उत्पत्तिप्रकरणं - सर्गः ७८
योगवासिष्ठः
श्रीवसिष्ठ उवाच ।
अथ सा राक्षसी रक्षःकुलकाननमञ्जरी ।
तमस्येवाभ्रलेखेव गम्भीरं विननाद ह ॥१॥
नादान्ते समुवाचेदं हुंकारापरुषं वचः ।
गर्जितानन्तरं जातकरकाशनिशब्दवत् ॥२॥
भो भो घोराटवीव्योमपदवीशशिभास्करौ ।
महामायातमःपीठशिलाकोटरकीटकौ ॥३॥
कौ भवन्तौ महाबुद्धी दुर्बुद्धी वा समागतौ ।
मद्ग्रासपदमापन्नौ क्षणान्मरणकोचितौ ॥४॥
राजोवाच ।
भो भो भूतक किं स्यास्त्वं क्व तिष्ठसि च देहकम् ।
दर्शयास्यास्तव गिरः को बिभेत्यलिनीध्वनेः ॥५॥
सिंहवत्सर्ववेगेन पतन्त्यर्थे किलार्थिनः ।
त्यज संरम्भमारम्भं स्वसामर्थ्य प्रदर्शय ॥६॥
किं प्रार्थयसि मे ब्रूहि ददामि तव सुव्रत ।
किं वा संरम्भशब्दाभ्यां भीषयास्मान्बिभेषि किम् ॥७॥
क्षिप्रमाकारशब्दाभ्यां मायया सन्मुखीभव ।
न किंचिद्दीर्घसूत्राणां सिद्ध्यत्यात्मक्षयादृते ॥८॥
राज्ञेत्युक्ते रम्यमुक्तमिति संचिन्त्य सा तयोः ।
प्रकाशायाप्य धैर्याय ननाद च जहास च ॥९॥
ततो ददृशतुस्तां तौ शब्दपूरितदिग्गणाम् ।
साट्टहासप्रभापिण्डपूरप्रकटिताकृतिम् ॥१०॥
कल्पाभ्राशनिकाषेण घृष्टामद्रितटीमिव ।
स्वनेत्रविद्युद्वलयबलाकोज्ज्वलिताम्बराम् ॥११॥
तिमिरैकार्णवौर्वाग्निज्वालाविवलनामिव ।
गर्जद्धनघटाटोपपीवरासितकन्धराम् ॥१२॥
रणद्दशनसरम्भहाहाहतनिशाचराम् ।
रोदसीकज्जलस्तम्भां लीलयोल्लसितां पुनः ॥१३॥
ऊर्ध्वकेशीं शिरालाङ्गीं कपिलाक्षीं तमोमयीम् ।
यक्षरक्षःपिशाचानामप्यनर्थभयप्रदाम् ॥१४॥
देहरन्ध्रविशच्छ्वासवातभांकारभीषणाम् ।
मुसलोलूखलालातहलशूर्पकशेखराम् ॥१५॥
स्फुरन्तीमिव कल्पान्ते वैदूर्यशिखरस्थलीम् ।
हासघट्टितविश्वेशां कालरात्रिमिवोदिताम् ॥१६॥
शरद्व्योमाटवीं साभ्रां कृतदेहामिवागताम् ।
शरीरिणीं महाभ्राढ्यां यामिनीमिव मांसलाम् ॥१७॥
शरीरसंनिवेशेन पङ्कपीठमिवोत्थिताम् ।
तनुं चन्द्रार्कयुद्धाय तमसेव समाश्रिताम् ॥१८॥
इन्द्रनीलमहाशुभ्रलम्बाभ्रयुगलोपमौ ।
उलूखलादिहारौघौ दधानामसितौ स्तनौ ॥१९॥
लग्नामङ्गारकाष्ठेन समानां च महातनुम् ।
द्रुमाभास्पन्दसशिरलसद्भुजलतातनुम् ॥२०॥
तामवेक्ष्य महावीरौ तथैवाक्षुभितौ स्थितौ ।
न तदस्ति विमोहाय यद्विविक्तस्य चेतसः ॥२१॥
मन्त्र्युवाच ।
महाराक्षसि संरम्भो महात्मा किमयं तव ।
लघवो ह्यथवा कार्ये लघावप्यतिसंभ्रमाः ॥२२॥
त्यज संरम्भमारम्भो नायं तव विराजते ।
विषये हि प्रवर्तन्ते धीमन्तः स्वार्थसाधकाः ॥२३॥
त्वादृशानां सहस्राणि मशकानामिवाबले ।
अस्माकं धीरतावात्याव्यूढानि तृणपर्णवत् ॥२४॥
संरम्भद्वारमुत्सृज्य समतास्वच्छया धिया ।
युक्ता च व्यवहारिण्या स्वार्थः प्राज्ञेन साध्यते ॥२५॥
स्वेनेव व्यवहारेण कार्यं सिद्ध्यतु वा न वा ।
महानियतिरित्येव भ्रमस्यावसरो हि कः ॥२६॥
कथयाभिमतं किं ते किमर्थयसि चार्थिनी ।
अर्थी स्वप्नेऽपि नास्माकमप्राप्तार्थः पुरो गतः ॥२७॥
इत्युक्ता सा तदा तेन चिन्तयामास राक्षसी ।
अहो नु विमलाचारं सत्त्वं पुरुषसिंहयोः ॥२८॥
न सामान्याविमौ मन्ये विचित्रेयं चमत्कृतिः ।
वचोवक्रेक्षणेनैव वदत्यन्तर्विनिश्चयम् ॥२९॥
वचोवक्रेक्षणद्वारैर्धीमतामाशया मिथः ।
एकीभवन्ति सरितां पयांसि वलनैरिव ॥३०॥
आभ्यां प्रायः परिज्ञातो मम भावोऽनयोर्मया ।
न विनाश्यौ मया चेमौ स्वयमेवाविनाशिनौ ॥३१॥
मन्ये भवेतामात्मज्ञौ नात्मज्ञानादृते मतिः ।
प्रमृष्टसदसद्भावाद्भवत्यस्तभया मृतौ ॥३२॥
तदेतौ परिपृच्छामि किंचित्संदेहमुत्थितम् ।
प्राज्ञं प्राप्य न पृच्छन्ति ये केचित्ते नराधमाः ॥३३॥
इति संचिन्त्य पृच्छायै तन्वानावसरं ततः ।
अकालकल्पाभ्ररवं हासं संयम्य साब्रवीत् ॥३४॥
कौ भवन्तौ नरौ धीरौ कथ्यतामिति मेऽनघौ ।
जायते दर्शनादेव मैत्री विशदचेतसाम् ॥३५॥
मन्त्र्युवाच ।
अयं राजा किरातानामस्याहं मन्त्रितां गतः ।
उद्यतौ रात्रिचर्येण त्वादृग्जनविनिग्रहे ॥३६॥
राज्ञो रात्रिंदिवं धर्मो दुष्टभूतविनिग्रहः ।
स्वधर्मत्यागिनो ये तु ते विनाशानलेन्धनम् ॥३७॥
राक्षस्युवाच ।
राजंस्त्वमसि दुर्मन्त्री दुर्मन्त्री न नृपो भवेत् ।
सद्रूपस्य भवेन्मन्त्री राजा सन्मन्त्रिणो भवेत् ॥३८॥
राजा चादौ विवेकेन योजनीयः सुमन्त्रिणा ।
तेनार्यतामुपायाति यथा राजा तथा प्रजाः ॥३९॥
समस्तगुणजालानामध्यात्मज्ञानमुत्तमम् ।
तद्विद्राजा भवेद्राजा तद्विन्मन्त्री च मन्त्रवित् ॥४०॥
प्रभुत्वं समदृष्टित्वं तच्च स्याद्राजविद्यया ।
तामेव यो न जानाति नासौ मन्त्री न सोऽधिपः ॥४१॥
भवन्तौ तद्विदौ साधू यदि तच्छ्रेय आप्नुथः ।
नो चेदनर्थदौ स्वस्याः प्रकृतेरद्म्यहं युवाम् ॥४२॥
एकोपायेन मत्पार्श्वाद्वालकावुत्तरिष्यथः ।
मत्प्रश्नपञ्जरं सारं चेद्विचारयथो धिया ॥४३॥
प्रश्नानिमान्कथय पार्थिव वा च मन्त्रिंस्तत्रार्थिनी भृशमहं परिपूरयार्थम् ।
अङ्गीकृतार्थमददत्क इवास्ति लोके दोषेण संक्षयकरेण न युज्यते यः ॥४४॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे क० राक्षसीवर्णनं नामाष्टस्रप्ततितमः सर्गः ॥७८॥
N/A
References : N/A
Last Updated : September 13, 2021
TOP