संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः ११९ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणं - सर्गः ११९ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः ११९ Translation - भाषांतर श्रीवसिष्ठ उवाच ।ऊर्मिकासंविदा हेम यथा विस्मृत्य हेमताम् ।विरौति नाहं हेमेति तथात्माहंतयानया ॥१॥श्रीराम उवाच ।ऊर्मिकासंविदुदयः कथं हेम्नो यथा मुने ।अहंता चात्मन इति यथावद्ब्रूहि मे प्रभो ॥२॥श्रीवसिष्ठ उवाच ।सत एवागमापायौ प्रष्टव्यौ नासतः सता ।अहंत्वमूर्मिकात्वं च सती तु न कदाचन ॥३॥हेमं हेम्न्यूर्मिकां च त्वं गृहाणेत्युदितो यदि ।यद्दीयते सोर्मिकेण तत्तदस्ति न संशयः ॥४॥श्रीराम उवाच ।एवं चेत्तत्त्प्रभो किं स्यादूर्मिकात्वं तु कीदृशम्।अनयैवार्थनिश्चित्या ज्ञास्यामि ब्रह्मणो वपुः ॥५॥श्रीवसिष्ठ उवाच ।रूपं राघव नीरूपमसतश्चेन्निरूप्यते ।तद्वन्ध्यातनयाकारगुणांस्त्वं समुदाहर ॥६॥ऊर्मिकात्वं मुधा भ्रान्तिर्मायैषा सत्स्वरूपिणी ।रूपं तदेतदेवास्याः प्रेक्षिता यन्न दृश्यते ॥७॥मृगतृष्णाम्भसि द्वीन्दावहंतारूपकादिषु ।एतावदेव रूपं यत्प्रेक्ष्यमाणं न लभ्यते ॥८॥यः शुक्तौ रजताकारं प्रेक्षते रजतस्य सः ।न संप्राप्नोत्यणुमपि कणं क्षणमपि क्वचित् ॥९॥अपर्यालोकनेनैव सदिवासद्विराजते ।यथा शुक्तौ रजतता जलं मरुमरीचिषु ॥१०॥यन्नास्ति तस्य नास्तित्वं प्रेक्ष्यमाणं प्रकाशते ।अप्रेक्ष्यमाणं स्फुरति मृगतृष्णास्विवाम्बुधीः ॥११॥असदेव च सत्कार्यकरं भवति च स्थिरम् ।बालानां मरणायैव वेतालभ्रान्तिसंभ्रमः ॥१२॥हेमतां वर्जयित्वैकां विद्यते हेम्नि नेतरत् ।ऊर्मिकाकटकादित्वं तैलादिसिकतास्विव ॥१३॥नेहास्ति सत्यं नो मिथ्या यद्यथा प्रतिभाव्यते ।तत्तथार्थक्रियाकारि बालयक्षविकारवत् ॥१४॥सद्वा भवत्वसद्वापि सुरूढं हृदये हि यत् ।तत्तदर्थक्रियाकारि विषस्येवामृतक्रिया ॥१५॥परमैषैव सा विद्या मायैषा संसृतिर्ह्यसौ ।असतो निष्प्रतिष्ठस्य यदहंत्वस्य भावनम् ॥१६॥हेम्न्यस्ति नोर्मिकादित्वमहन्ताद्यस्ति नात्मनि ।अहन्ताभाववस्त्वेमं स्वच्छे शान्ते सिते परे ॥१७॥न सनातनता काचिन्न च काचिद्विरिञ्चिता ।न च ब्रह्माण्डता काचिन्न च काचित्सुतादिता ॥१८॥न लोकान्तरता काचिन्न च स्वर्गादिता क्वचित् ।न मेरुता नासुरता न मनस्त्वं न देहता ॥१९॥न महाभूतता काचिन्न च कारणता क्वचित् ।न च त्रिकालकलना न भावाभाववस्तुता ॥२०॥त्वत्ताहन्तात्मता तत्ता सत्ताऽसत्ता न काचन ।न क्वचिद्भेदकलना न भावो न च रञ्जना ॥२१॥सर्वं शान्तं निरालम्बं जगत्त्वं शाश्वतं शिवम् ।अनामयमनाभासमनामकमकारणम् ॥२२॥न सन्नासन्न मध्यान्तं न सर्वं सर्वमेव च ।मनोवचोभिरग्राह्यं शून्याच्छून्यं सुखात्सुखम् ॥२३॥श्रीराम उवाच ।अवबुद्धं समं ब्रह्म सर्वमेव मयाधुना ।तथापि भूयः कथय सर्गः किमिव लोक्यते ॥२४॥श्रीवसिष्ठ उवाच ।परे शान्ते परं नाम स्थितमित्थमिदंतया ।नेह सर्गो न सर्गाख्या काचिदस्ति कदाचन ॥२५॥महार्णवाम्भसीवाम्बु संस्थिता परमेश्वरे ।जलं द्रवत्वात्स्पन्दीव निस्पन्दं परमं पदम् ॥२६॥भाः स्वात्मनीव कचति न कचत्येव तत्पदम् ।भासां तत्त्वं हि कचनं पदं त्वकचनं विदुः ॥२७॥अध ऊर्ध्वं वर्जयित्वा यथाब्धेरुदरे पयः ।स्फुरत्येवं परे चित्त्वादिदं नानेव तत्परम् ॥२८॥ईषद्विदः स्वयं चित्त्वाच्चेत्यतामिव गच्छति ।बुद्ध्यते सर्ग इत्येव समास्थास्यति शाश्वतम् ॥२९॥सर्गस्तु परमार्थस्य संज्ञेत्येव विनिश्चयः ।नानास्ति नायमत्यन्तमम्बरस्य यथाम्बरम् ॥३०॥चित्तात्सर्गसमापत्तिरचित्तात्सर्गसंक्षयः ।परे परमसंशान्ते हेम्नीव कटकभ्रमः ॥३१॥सन्नेव सर्गो सत्यत्वमेति चित्तशमोदये ।असत्सत्तामवाप्नोति स्वतः संवेदनोदये ॥३२॥संवेदनमहंतावत्सर्गसंभ्रमसंभ्रमः ।असंवेदनमाशान्तं परं विद्धि न तज्जडम् ॥३३॥नानेव सर्गो नानायं ज्ञस्यैकात्मशिवात्मकः ।पुंस्त्वकर्मक्रिया सेना मृन्मयी शिल्पिनां यथा ॥३४॥इदं पूर्णमनारम्भमनन्तमनघोदरम् ।पूर्णे पूर्णपरापूरैः पूर्णमेवावतिष्ठते ॥३५॥यदयं लक्ष्यते सर्गस्तद्ब्रह्म ब्रह्मणि स्थितम् ।नभो नभसि विश्रान्तं शान्तं शान्ते शिवे शिवम् ॥३६॥मुकुरप्रतिबिम्बस्थे नगरे नवयोजने ।यथा दूरमदूरं च तथेशे तदतत्क्रमः ॥३७॥असदभ्युदितं विश्वं सदप्यभ्युदितं सदा ।प्रतिभासात्सदाभासमवस्तुत्वादसन्मयम् ॥३८॥आदर्शनगराकारे मृगतृष्णाम्बुभास्वरे ।द्विचन्द्रविभ्रमाभासे सर्गेऽस्मिन्कैव सत्यता ॥३९॥मायाचूर्णपरिक्षेपाद्यथा व्योम्नि पुरभ्रमः ।तथा संविदि संसारः सारोऽसारश्च भासते ॥४०॥यावद्विचारदहनेन समूलदाहंदग्धा न जर्जरलतेव बलादविद्या ।शाखाप्रतानगहनानि बहूनि ताव-न्नानाविधानि सुखदुःखवनानि सूते ॥४१॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० उत्पत्तिप्रकरणे हेमोर्म्युपदेशो नामैकोनविंशत्युत्तरशततमः सर्गः ॥११९॥ N/A References : N/A Last Updated : September 14, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP