संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः ३६ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणम् - सर्गः ३६ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ३६ Translation - भाषांतर श्रीवसिष्ठ उवाच ।अथ श्रृङ्गोपमानेषु स्थितेषु शरराशिषु ।सर्वभीरुषु भग्नेषु विद्रुतेषु दिशो दश ॥१॥मातङ्गशवशैलेषु विश्रान्ताम्बुदपङ्कतिषु ।यक्षरक्षःपिशाचेषु क्रीडत्सु रुधिरार्णवे ॥२॥महतां धर्मनिष्ठानां शीलौजःसत्त्वशालिनाम् ।शुद्धानां कुलपद्मानां वीराणामनिवर्तिनाम् ॥३॥द्वन्द्वयुद्धानि जातानि मेघानामिव गर्जताम् ।मिथोनिगरणोत्कानि मिलन्त्यापगपूरवत् ॥४॥पञ्जरः पञ्जरेणेव गजौघेन गजोच्चयः ।सवनः सवनेनाद्रिरद्रिणेवामिलद्वलात् ॥५॥अश्वौघो मिलदश्वानां वृन्देनाराविरंहसा ।तरङ्गौघेन घोषेण तरङ्गौघ इवार्णवे ॥६॥नरानीकं नरानीकः समायुधमयोधयत् ।वेण्वोघमिव वेण्वोघो मरुल्लोलो मरुद्वलम् ॥७॥रथौघश्च रथौघेन निष्पिपेषाखिलं वपुः ।नगरं नगरेणेव दैवेनोड्डीनमासुरम् ॥८॥सरच्छरभरासाररचितापूर्ववारिदम् ।युयुधे स्थगिताकाशा धनुर्धरपताकिनी ॥९॥विषमायुधयुद्धेषु योद्धारः पेलवाशयाः ।यदा युक्त्या पलायन्ते रणकल्पानले तदा ॥१०॥मिलिताश्चक्रिणश्चक्रैर्धनुर्धारैर्धनुर्धराः ।खङ्गिभिः खङ्गयोद्धारो भुशुण्डीभिर्भुशुण्डयः ॥११॥मुसलैर्मुसलोदाराः कुन्तिनः कुन्तिधारिभिः ।ऋष्ट्यायुधा ऋष्टिधरैः प्रासिभिः प्रासपाणयः ॥१२॥समुद्गरा मुद्गरिभिः सगदैर्विलसद्गदाः ।शाक्तिकैः शक्तियोद्धारः शूलैः शूलविशारदाः ॥१३॥प्रासासनविदः प्रासैः परशूक्ताः परश्वधैः ।लकुटोद्यैर्लकुटिनश्चोपलैरुपलायुधाः ॥१४॥पाशिभिः पाशधारिण्यः शङ्कुभिः शङ्कुधारिणः ।क्षुरिकाभिस्तु क्षुरिका भिन्दिपालैश्च तद्गताः ॥१५॥वज्रमुष्टिधरा वज्रैरङ्कुशैरङ्कुशोद्धताः ।हलैर्हलनिकाषज्ञास्त्रिशूलैश्च त्रिशूलिनः ॥१६॥श्रृङ्खलाजालिनो जालैः श्रृङ्खलैरलिकोमलैः ।क्षुभिताकल्पविक्षुब्धसागरोर्मिघटा इव ॥१७॥क्षुब्धचक्रदलावर्तः शरसीकरमारुतः ।प्रभ्रमद्धेतिमकरो व्योमैकार्णव आबभौ ॥१८॥उत्फुल्लायुधकल्लोलशिराकुलजलेचरः ।रोदोरन्ध्रसमुद्रोऽसौ बभूवामरदुस्तरः ॥१९॥दिव्याष्टकजनानीकं पक्षद्वयतया तया ।अर्धेनार्धेन कुपितं भूपालाभ्यां तथा स्थितम् ॥२०॥मध्यदेशादिसंख्याने प्राग्दिभ्योऽभ्यागतानिमान् ।लीलानाथस्य पद्मस्य पक्षे जनपदाञ्छृणु ॥२१॥पूर्वस्यां कोसलाः काशिमागधा मिथिलोत्कलाः ।मेखलाः कर्करा मुद्रास्तथा संग्रामशौण्डकाः ॥२२॥मुख्या हिमा रुद्रमुख्यास्ताम्रलिप्तास्तथैव च ।प्राग्ज्योतिषा वाजिमुखा अम्बष्ठाः पुरुषादकाः ॥२३॥वर्णकोष्ठाः सविश्वोत्रा आममीनाशनास्तथा ।व्याघ्रवक्राः किराताश्च सौवीरा एकपादकाः ॥२४॥माल्यवान्नाम शैलोऽत्र शिविराञ्जन एव च ।वृषलध्वजपद्माद्यास्तथोदयकरोगिरिः ॥२५॥अथ प्राग्दक्षिणायां तु इमे विन्ध्यादिवासिनः ।चेदयो वत्सदाशार्णा अङ्गवङ्गोपवङ्गकाः ॥२६॥कलिङ्गपुण्ड्रजठरा विदर्भा मेखलास्तथा ।शबराननवर्णाश्च कर्णात्रिपुरपूरकाः ॥२७॥कण्टकस्थलनामानः पृथग्दीपककोमलाः ।कर्णान्ध्राश्चौलिकाश्चैव तथा चार्मण्वता अपि ॥२८॥काकका हेमकुड्याश्च तथा श्मश्रुधरा अपि ।बलिग्रीवमहाग्रीवाः किष्किन्धा नालिकेरिणः ॥२९॥अथ लीलापतेरस्य दक्षिणस्यामिमे नृपाः ।विन्ध्योऽथ कुसुमापीडो महेन्द्रो दर्दुरस्तथा ॥३०॥मलयः सूर्यवांश्चैव गणा राज्यसमृद्धकाः ।अवन्तीरिति विख्यातास्तथा शाम्बवतीति च ॥३१॥दशपूरकथाचक्रारेषिकातुरकच्छपाः ।वनवासोपगिरयस्ते भद्रगिरयस्तथा ॥३२॥नागरा दण्डकाश्चैव गणराष्ट्रनृराष्ट्रकाः ।साहा शैवार्प्यमूकाश्च कर्कोटा वनविम्बलाः ॥३३॥पम्पानिवासिनश्चैव कैरकाः कर्कवीरकाः ।स्वेरिका यासिकाश्चैव धर्मपत्तनपञ्जिकाः ॥३४॥काशिकास्तृष्णखल्लूला यादास्ते ताम्रपर्णकाः ।गोनर्दाः कनकाश्चैव दीनपत्तनमामकाः ॥३५॥ताम्रीका दम्भराकीर्णाः सहकौरणकास्तथा ।वैतुण्डकास्तुम्बवनालाजिनद्वीपकर्णिकाः ॥३६॥कर्णिकाभाश्च शिवयः कौङ्कणाश्चित्रकूटकाः ।कर्णाटमण्टवटका महाकटकिकास्तथा ॥३७॥आन्ध्राश्च कोलगिरयश्चावन्तिकविचेरिकाः ।चण्डायत्ता देवनकाः क्रौञ्चा वाहास्तथैव च ॥३८॥शिलाक्षारोदभोनन्दमर्दना मलयाभिधाः ।ते चित्रकूटशिखरा लङ्कारक्षोगणाः स्मृताः ॥३९॥अथ प्रत्यग्दक्षिणस्यां महाराज्यसुराष्ट्रकाः ।सिन्धुसौवीरशूद्राख्या आभीरा द्रविडास्तथा ॥४०॥कीकटाः सिद्धखण्डाख्यास्तथा कालिरुहा अपि ।अत्र हेमगिरिः शैलस्तथा रैवतको गिरिः ॥४१॥जयकच्छो मयवरो यवनास्तत्र जन्तवः ।बाह्लीका मार्गणावन्ता धूम्रास्तुम्बकनामकाः ॥४२॥तथा लाजगणाश्चैव तथात्र गिरिवासिनः ।ततोऽब्धितोकनियुता एते लीलापतेर्जनाः ॥४३॥अथ तत्प्रतिपक्षस्थानिमाञ्जनपदाञ्श्रृणु ।पश्चिमायां दिशि प्रौढा इमे तावन्महाद्रयः ॥४४॥मणिमान्नाम शैलेन्द्रः कुरार्पणगिरिस्तथा ।वनोऽर्कहो मेघभवश्चक्रवानस्तपर्वतः ॥४५॥जनाः पञ्चजना नाम काशब्रह्मचयान्तकाः ।तथैव भारक्षतथाः पारकाः शान्तिकास्तथा ॥४६॥शैव्यारमरकायाच्छा गुहुत्वा नियमास्तथा ।हैहयाः सुह्मगायाश्च ताजिका हूणकास्तथा ॥४७॥पार्श्वेकतकयोः कर्का गिरिपर्णावमास्तथा ।संत्यक्तधर्ममर्यादास्ते वर्णा म्लेच्छजातयः ॥४८॥ततोऽजनपदा भूमिर्योजनानां शतद्वयम् ।ततो महेन्द्रशिखरी मुक्तामणिमयावनिः ॥४९॥युते महीधरशतैरथाश्वो नाम पर्वतः ।ततो महार्णवो भीमः पारियात्रगिरिस्तटे ॥५०॥पश्चिमोत्तरदिग्भागे देशो गिरिमति स्थितः ।तथा वेणुपतिश्चैव ततो नरपतिर्मही ॥५१॥तथा फल्गुणकाश्चैव माण्डव्यानेकनेत्रकाः ।पुरुकुन्दाश्च पाराश्च भानुमण्डलभावनाः ॥५२॥वन्मिला नलिना दीर्घा दीर्घकेशाङ्गबाहवः ।रङ्गाश्च स्तनिकाश्चान्या गुरुहाश्चलुहास्तथा ॥५३॥ततः स्त्रीराष्ट्रमतुलं गोवृषापत्यभोजनम् ।अथोत्तरस्यां हिमवान्क्रौञ्चोऽथ मधुमान्गिरिः ॥५४॥कैलासो वसुमान्मेरुस्तत्पादेषु जना उभे ।मद्रावारेवयौधेया मालवाः शूरसेनिकाः ॥५५॥राजन्याश्च तथा ज्ञेया अर्जुनातनयस्तथा ।त्रिगर्त एकपात्क्षुद्रामबलास्वस्तवासिनः ॥५६॥अबलाः प्रखलाः शाकाः क्षेमधूर्तय एव च ।दशधानागावसन्यदण्डाहन्यसनास्तथा ॥५७॥धानदाः सरकाश्चैव वाटधानास्तथैव च ।अन्तरद्वीपगान्धारास्तथावन्तिसुरास्तथा ॥५८॥अथ तक्षशिला नाम ततो वीलवगोधनी ।पुष्करावर्तदेशस्य यशोवतिमही ततः ॥५९॥ततो नाभिमतिर्भूमिस्तिक्षा कालवरास्तथा ।काहकं नगरं चैव सुरभूतिपुरं तथा ॥६०॥तथैव रतिकादर्शा अन्तरादर्श एव च ।ततः पिङ्गलपाण्डव्यं यामुने यातुधानकाः ॥६१॥मानवा नांगना हेमतालाः स्वस्वमुखास्तथा ।हिमवान्वसुमान्क्रौञ्चकैलासावित्यगास्तथा ॥६२॥ततोऽजनपदा भूमिरशीतिशतयोजना ।अथ प्रागुत्तरस्यां तु क्रमाज्जनपदाञ्छृणु ॥६३॥कालुता ब्रह्मपुत्राश्च कुणिदाः खदिनास्तथा ।मालवा रन्ध्रराज्याश्च वना राष्ट्रास्तथैव च ॥६४॥केडवस्ताः सिंहपुत्रास्तथा वामनतां गताः ।सावाकच्चापलवहाः कामिरा दरदास्तथा ॥६५॥अभिसासदजार्वाकाः पलोलकुविकौतुकाः ।किरातायामुपाताश्च दीनाः स्वर्णमही ततः ॥६६॥देवस्थलोपवनभूस्तदनूदितश्री-र्विश्वावसोस्तदनु मन्दिरमुत्तमं च ।कैलासभूस्तदनु मञ्जुवनश्च शैलोविद्याधरामरविमानसमानभूमिः ॥६७॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलो० जनपदवर्णनं नाम षटत्रिंशः सर्गः ॥३६॥ N/A References : N/A Last Updated : September 11, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP