संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः ११० उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणं - सर्गः ११० योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः ११० Translation - भाषांतर श्रीवसिष्ठ उवाच ।परमात्कारणादादौ चिच्चेत्यपदपातिनी ।कलनापदमासाद्य कला कलिलतां गता ॥१॥असत्स्वेव विमोहेषु रामैवंप्रायवृत्तिषु ।घनेषु तुच्छतामेत्य चिराय परिमूर्च्छति ॥२॥असदेव मनोवृत्तिर्म्लाना विस्तारयत्यलम्।दुःखं दोषसहस्रेण वेतालानिव बालिका ॥३॥सदेव हि महादुःखमसत्तां नयति क्षणात् ।निष्कलङ्का मनोवृत्तिरन्धकारमिवार्करुक् ॥४॥नयत्यभ्याशतां दूरं दूरमभ्याशतां नयेत् ।मनो वल्गति भूतेषु बालो बालखगेष्विव ॥५॥अभयं भयमज्ञस्य चेतसो वासनावतः ।दूरतो मुग्धपान्थस्य स्थाणुर्याति पिशाचताम् ॥६॥शत्रुत्वं शङ्कते मित्रे कलङ्कमलिनं मनः ।मदाविष्टमतिर्जन्तुर्भ्रमत्पश्यति भूतलम् ॥७॥पर्याकुले हि मनसि शशिनो जायतेऽशनिः ।अमृतं विषभावेन भुक्तं याति विषक्रियाम् ॥८॥सुरपत्तननिर्माणमसत्सदिव पश्यति ।वासनावलितं चेतः स्वप्नवज्जाग्रदेव हि ॥९॥मोहैककारणं जन्तोर्मनसो वासनोल्वणा ।उत्खातव्या प्रयत्नेन मूलोच्छेदेन सैव च ॥१०॥वासनावागुराकृष्टो मनोहरिणको नृणाम् ।परां विवशतामेति संसारवनगुल्मके ॥११॥येन च्छिन्ना विचारेण जीवस्य ज्ञेयवासना ।निरभ्रस्येव सूर्यस्य तस्यालोको विराजते ॥१२॥अतस्त्वं मन एवेदं नरं विद्धि न देहकम् ।जडो देहो मनश्चात्र न जडं नाजडं विदुः ॥१३॥यत्कृतं मनसा तात तत्कृतं विद्धि राघव ।यत्त्यक्तं मनसा तावत्तत्त्यक्तं विद्धि चानघ ॥१४॥मनोमात्रं जगत्कृत्स्नं मनः पर्यन्तमण्डलम् ।मनो व्योम मनो भूमिर्मनो वायुर्मनो महान् ॥१५॥मनो यदि पदार्थे तु तद्भावेन न योजयेत् ।ततः सूर्योदयेऽप्येते न प्रकाशाः कदाचन ॥१६॥मनो मोहमुपादत्ते यस्यासौ मूढ उच्यते ।शरीरे मोहमापन्ने न शवो मूढ उच्यते ॥१७॥मनः पश्य भवत्यक्षि श्रृण्वच्छ्रवणतां गतम् ।त्वग्भावं स्पर्शनादेति घ्राणतामेति जिघ्रणात् ॥१८॥रसनाद्रसतामेति विचित्रास्तत्र वृत्तिषु ।नाटके नूटवद्देहे मन एवानुवर्तते ॥१९॥लघु दीर्घं करोत्येव सत्येऽसत्तां प्रयच्छति ।कटुतां नयति स्वादु रिपुं नयति मित्रताम् ॥२०॥य एव प्रतिभासोऽस्य चेतसो वृत्तिवर्तिनः ।ततस्तदेव प्रत्यक्षं तथात्रानुभवादिह ॥२१॥प्रतिभासवशादेव स्वप्नाकुलितचेतसः ।हरिश्चन्द्रस्य संपन्ना रात्रिर्द्वादशवार्षिकी ॥२२॥चित्तानुभाववशतो मुहूर्तत्वे गतं युगम् ।इन्द्रद्युम्नस्य वैरिञ्च्यपुराभ्यन्तरवर्तिनः ॥२३॥मनोज्ञया मनोवृत्त्या सुखतां याति रौरवम् ।प्रातःप्राप्तव्यराज्यस्य सुबद्धस्येव बन्धनम् ॥२४॥जिते मनसि सर्वैव विजिता चेन्द्रियावलिः ।शीर्यते च यथा तन्तौ दग्धे मौक्तिकमालिका ॥२५॥सर्वत्र स्थितया स्वच्छरूपया निर्विकारया ।समया सूक्ष्मया नित्यं चिच्छक्त्या साक्षिभूतया ॥२६॥सर्वभावानुगतया न चेत्यार्थविभिन्नया ।रामात्मसत्तया मूकमपि देहसमं जडम् ॥२७॥मनोऽन्तश्चलति व्यर्थं मननैषणमुह्यया ।बहिर्गिरिसरिद्व्योमसमुद्रपुरलीलया ॥२८॥जाग्रच्चाभिमतं वस्तु नयत्यमृतमृष्टताम् ।अनीहितं च विषतां नयत्यमृतमप्यलम् ॥२९॥अमृष्टसर्वभावानामलमात्मचमत्कृतिम् ।मनः स्वाभिमताकारं रूपं सृजति वस्तुषु ॥३०॥स्पन्देषु वायुतामेति प्रकाशेषु प्रकाशताम् ।द्रवेषु द्रवतामेति चिच्छक्तिस्फुरितं मनः ॥३१॥पृथ्व्यां कठिनतामेति शून्यतां शून्यदृष्टिषु ।सर्वत्रेच्छास्थितिं याति चिच्छक्तिस्फुरितं मनः ॥३२॥शुक्लं कृष्णीकरोत्येव कृष्णं नयति शुक्लताम् ।विनैव देशकालाभ्यां शक्तिं पश्यास्य चेतसः ॥३३॥मनस्यन्यत्र संसक्ते चर्वितस्यापि जिह्वया ।भोजनस्यापि मृष्टस्य न स्वादोऽस्यानुभूयते ॥३४॥यच्चित्तदृष्टं तद्दृष्टं न दृष्टं तदलोकितम् ।अन्धकारे यथा रूपमिन्द्रियं निर्मितं तथा ॥३५॥इन्द्रियेण मनो देहि मनसेन्द्रियमुन्मनः ।इन्द्रियाणि प्रसूतानि मनसो नेन्द्रियान्मनः ॥३६॥अत्यन्तभिन्नयोरैक्यं येषां चित्तशरीरयोः ।ज्ञातज्ञेया महात्मानो मनस्यास्ते सुपण्डिताः ॥३७॥कुसुमोल्लासिधम्मिल्ला हेलाचलितलोचना ।काष्ठकुड्योपमाङ्गेषु लग्नाप्यमनसोऽङ्गना ॥३८॥मनस्यन्यत्र संसक्ते वीतरागेण कानने ।क्रव्यादचर्वितोऽङ्कस्थः स्वकरोऽपि न लक्षितः ॥३९॥सुखीकर्तुं सुदुःखानि दुःखीकर्तुं सुखानि च ।सुखेनैवाशु युज्यन्ते मनसोऽतिशया मुनेः ॥४०॥मनस्यन्यत्र संसक्ते कथ्यमानापि यत्नतः ।लता परशुकृत्तेव कथा विच्छिद्यते बत ॥४१॥मनस्यद्रितटारूढे गृहस्थेनापि जन्तुना ।शुभ्राभ्रकन्दरभ्रान्तिदुःखं समनुभूयते ॥४२॥मनस्युल्लसिते स्वप्ने हृद्येव पुरपर्वताः ।आकाश इव विस्तीर्णे दृश्यन्ते निर्मिताः क्षमाः ॥४३॥मनो विलुलिते स्वप्ने हृद्येवाद्रिपुरावलिम् ।तनोति चलिताम्भोधिर्वीचीचयमिवात्मनि ॥४४॥अन्तरब्धिजलाद्यद्वत्तरङ्गापीडवीचयः ।देहान्तर्मनसस्तद्वत्स्वप्नाद्रिपुरराजयः ॥४५॥अङ्कुरस्य यथा पत्रलतापुष्पफलश्रियः ।मनसोऽस्य तथा जाग्रत्स्वप्नविभ्रमभूमयः ॥४६॥व्यतिरिक्ता यथा हेम्नो न हेमवनिता तथा ।जाग्रत्स्वप्नक्रियालक्ष्मीर्व्यतिरिक्ता न चेतसः ॥४७॥धाराकणोर्मिफेनश्रीर्यथा संलक्ष्यतेऽम्भसः ।तथा विचित्रविभवा नानातेयं हि चेतसः ॥४८॥स्वचित्तवृत्तिरेवेह जाग्रत्स्वप्नदृशोदितम् ।रसावेशादुपादत्ते शैलूष इव भूमिकाम् ॥४९॥चण्डालत्वं हि लवणे प्रतिभासवशाद्यथा ।तथेदं जगदाभोगि मनो मननमात्रकम् ॥५०॥यद्यत्संवेद्यते किंचित्तेन तेनाशु भूयते ।मनो मनननिर्माणं यथेच्छसि तथा कुरु ॥५१॥नानापुरसरिच्छैलरूपतामेत्य देहिनाम् ।तनोत्यन्तःस्थमेवेदं जाग्रत्स्वप्नमयं मनः ॥५२॥सुरत्वाद्दैत्यतामेत्य नागत्वान्नगतामपि ।प्रतिभासवशाच्चित्तमापन्नं लवणो यथा ॥५३॥नरत्वादेति नारीत्वं पितृत्वात्पुत्रतां गतः ।यथा क्षिप्रं प्रति नरः स्वसंकल्पात्तथा मनः ॥५४॥संकल्पतः प्रम्रियते संकल्पाज्जायते पुनः ।मनश्चिरन्तनाभ्यस्ताज्जीवतामेत्यनाकृति ॥५५॥मनो मननसंमूढमूढवासनमाततम् ।संकल्पाद्योनिमायाति सुखदुःखे भयाभये ॥५६॥सुखं दुःखं च मनसि तिले तैलमिव स्थितम् ।तद्देशकालवशतो घनं वा तनु वा भवेत् ॥५७॥तैलं तिलस्य चाक्रान्त्या स्फुटतामेति शाश्वतीम् ।चेतसो मननासंगाद्घनीभूते सुखासुखे ॥५८॥देशकालाभिधानेन राम संकल्प एव हि ।कथ्यते तद्वशाद्यस्माद्देशकालौ स्थितिं गतौ ॥५९॥प्रशाम्यत्युल्लसत्येति याति नन्दति वल्गति ।मनःशरीरसंकल्पे फलिते न शरीरकम् ॥६०॥नानास्फारसमुल्लासैः स्वसंकल्पोपकल्पितैः ।मनो वल्गति देहेऽस्मिन्साध्वीवान्तःपुराजिरे ॥६१॥चापले प्रसरस्तस्मादन्तर्येन नदीयते ।मनोविलयमादत्ते तस्यालान इव द्विपः ॥६२॥न स्पन्दते मनो यस्य शस्त्रस्तम्भ इवोत्तमः ।सद्वस्तुतोऽसौ पुरुषः शिष्टाः कर्दमकीटकाः ॥६३॥यस्याचपलतां यातं मन एकत्र संस्थितम् ।अनुत्तमपदेनासौ ध्यानेनानुगतोऽनघ ॥६४॥संयमान्मनसः शान्तिमेति संसारविभ्रमः ।मन्दरेऽस्पन्दतां याते यथा क्षीरमहार्णवः ॥६५॥मानस्यो वृत्तयो या या भोगसंकल्पविभ्रभैः ।संसारविषवृक्षस्य ता एवाङ्कुरयोनयः ॥६६॥चित्तं चलत्कुवलयं वलयन्त एतेमूढा महाजडजवे मदमोहमन्दाः ।आवर्तवर्तिनि विलूनविशीर्णचिन्ता-चक्रभ्रमे पुरुषदुर्भ्रमराः पतन्ति ॥६७॥इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपायेषूत्पत्तिप्रकरणे चित्तचिकित्सापूर्वकं चित्तवर्णनं नाम दशोत्तरशततमः सर्गः ॥११०॥ N/A References : N/A Last Updated : September 14, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP