संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः ७ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणं - सर्गः ७ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ७ Translation - भाषांतर श्रीराम उवाच ।य एष देवः कथितो यस्मिञ्ज्ञाते विमुच्यते ।वद क्वासौ स्थितो ब्रह्मन्कथमेनमहं लभे ॥१॥श्रीवसिष्ठ उवाच ।य एष देवः कथितो नैष दूरेऽवतिष्ठते ।शरीरे संस्थितो नित्यं चिन्मात्रमिति विश्रुतः ॥२॥एष सर्वमिदं विश्वं न विश्वं चैष सर्वगः ।विद्यते ह्येष एवैको न तु विश्वाभिधास्ति दृक् ॥३॥चिन्मात्रमेव शशिभृच्चिन्मात्रं गरुडेश्वरः ।चिन्मात्रमेव तपनश्चिन्मात्रं कमलोद्भवः ॥४॥श्रीराम उवाच ।बाला अपि वदन्त्येतद्यदि चेतनमात्रकम् ।जगदित्येव केवात्र नाम स्यादुपदेशता ॥५॥श्रीवसिष्ठ उवाच ।चिन्मात्रं चेतनं विश्वमिति यज्ज्ञातवानसि ।न किंचिदेव विज्ञातं भवता भवनाशनम् ॥६॥चेतनं राम संसारो जीव एष पशुः स्मृतः ।एतस्मादेव निर्यान्ति जरामरणभीतयः ॥७॥पशुरज्ञो ह्यमूर्तोऽपि दुःखस्यैवैष भाजनम् ।चेतनत्वाच्चेतनीयं मनोऽनर्थः स्वयं स्थितः ॥८॥चेत्यनिर्मुक्तता या स्यादचेत्योन्मुखताथवा ।अस्य सा भरितावस्था तां ज्ञात्वा नानुशोचति ॥९॥भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥१०॥तस्य चेत्योन्मुखत्वं तु चेत्यासंभवनं विना ।रोद्धुं न शक्यते दृश्यं चेत्यं शाम्यति वै कथम् ॥११॥अचेत्यचित्स्वरूपं यत्तच्चासंभवनं विना ।क्व स्वरूपोन्मुखत्वं हि केवलं चेत्यरोधतः ॥१२॥श्रीराम उवाच ।यस्मिञ्जीवे हि विज्ञाते न विनश्यति संसृतिः ।व्योमरूपी पशुस्त्वज्ञः स ब्रह्मन्कुत्र कीदृशः ॥१३॥साधुसंगमसच्छास्त्रैः संसारार्णवतारकः ।दृश्यते परमात्मा यः स ब्रह्मन्वद कीदृशः ॥१४॥श्रीवसिष्ठ उवाच ।यदेतच्चेतनं जीवो विशीर्णो जन्मजङ्गले ।एतमात्मानमिच्छन्ति ये तेऽज्ञाः पण्डिता अपि ॥१५॥जीव एव हि संसारश्चेतना दुःखसंततिः ।अस्मिञ्ज्ञाते न विज्ञातं किंचिद्भवति कुत्रचित् ॥१६॥ज्ञायते परमात्मा चेद्राम दुःखस्य संततिः ।क्षयमेति विषावेशशान्ताविव विषूचिका ॥१७॥श्रीराम उवाच ।रूपं कथय मे ब्रह्मन्यथावत्परमात्मनः ।यस्मिन्दृष्टे मनो मोहान्समग्रान्संतरिष्यति ॥१८॥श्रीवसिष्ठ उवाच ।देशाद्देशान्तरं दूरं प्राप्तायाः संविदो वपुः ।निमिषेणैव यन्मध्ये तद्रूपं परमात्मनः ॥१९॥अत्यन्ताभाव एवास्ति संसारस्य यथास्थितेः ।यस्मिन्बोधमहाम्भोधौ तद्रूपं परमात्मनः ॥२०॥द्रष्टृदृश्यक्रमो यत्र स्थितोऽप्यस्तमयं गतः ।यदनाकाशमाकाशं तद्रूपं परमात्मनः ॥२१॥अशून्यमिव यच्छून्यं यस्मिन्शून्यं जगत्स्थितम् ।सर्गौघे सति यच्छून्यं तद्रूपं परमात्मनः ॥२२॥यन्महाचिन्मयमपि बृहत्पाषाणवत्स्थितम् ।जडं वा जडमेवान्तस्तद्रूपं परमात्मनः ॥२३॥सबाह्याभ्यन्तरं येन सर्वं संप्राप्य संगमम् ।स्वरूपसत्तामाप्नोति तद्रूपं परमात्मनः ॥२४॥प्रकाशस्य यथालोकः शून्यत्वं नभसो यथा ।तथेदं संस्थितं यत्र तद्रूपं परमात्मनः ॥२५॥श्रीराम उवाच ।सद्रूपं परमात्मेति कथं नाम हि बुध्यते ।इयतोऽस्य जगन्नाम्नो दृश्यस्यासंभवः कथम् ॥२६॥श्रीवसिष्ठ उवाच ।भ्रमस्य जागतस्यास्य जातस्याकाशवर्णवत् ।अत्यन्ताभावसंबोधे यदि रूढिरलं भवेत् ॥२७॥तज्ज्ञातं ब्रह्मणो रूपं भवेन्नान्येन कर्मणा ।दृश्यात्यन्ताभावतस्तु ऋते नान्या शुभा गतिः ॥२८॥अत्यन्ताभावसंपत्तौ दृश्यस्यास्य यथा स्थितेः ।शिष्यते परमार्थोऽसौ बुध्यते जायते ततः ॥२९॥न विदः प्रतिबिम्बोऽस्ति दृश्याभावादृते क्वचित् ।क्वचिन्नाप्रतिबिम्बेन किलादर्शोऽवतिष्ठते ॥३०॥जगन्नाम्नोऽस्य दृश्यस्य स्वसत्तासंभवं विना ।बुध्यते परमं तत्त्वं न कदाचन केनचित् ॥३१॥श्रीराम उवाच ।इयतो दृश्यजातस्य ब्रह्माण्डस्य जगत्स्थितेः ।मुने कथमसत्तास्ति क्व मेरुः सर्षपोदरे ॥३२॥श्रीवसिष्ठ उवाच ।दिनानि कतिचिद्राम यदि तिष्ठस्यखिन्नधीः ।साधुसंगमसच्छास्त्रपरमस्तदहं क्षणात् ॥३३॥प्रमार्जयामि ते दृश्यं बोधे मृगजलं यथा ।दृश्याभावे द्रष्टृता च शाम्येद्बोधोऽवशिष्यते ॥३४॥द्रष्टृत्वं सति दृश्येऽस्मिन्दृश्यत्वं सत्यथेक्षके ।एकत्वं सति हि द्वित्वे द्वित्वं चैकत्वयोजने ॥३५॥एकाभावे द्वयोरेव सिद्धिर्भवति नात्र हि ।द्वित्वैक्यद्रष्टृदृश्यत्वक्षये सदवशिष्यते ॥३६॥अहंतादिजगदृश्यं सर्वं ते मार्जयाम्यहम् ।अत्यन्ताभावसंवित्त्या मनोमुकुरतो मलम् ॥३७॥नासतो विद्यते भावो नाभावो विद्यते सतः ।यत्तु नास्ति स्वभावेन कः क्लेशस्तस्य मार्जने ॥३८॥जगदादावनुत्पन्नं यच्चेदं दृश्यते ततम् ।तत्स्वात्मन्येव विमले ब्रह्मचित्त्वात्स्वबृंहितम् ॥३९॥जगन्नाम्ना न चोत्पन्नं न चास्ति न च दृश्यते ।हेम्नीव कटकादित्वं किमेतन्मार्जने श्रमः ॥४०॥तथैतद्विस्तरेणाहं वक्ष्यामि बहुयुक्तिभिः ।अबाधितं यथा तत्त्वं स्वयमेवानुभूयते ॥४१॥आदावेव हि नोत्पन्नं यत्तस्येहास्तिता कुतः ।कुतो मरौ जलसरिद्द्वितीयेन्दौ कुतो ग्रहः ॥४२॥यथा वन्ध्यासुतो नास्ति यथा नास्ति मरौ जलम् ।यथा नास्ति नभोयक्षस्तथा नास्ति जगद्भ्रमः ॥४३॥यदिदं दृश्यते राम तद्वह्मैव निरामयम् ।एतत्पुरस्ताद्वक्ष्यामि युक्तितो न गिरैव च ॥४४॥यन्नाम युक्तिभिरिह प्रवदन्ति तज्ज्ञा-स्तत्रावहेलनमयुक्तमुदारबुद्धे ।यो यक्तियुक्तमवमत्य विमूढबुद्धिःकष्टाग्रहो भवति तं विदुरज्ञमेव ॥४५॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे जगदादिदृश्यासत्ताप्रतिज्ञा नाम सप्तमः सर्गः ॥७॥ N/A References : N/A Last Updated : September 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP