संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः २ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणं - सर्गः २ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः २ Translation - भाषांतर श्रीवसिष्ठ उवाच ।इदमाकाशजाख्यानं श्रृणु श्रवणभूषणम् ।उत्पत्त्याख्यं प्रकरणं येन राघव बुध्यसे ॥१॥अस्ति ह्याकाशजो नाम द्विजः परमधार्मिकः ।ध्यानैकनिष्ठः सततं प्रजानां च हिते रतः ॥२॥स चिरं जीवति यदा तदा मृत्युरचिन्तयत् ।सर्वाण्येव क्रमेणाह भूतान्यद्मि किलाक्षयः ॥३॥एनमाकाशजं विप्रं न कस्माद्भक्षयाम्यहम् ।अत्र मे कुण्ठिता शक्तिः खङ्गधारा इवोपले ॥४॥इति संचिन्त्य तं हन्तुमगच्छत्तत्पुरं तदा ।त्यजन्त्युद्यममुद्युक्ता न स्वकर्माणि केचन ॥५॥ततस्तत्सदनं यावन्मृत्युः प्रविशति स्वयम् ।तावदेनं दहत्यग्निः कल्पान्तज्वलनोपमः ॥६॥अग्निज्वालामहामालां विदार्यान्तर्गतो ह्यसौ ।द्विजं दृष्ट्वा समादातुं हस्तेनैच्छत्प्रयत्नतः ॥७॥नचाशकत्पुरो दृष्टमपि हस्तशतैर्द्विजम् ।बलवानप्यवष्टब्धुं संकल्पपुरुषं यथा ॥८॥अथागत्य यमं मृत्युरपृच्छत्संशयच्छिदम् ।किमित्यहं न शक्नोमि भोक्तुमाकाशजं विभो ॥९॥यम उवाच ।मृत्यो न किंचिच्छक्तस्त्वमेको मारयितुं बलात् ।मारणीयस्य कर्माणि तत्कर्तृणीति नेतरत् ॥१०॥तस्मादेतस्य विप्रस्य मारणीयस्य यत्नतः ।कर्माण्यन्विष्य तेषां त्वं साहाय्येनैनमत्स्यसि ॥११॥ततः स मृत्युर्बभ्राम तत्कर्मान्वेषणादृतः ।मण्डलानि दिगन्तांश्च सरांसि सरितो दिशः ॥१२॥वनजङ्गलजालानि शैलानब्धितटानि च ।द्वीपान्तराण्यरण्यानि नगराणि पुराणि च ॥१३॥ग्रामाण्यखिलराष्ट्राणि देशान्तर्गहनानि च ।एवं भूमण्डलं भ्रान्त्वा न कुतश्चित्स कानिचित् ॥१४॥तान्याकाशजकर्माणि लब्धवान्मृत्युरुद्यतः ।वन्ध्यापुत्रमिव प्राज्ञः संकल्पाद्रिमिवापरः ॥१५॥समपृच्छदथागत्य यमं सर्वार्थकोविदम् ।परायणं हि प्रभवः संदेहेष्वनुजीविनाम् ॥१६॥मृत्युरुवाच ।आकाशजस्य कर्माणि क्व स्थितानि वद प्रभो ।धर्मराजोऽथ संचिन्त्य सुचिरं प्रोक्तवानिदम् ॥१७॥धर्मराज उवाच ।आकाशजस्य कर्माणि मृत्यो सन्ति न कानिचित् ।एष आकाशजो विप्रो जातः खादेव केवलात् ॥१८॥आकाशादेव यो जातः स व्योमैवामलं भवेत् ।सहकारीणि नो सन्ति न कर्माण्यस्य कानिचित् ॥१९॥संबन्धः प्राक्तनेनास्य न मनागपि कर्मणा ।अस्ति वन्ध्यासुतस्येव तथाऽजाताकृतेरिव ॥२०॥कारणानामभावेन तस्मादाकाशमेव सः ।नैतस्य पूर्वकर्मास्ति नभसीव महाद्रुमः ॥२१॥नैतदस्यावशं चित्तमभावात्पूर्वकर्मणाम् ।अद्य तावदनेनाद्यं न किंचित्कर्म संचितम् ॥२२॥एवमाकाशकोशात्मा विशदाकाशरूपिणि ।स्वकारणे स्थितो नित्यः कारणानि न कानिचित् ॥२३॥प्राक्तनानि न सन्त्यस्य कर्माण्यद्य करोति नो ।किंचिदप्येवमेषोऽत्र विज्ञानाकाशमात्रकः ॥२४॥प्राणस्पन्दोऽस्य यत्कर्म लक्ष्यते चास्मदादिभिः ।दृश्यतेऽस्माभिरेव तन्न त्वस्यास्त्यत्र कर्मधीः ॥२५॥संस्थिता भावयन्तीव चिद्रूपैव परात्पदात् ।भिन्नमाकारमात्मीयं चित्स्तम्भे शालभञ्जिका ॥२६॥तथैव परमार्थात्सखात्मभूतः स्थितो द्विजः ।यथा द्रवत्वं पयसि शून्यत्वं च यथाम्बरे ॥२७॥स्पन्दत्वं च यथा वायोस्तथैष परमे पदे ।कर्माण्यद्यतनान्यस्य संचितानि न सन्ति हि ॥२८॥न पूर्वाण्येष तेनेह न संसारवशं गतः ।सहकारिकारणानामभावे यः प्रजायते ॥२९॥नासौ स्वकारणाद्भिन्नो भवतीत्यनुभूयते ।कारणानामभावेन तस्मादेष स्वयंभवः ॥३०॥कर्ता न पूर्वं नाप्यद्य कथमाक्रम्यते वद ।यदैष कल्पनां बुद्ध्या मृतिनाम्नीं करिष्यति ॥३१॥पृथ्व्यादिमानयमहमिति यस्य च निश्चयः ।स पार्थिवो भवत्याशु ग्रहीतुं स च शक्यते ॥३२॥पृथ्व्यादिकलनाभावादेष विप्रो न रूपवान् ।दृढरज्ज्वेव गगनं ग्रहीतुं नैव युज्यते ॥३३॥मृत्युरुवाच ।भगवञ्जायते शून्यात्कथं नाम वदेति मे ।पृथ्व्यादयः कथं सन्ति न सन्ति वद वा कथम् ॥३४॥यम उवाच ।न कदाचन जातोऽसौ न च नास्ति कदाचन ।द्विजः केवलविज्ञानभामात्रं तत्तथा स्थितः ॥३५॥महाप्रलयसंपत्तौ न किंचिदवशिष्यते ।ब्रह्मास्ते शान्तमजरमनन्तात्मैव केवलम् ॥३६॥शून्यं नित्योदितं सूक्ष्मं निरुपाधि परं स्थितम् ।तदा तदनु येनास्य निकटेऽद्रिनिभं महः ॥३७॥संविन्मात्रस्वभावत्वाद्देहोऽहमिति चेतति ।काकतालीयवद्भ्रान्तमाकारं तेन पश्यति ॥३८॥स एष ब्राह्मणस्तस्मिन्सर्गादावम्बरोदरे ।निर्विकल्पश्चिदाकाशरूपमास्थाय संस्थितः ॥३९॥नास्य देहो न कर्माणि न कर्तृत्वं न वासना ।एष शुद्धचिदाकाशो विज्ञानघन आततः ॥४०॥प्राक्तनं वासनाजालं किंचिदस्य न विद्यते ।केवलं व्योमरूपस्य भारूपस्येव तेजसः ॥४१॥वेदनामात्रसंशान्तावीदृशोऽपि न दृश्यते ।तस्माद्यथा चिदाकाशस्तथा तत्प्रतिपत्तयः ॥४२॥कुतः किलात्र पृथ्व्यादेः कीदृशः संभवः कथम् ।एतदाक्रमणे मृत्यो तस्मान्मा यत्नवान्भव ॥४३॥ग्रहीतुं युज्यते व्योम न कदाचन केनचित् ।श्रुत्वैतद्विस्मितो मृत्युर्जगाम निजमन्दिरम् ॥४४॥श्रीराम उवाच ।ब्रह्मैष कथितो देवस्त्वया मे प्रपितामहः ।स्वयंभूरज एकात्मा विज्ञानात्मेति मे मतिः ॥४५॥श्रीवसिष्ठ उवाच ।एवमेतन्मया राम ब्रह्मैष कथितस्तव ।विवादमकरोन्मृत्युर्यमेनैतत्कृते पुरा ॥४६॥मन्वन्तरे सर्वभक्षो यदा मृत्युर्हरन्प्रजाः ।बलमेत्यब्जजाक्रान्तावारम्भमकरोत्स्वयम् ॥४७॥तदैव धर्मराजेन यमेनाश्वनुशासितः ।यदेव क्रियते नित्यं रतिस्तत्रैव जायते ॥४८॥ब्रह्मा किल पराकाशवपुराक्रम्यते कथम् ।मनोमात्रं च संकल्पः पृथ्व्यादिरहिताकृतिः ॥४९॥यश्चिद्व्योमचमत्कारः किलाकारानुभूतिमान् ।स चिद्व्योमैव नो तस्य कारणत्वं न कार्यता ॥५०॥आकाशस्फुरदाकारः संकल्पपुरुषो यथा ।पृथ्व्यादिरहितो भाति स्वयंभूर्भासते तथा ॥५१॥निर्मले व्योम्नि मुक्तालीसंकल्पस्वप्नयोः पुरम् ।अपृथ्व्यादि यथा भाति स्वयंभूर्भासते तथा ॥५२॥न दृश्यमस्ति न द्रष्टा परमात्मनि केवले ।स्वयंचित्ता तथाप्येष स्वयंभूरिति भासते। ॥५३॥संकल्पमात्रमेवैतन्मनो ब्रह्मेति कथ्यते ।संकल्पाकाशपुरुषो नास्य पृथ्व्यादि विद्यते ॥५४॥यथा चित्रकृदन्तःस्था निर्देहा भाति पुत्रिका ।तथैव भासते ब्रह्मा चिदाकाशाच्छरञ्जनम् ॥५५॥चिद्व्योमकेवलमनन्तमनादिमध्यंब्रह्मेति भाति निजचित्तवशात्स्वयंभूः ।आकारवानिव पुमानिव वस्तुतस्तुवन्ध्यातनूज इव तस्य तु नास्ति देहः ॥५६॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे आद्यसृष्टिकर्तृवर्णनं नाम द्वितीयः सर्गः ॥२॥ N/A References : N/A Last Updated : September 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP