संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः ७४ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणं - सर्गः ७४ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः ७४ Translation - भाषांतर श्रीवसिष्ठ उवाच ।तस्य तत्रोर्ध्वशृङ्गस्य तस्यां भुवि महावनौ ।ददर्श मध्यमां सूचीं प्रोत्थितां सशिखामिव ॥१॥एकपादं तपस्यन्तीं शुष्यन्तीं शिरऊष्मणा ।सततानशनां शुष्कपिण्डीभूतोदरत्वचम् ॥२॥सकृद्विकसितास्येन गृहीत्वेवातपानिलान् ।पश्चात्त्यजन्तीं हृदये मे न मान्तीत्यनारतम् ॥३॥शुष्कां चण्डांशुकिरणैर्जर्जरां वनवायुभिः ।अचलन्तीनिजात्स्थानात्स्नापितामिन्दुरश्मिभिः ॥४॥पूर्वं रजोणुनैकेन संविष्टच्छन्नमस्तकाम् ।कृतार्थत्वं कथयतीं ददतान्यस्य नास्पदम् ॥५॥अरण्यान्येव दत्त्वार्थ चिरं जातशिखामिव ।मूर्ध्न्यवस्थापितप्राणजटाजूटवलीमिव ॥६॥तां प्रेक्ष्य पवनः सूचीं विस्मयाकुलचेतनः ।प्रणम्यालोक्य सुचिरं भीतभीत इवागतः ॥७॥महातपस्विनी सूची किमर्थं तप्यते तपः ।नेति प्रष्टुं शशाकासौ तत्तेजोराशिनिर्जितः ॥८॥भगवत्या महासूच्या अहो चित्रं महातपः ।इत्येव केवलं ध्यायन्मारुतो गगनं ययौ ॥९॥समुल्लङ्घ्याभ्रमार्ग तु वातस्कन्धानतीत्य च ।सिद्धवृन्दानधः कृत्वा सूर्यमार्गमुपेत्य च ॥१०॥ऊर्ध्वमेत्य विमानेभ्यः प्राप शक्रपुरान्तरे ।सूचीदर्शनपुण्यं तमालिलिङ्ग पुरंदरः ॥११॥पृष्टश्च कथयामास दृष्टं सर्वं मयेत्यसौ ।सहदेवनिकायाय शक्रायास्थानवासिने ॥१२॥वायुरुवाच ।जम्बूद्वीपेऽस्ति शैलेन्द्रो हिमवान्नाम सून्नतः ।जामाता यस्य भगवान्साक्षाच्छशिकलाधरः ॥१३॥तस्योत्तरे महाशृङ्गपृष्ठे परमरूपिणी ।स्थिता तपस्विनी सूची तपश्चरति दारुणम् ॥१४॥बहुनात्र किमुक्तेन वाताद्यशनशान्तये ।यया स्वोदरसौषिर्यं पिण्डीकृत्वा निवारितम् ॥१५॥शान्तसंकोचसूक्ष्मार्थं विकास्यास्यं रजोणुना ।तयाद्य स्थगितं शीतवाताशननिवृत्तये ॥१६॥तस्यास्तीव्रेण तपसा तुहिनाकरमुत्सृजन् ।अग्न्याकारमयो गृह्णन् देव दुःसेव्यतां गतः ॥१७॥तदुत्तिष्ठाशु गच्छामः सर्व एव पितामहम् ।तद्वरार्थमनर्थाय विद्धि तत्सुमहत्तपः ॥१८॥इति वातेरितः शक्रः सहदेवगणेन सः ।जगाम ब्रह्मणो लोकं प्रार्थयामास तं विभुम् ॥१९॥सूच्या वरमहं दातुं गच्छामि हिमवच्छिरः ।ब्रह्मणेति प्रतिज्ञाते शक्रः स्वर्गमुपाययौ ॥२०॥एतावताथ कालेन सा बभूवातिपावनी ।सूची निजतपस्तापतापितामरमन्दिरा ॥२१॥मुखरन्ध्रस्थितार्कांशुदृशा स्वच्छाययैव सा ।विकासिन्या विवर्तिस्था चोदितान्तमवेक्षिता ॥२२॥कौशेयरूपया सूच्या मेरुः स्थैर्येण निर्जितः ।मज्जनं नैति वृद्ध्वैवं मुक्तमाद्यन्तयोर्दिने ॥२३॥मध्याह्ने तापभीत्येव विशन्त्या मारुतान्तरम् ।अन्यदा गौरवाद्दृष्ट्वा दूरतः प्रेक्षमाणया ॥२४॥सा तामवेक्षते क्षारात्तापादङ्गे निमज्जति ।संकटे विस्मरत्येव जनो गौरवसत्क्रियाम् ॥२५॥छायासूची तापसूची यश्चात्मा स तृतीयया ।त्रिकोणं तपसा पूतं वाराणस्या समं कृतम् ॥२६॥गतास्तेन त्रिकोणेन त्रिवर्णपरिखावता ।वायवः पांसवो येऽपि ते परां मुक्तिमागताः ॥२७॥विदितपरमकारणाद्य जाता स्वयमनुचेतनसंविदं विचार्य ।स्वमननकलनानुसार एकस्त्विह हि गुरुः परमो न राघवान्यः ॥२८॥इत्यार्षे श्रवासिष्ठमहारामायणे उत्पत्तिप्रकरणे सूचीतपःपरिपाकवर्णनं नाम चतुःसप्ततितमः सर्गः ॥७४॥ N/A References : N/A Last Updated : September 13, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP