टितः ॥१॥
वसिष्ठ इति नाम्नासौ तस्याभूदिन्दुसुन्दरी ।
नाम्ना त्वरुन्धती भार्या भूमिव्योमन्यरुन्धती ॥२॥
वित्तवेषवयःकर्मविद्याविभवचेष्टितैः ।
समैव साप्यरुन्धत्या नतु चेतनसत्तया ॥३॥
अकृत्रिमप्रेमरसा विलासालसगामिनी ।
सास्य संसारसर्वस्वमासीत्कुमुदहासिनी ॥४॥
स विप्रस्तस्य शैलस्य सानौ सरलशाद्वले ।
कदाचिदुपविष्टः सन्ददर्शाधो महीपतिम् ॥५॥
समग्रपरिवारेण यान्तमाखेटकेच्छया ।
महता सैन्यघोषेण मेरोरिव बिभित्सया ॥६॥
चामरैः कीर्णचन्द्रांशुपताकाभिर्लतावनम् ।
कुर्वाणं खं सितच्छत्रमण्डलै रूप्यकुट्टिमम् ॥७॥
अश्वपादूस्वनत्क्ष्माजरेणुपूरावृताम्बरम् ।
हास्तिकोत्तम्भितकरवाताट्टालकगोपितम् ॥८॥
महाकलकलावर्तद्रवद्दिग्भूतमण्डलम् ।
कचत्काञ्चनमाणिक्यहारकेयूरमण्डलम् ॥९॥
तमालोक्य महीपालमिदं चिन्तितवानसौ ।
अहो नु रम्या नृपता सर्वसौभाग्यभासिता ॥१०॥
पदातिरथहस्त्यश्वपताकाच्छत्रचामरैः ।
कदा स्यां दशदिक्कुञ्जपूरकोऽहं महीपतिः ॥११॥
कदा मे वायवः कुन्दमकरन्दसुगन्धयः ।
पास्यन्त्यन्तःपुरस्त्रीणां सुरतश्रमसीकरान् ॥१२॥
कर्पूरेण पुरन्ध्रीणां पूर्णेन यशसा दिशाम् ।
इन्दूदयावदातानि कदा कुर्यां मुखान्यहम् ॥१३॥
इत्थं ततःप्रभृत्येष विप्रः संकल्पवानभूत् ।
स्वधर्मनिरतो नित्यं यावज्जीवमतन्द्रितः ॥१४॥
हिमाशनिरिवाम्भोजं जर्जरीकर्तुमादृता ।
जले जर्जरितेवाथ जरा द्विजमुपाययौ ॥१५॥
आसन्नमरणस्याथ भार्या म्लानिमुपाययौ ।
तस्य शाम्यति पुष्पर्तौ लतेव ग्रीष्मभीतितः ॥१६॥
मामथाराधितवती सा ततस्त्वमिवाङ्गना ।
अमरत्वं सुदुष्प्रापं बुद्ध्वेमं सावृणोद्वरम् ॥१७॥
देवि स्वमण्डपादेव जीवो भर्तुर्मृतस्य मे ।
मायासीदित्यतस्तस्याः स एवाङ्गीकृतो मया ॥१८॥
अथ कालवशाद्विप्रः स पञ्चत्वमुपाययौ ।
तस्मिन्नेव गृहाकाशे जीवाकाशतया स्थितः ॥१९॥
संपन्नः प्राक्तनानल्पसंकल्पवशतः स्वयम् ।
आकाशवपुरेवैष पतिः परमशक्तिमान् ॥२०॥
प्रभावजितभूपीठः प्रतापाक्रान्तविष्टपः ।
कृपापालितपातालस्त्रिलोकविजयी नृपः ॥२१॥
कल्पाग्निररिवृक्षाणां स्त्रीणां मकरकेतनः ।
मेरुर्विषयवायूनां साध्वब्जानां दिवाकरः ॥२२॥
आदर्शः सर्वशास्त्राणामर्थिनां कल्पपादपः ।
पादपीठं द्विजाग्र्याणां राकाधर्मामृतत्विषः ॥२३॥
स्वगृहाभ्यन्तराकाशे चित्ताकाशमयात्मनि ।
तस्मिन्द्विजे शवीभूते भूताकाशशरीरिणि ॥२४॥
सा तस्य ब्राह्मणी भार्या शोकेनात्यन्तकर्शिता ।
शुष्केव माषशिम्बीका हृदयेन द्विधाभवत् ॥२५॥
भर्त्रा सह शवीभूता देहमुत्सृज्य दूरतः ।
आतिवाहिकदेहेन भर्तारं समुपाययौ ॥२६॥
नदीनिखातमिव तं भर्तारमनुसृत्य सा ।
आजगाम विशोकत्वं सा वासन्तीव मञ्जरी ॥२७॥
तत्रास्य विप्रस्य गृहाणि सन्ति भूस्थावरादीनि धनानि सन्ति ।
अद्याष्टमं वासरमाप्तमृत्योर्जीवो गिरिग्रामककन्दरस्थः ॥२८॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलो० ब्राह्मणमरणं नामैकोनविंशः सर्गः ॥१९॥
N/A
References : N/A
Last Updated : September 10, 2021
TOP