संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः ९४ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणं - सर्गः ९४ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः ९४ Translation - भाषांतर श्रीवसिष्ठ उवाच ।उत्तमाधममध्यानां पदार्थानामितस्ततः ।उत्पत्तीनां विभागोऽयं श्रृणु वक्ष्यामि राघव ॥१॥इदं प्रथमतोत्पन्नो योऽस्मिन्नेव हि जन्मनि ।इदंप्रथमतानाम्नी शुभाभ्याससमुद्भवा ॥२॥शुभलोकाश्रया सा च शुभकार्यानुबन्धिनी ।सा चेद्विचित्रसंसारवासनाव्यवहारिणी ॥३॥भवैः कतिपयैर्मोक्षमित्युक्ता गुणपीवरी ।तादृक्फलप्रदानैककार्याकार्यानुमानदा ॥४॥तेन राम ससत्त्वेति प्रोच्यते सा कृतात्मभिः ।अथ चेच्चित्रसंसारवासनाव्यवहारिणी ॥५॥अत्यन्तकलुषा जन्मसहस्रैर्ज्ञानभागिनी ।तादृक्फलप्रदानैकधर्माधर्मानुमानदा ॥६॥असावधमसत्त्वेति तेन साधुभिरुच्यते ।सैव संख्यातिगानन्तजन्मवृन्दादनन्तरम् ॥७॥संदिग्धमोक्षा यदि तत्प्रोच्यतेऽत्यन्ततामसी ।अनद्यतनजन्मा तु जातिस्तादृशकारिणी ॥८॥योत्पत्तिर्मध्यमा पुंसो राम द्वित्रिभवान्तरा ।तादृक्कार्या तु सा लोके राजसी राजसत्तम ॥९॥अविप्रकृष्टजन्मापि सोच्यते कृतबुद्धिभिः ।सा हि तन्मृतिमात्रेण मोक्षयोग्या मुमुक्षुभिः ॥१०॥तादृक्कार्यानुमानेन प्रोक्ता राजससात्त्विकी ।सैव चेदितरैरल्पैर्जन्मभिर्मोक्षभागिनी ॥११॥तत्तादृशी हि सा तज्ज्ञैः प्रोक्ता राजसराजसी ।सैव जन्मशतैर्मोक्षभागिनी चेच्चिरैषिणी ॥१२॥त्वदुक्ता तादृगारम्भा सद्भी राजसतामसी ।सैव संदिग्धमोक्षा चेत्सहस्रैरपि जन्मनाम् ॥१३॥तदुक्ता तादृशारम्भा राजसात्यन्ततामसी ।भुक्तजन्मसहस्रा तु योत्पत्तिर्ब्रह्मणो नृणाम् ॥१४॥चिरमोक्षा हि कथिता तामसी सा महर्षिभिः ।तज्जन्मनैव मोक्षस्य भागिनी चेत्तदुच्यते ॥१५॥तज्ज्ञैस्तामससत्त्वेति तादृशारम्भशालिनी ।भवैः कतिपयैर्मोक्षभागिनी चेत्तदुच्यते ॥१६॥तमोराजसरूपेति तादृशैर्गुणबृंहितैः ।पूर्वजन्मसहस्राढ्या पुरोजन्मशतैरपि ॥१७॥मोक्षायोग्या ततः प्रोक्ता तज्ज्ञैस्तामसतामसी ।पूर्वं तु जन्मलक्षाढ्या जन्मलक्षैः पुरोऽपि चेत् ॥१८॥संदिग्धमोक्षा तदसौ प्रोच्यतेऽत्यन्ततामसी ।सर्वा एताः समायान्ति ब्रह्मणो भूतजातयः ॥१९॥किंचित्त्प्रचलिता भोगात्पयोराशेरिवोर्मयः ।सर्वा एव विनिष्क्रान्ता ब्रह्मणो जीवराशयः ॥२०॥स्वतेजःस्पन्दिताभोगाद्दीपादिव मरीचयः ।सर्वा एव समुत्पन्ना ब्रह्मणो भूतपङ्क्तयः ॥२१॥स्वमरीचिबलोद्भूता ज्वलिताग्नेः कणा इव ।सर्वा एवोत्थितास्तस्माद्ब्रह्मणो जीवराशयः ॥२२॥मन्दारमञ्जरीरूपाश्चन्द्रबिम्बादिवांशवः ।सर्वा एव समुत्पन्ना ब्रह्मणो दृश्यदृष्टयः ॥२३॥यथा विटपिनश्चित्रास्तद्रूपा विटपश्रियः ।सर्वा एव समुत्पन्ना ब्रह्मणो जीवपङ्क्तयः ॥२४॥कटकाङ्गदकेयूरयुक्तयः कनकादिव ।सर्वा एवोत्थिता राम ब्रह्मणो जीवराशयः ॥२५॥निर्झरादमलोद्योतात्पयसामिव बिन्दवः ।अजस्यैवाखिला राम भूतसंततिकल्पनाः ॥२६॥आकाशस्य घटस्थालीरन्ध्राकाशादयो यथा ।सर्वा एवोत्थिता लोककलना ब्रह्मणः पदात् ॥२७॥सीकरावर्तलहरीबिन्दवः पयसो यथा ।सर्वा एवोत्थिता राम ब्रह्मणो दृश्यदृष्टयः ॥२८॥मृगतृष्णातरङ्गिण्यो यथा भास्करतेजसः ।सर्वा दृश्यदृशो द्रष्टुर्व्यतिरिक्ता न रूपतः ॥२९॥शीतरश्मेरित ज्योत्स्ना स्वालोक इव तेजसः ।एवमेता हि भूतानां जातयो विविधाश्च याः ॥३०॥यस्मादेव समायान्ति तस्मिन्नेव विशन्ति च ।काश्चिज्जन्मसहस्रान्ते जातयश्चिरकालिकाः ।काश्चित्कतिपयातीतजन्मरूपा व्यवस्थिताः ॥३१॥इत्थं जगत्सु विविधेषु विचित्ररूपा-स्तस्येच्छया भगवतो व्यवहारवत्यः ।आयान्ति यान्ति निपतन्ति तथोत्पतन्तिरूपश्रियः कणघटा इव पावकोत्थाः ॥३२॥इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपायेषूत्पत्तिप्रकरणे ब्रह्मणः सर्वमुत्पद्यत इति कथनं नाम चतुर्नवतितमः सर्गः ॥९४॥ N/A References : N/A Last Updated : September 14, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP