उत्पत्तिप्रकरणं - सर्गः ७३
योगवासिष्ठः
श्रीवसिष्ठ उवाच ।
कर्कटीकटुवृत्तान्तं सर्वमाकर्ण्य वासवः ।
नारदं परिपप्रच्छ पुनर्जातकुतूहलः ॥१॥
शक्र उवाच ।
सूचीवृत्तपिशाचत्वं तपसोपार्ज्य तत्तया ।
कर्कट्या हिममर्कट्या के भुक्ता विभवा मुने ॥२॥
श्रीनारद उवाच ।
जीवसूच्याः पिशाचत्वं गतायाः शक्र पेलवम् ।
आसीत्कार्ष्णायसी सूची तस्याः समवलम्बनम् ॥३॥
तत्समालम्बनं त्यक्त्वा व्योमवातरथस्थया ।
प्राणमारुतमार्गेण तया देहप्रविष्टया ॥४॥
सर्वेषामान्त्रतन्त्रीणां स्नायुमेदोवसासृजाम् ।
रन्ध्रेण पक्षिणेवान्तर्निलीनं मलिनात्मनाम् ॥५॥
यस्यां नाड्यां नभोवायुर्माति तत्तामुपेतया ।
तत्र शूलं कृतं स्थूलन्यग्रोधाग्र इवोत्कटम् ॥६॥
तच्छरीरेन्द्रियैस्तानि तथान्यानि बहूनि च ।
भुक्तानि नरमांसानि भोजनान्युचितानि च ॥७॥
सुप्तं विवलितानल्पमालया मुग्धबालया ।
कान्तवक्षःस्थलस्यूतसृष्टपत्रकपोलया ॥८॥
विद्रुतं वीतशोकासु विहङ्गा वनवीथिषु ।
कल्पद्रुमौघपुष्पाग्रद्विगुणाम्भोजपङ्क्तिषु ॥९॥
पीत आमोदमन्दारमकरन्दकणासवः ।
वनेष्वमरशैलानामलिन्यामलिलीलया ॥१०॥
चर्वितानि शवाङ्गानि गृध्र्याऽऽगर्तानि वृद्धया ।
खड्गपृष्ठ्येव संग्रामे वीराङ्गानि जवेद्धया ॥११॥
सर्वाङ्गकोशनाडीषु दिक्ष्विवानिललेखया ।
उड्डीनमवडीनं च काचौघव्योमवीथिषु ॥१२॥
विराडात्महृदि प्राणवातस्पन्दाः स्फुरन्ति तु ।
यथा तथा प्रस्फुरितं प्रतिदेहगृहं तया ॥१३॥
सर्वप्राणिशरीरेषु भान्ति चिच्छक्तयस्तथा ।
दीपप्रभाभासितया गृहिण्येव स्वसद्मसु ॥१४॥
विहृतं रुधिरेष्वन्तर्द्रवशक्त्येव वारिषु ।
अब्धिष्वावर्तवृत्त्येव जठरेषु विवल्गितम् ॥१५॥
सुप्तं मेदःसु शुभ्रेषु शेषाङ्गेष्विव शौरिणा ।
स्वादितश्चाङ्गगन्धोऽन्तः पीतशक्त्यामृतं यथा ॥१६॥
तरुगुल्मौषधादीनां हृदौजान्यनिलश्रिया ।
परिभुक्तान्यशुक्लानि हिंसयोधीकृतानि च ॥१७॥
अथो जीवमयी सूची स्यामिति स्थावरेण सा ।
संपन्ना तापसी सूची चेतना पावनी सिता ॥१८॥
अदृश्यया तया चेह मारुतोग्रतुरंगया ।
अयःसूच्याऽनिलतया वहन्त्या दिक्ष्वरुद्धया ॥१९॥
पतिं भुक्तं विलसितं दत्तं दापितमाहृतम् ।
नर्तितं गीतमुषितमनन्तैः प्राणिदेहकैः ॥२०॥
अदृश्ययाऽशरीरिण्या मनःपवनदेहया ।
कृतमाकाशरूपिण्या न तदस्ति न यत्तया ॥२१॥
मत्तया शक्तयास्वादरसाच्चलितमेतया ।
कालमालानमाश्रित्य करिण्येव विवल्गितम् ॥२२॥
कल्लोलबहुलाधूतदेहदृष्टनदीष्वलम् ।
वेगैर्वेधुर्यकारिण्या मत्तया मकरायितम् ॥२३॥
अशक्तया निगिरितुं मेदोमांसं तथा हृदि ।
नूनं रुदितमर्थाढ्यवृद्धातुरधिया यथा ॥२४॥
अजोष्ट्रमृगहस्त्यश्वसिंहव्याघ्रादिनर्तितम् ।
नर्तक्येव चिरं रङ्गे वलयाङ्गदमङ्गके ॥२५॥
बहिरन्तश्च वायूनामेकत्वमनुजातया ।
गन्धलेखिकयेवान्तः स्थितं दुर्बलया तथा ॥२६॥
मन्त्रौषधितपोदानदेवपूजादिभिर्हता ।
बहिर्गिरिनदीतुङ्गतरङ्गवदुपद्रुता ॥२७॥
दीपप्रभेवाविज्ञातगतिर्गत्याशु लीयते ।
अयःसूच्यां मातरीव तत्र निर्वृतिमेति सा ॥२८॥
स्ववासनानुसारेण सर्व आस्पदमीहते ।
सूचित्वमेव राक्षस्या सूचीत्वेनास्पदीकृतम् ॥२९॥
सर्वा विहृत्यापि दिशः स्वमेवास्पदमापदि ।
जीवसूची लोहसूचीमिवायाति जडो जनः ॥३०॥
एवं प्रयतमाना सा विहरन्ती दिशो दश ।
मानसीं तृप्तिमायाता न शारीरीं कदाचन ॥३१॥
सति धर्मिणि धर्मा हि संभवन्तीह नासति ।
शरीरं विद्यते यस्य तस्य तत्किल तृप्यति ॥३२॥
अथ तृप्तस्य देहस्य स्मरणात्प्राक्तनस्य सा ।
बभूव दुःखितस्वान्ता पूर्णोदरसुखार्थिनी ॥३३॥
ततः प्राक्तनदेहार्थं करिष्ये विपुलं तपः ।
इति संचिन्त्य तपसे देशं निर्णीय सात्मना ॥३४॥
विवेशाकाशगृध्रस्य हृदयं तरुणस्य सा ।
प्राणमारुतमार्गेण खं खगीव बिलेशया ॥३५॥
गृध्रः स्वामयसूचित्वं कश्चिदेतत्समाश्रितः ।
नितान्तप्रेरितः सूच्या कर्तुं मन उपाददे ॥३६॥
सूचीमादाय गृध्रोऽसौ ययौ तच्चिन्तितं गिरिम् ।
अन्तःसूचिपिशाच्यन्ते नुन्नोऽब्द इव वायुना ॥३७॥
तत्राजने महारण्ये स्थापयामास तामसौ ।
सर्वसंकल्परहिते पदे योगीव चेतनाम् ॥३८॥
एकेनैवाशु सा तेन पादप्रान्तेन सुस्थिता ।
संप्रतिष्ठापितेवाद्रिमूर्ध्नि गृध्रेण देवता ॥३९॥
रजःकणगृहस्थाणुशिरस्येकेन सानुना ।
पादेनातिष्ठदुद्ग्रीवं शिखीव गिरिमूर्धनि ॥४०॥
उत्थितां स्थापितां सूचीं गृध्रेण जीवसूचिका ।
दृष्ट्वा बहिर्विनिर्गन्तुं खगदेहात्प्रचक्रमे ॥४१॥
खगदेहान्निर्जगाम सूची प्रोन्मुखचेतना ।
पवनाद्गन्धलेखेव घ्राणवातलवोन्मुखी ॥४२॥
जगाम गृध्रः स्वं देशं भारं त्यक्त्वेव भारिकः ।
निवृत्तव्याधिरिव स बभूवान्तरनाकुलः ॥४३॥
अतः सूचिस्तयाधारस्तपसे परिकल्पिता ।
दृढः सुसदृशोऽर्थानां विनियोगो हि राजते ॥४४॥
न ह्यमूर्तस्य सिध्यन्ति विनाधारं किल क्रियाः ।
इत्याधारैकनिष्ठत्वमाश्रित्यासौ तपःस्थिता ॥४५॥
जीवसूची लोहसूचीं पिशाची शिंशपामिव ।
सर्वतो वलयामास वात्येवामोदलेखिकाम् ॥४६॥
ततस्ततः प्रभृत्येषा सूची दीर्घतपस्विनी ।
अरण्यान्यां स्थिता शक्र तत्र वर्षगणान्बहून् ॥४७॥
तस्या वरार्थं यत्नं त्वं कुरु कर्तव्यकोविद ।
चिरेण संभृतं लोकमलं दग्धुं हि तत्तपः ॥४८॥
श्रीवसिष्ठ उवाच ।
इति नारदतः श्रुत्वा शक्रः सूचीनिरीक्षणे ।
मारुतं प्रेषयामास दशदिङ्मण्डलान्यथ ॥४९॥
जगामाथ मरुत्संविदात्मना तामवेक्षितुम् ।
अथामुच्य नभोमार्गं विचचार त्वरान्वितः ॥५०॥
सा तस्य संवित्क्षिप्रार्धेनैव सर्वगता सती ।
परमार्चिरिवाविघ्नं सहसैव ददर्श ह ॥५१॥
भूमेः सप्तसमुद्रान्ते निबद्धां विपुलस्थलीम् ।
लोकालोकाद्रिरसनां ततो मणिमयोपमम् ॥५२॥
स्वादूदकाब्धिवलयं सकोटरककुब्गणम् ।
पुष्करद्वीपवलयं तदन्तर्गिरिमण्डले ॥५३॥
मदिराम्भोधिवलयं तज्जलेचरसंस्थितम् ।
गोमेदद्वीपकटकं तन्मध्यविषयव्रजम् ॥५४॥
इक्षूदकाब्धिपरिखं शान्तं गिरिगणान्तरम् ।
क्रौञ्चद्वीपोर्वरापीठं शान्तं गतगिरिक्रमम् ॥५५॥
क्षीराब्धिमुक्तावलयं समध्यगतनायकम् ।
श्वेताख्यद्वीपवलयं सभूतप्रविभागकम् ॥५६॥
ततो घृतोदवलयस्वान्तस्थपुरमन्दिरम् ।
कुशद्वीपवृतिव्याप्तं समहाशैलकोटरम् ॥५७॥
दध्यम्भोराशिरशनासान्ताम्बरपुरोदरम् ।
शाकद्वीपोर्वराकारं सान्तस्थविषयान्तरम् ॥५८॥
क्षाराम्भोराशिपरिधिं सान्तस्थविषयान्तरम् ।
जम्बूद्वीपे महामेरुं कुलपर्वतसंकुलम् ॥५९॥
वातस्कन्धेभ्य एवादौ पतितानिलवेदना ।
क्रमेणानेन पर्यन्ते तेनैव प्रसृतोऽञ्जसा ॥६०॥
वायुरालोकयन्नद्धा जम्बूद्वीपं निरीक्ष्य च ।
तत्प्राप हिमवच्छृङ्गं यत्र सूची तपस्विनी ॥६१॥
शृङ्गमूर्ध्नि महत्युग्रे सारण्यानीमवाप ताम् ।
द्वितीयाकाशविततां वर्जितां प्राणिकर्मभिः ॥६२॥
असंजाततृणव्यूहां निकटत्वाद्विवस्वतः ।
रजोमयीमेव ततां संसाररचनामिव ॥६३॥
मृगतृष्णानदीसार्थपूरणीयाब्धितां गताम् ।
शक्रकोदण्डसंकाशमृगतृष्णासरिच्छताम् ॥६४॥
अमितानन्तपर्यन्तां लोकपालेक्षितैरपि ।
केवलं पवनस्पन्दप्रवहद्धूलिकुण्डलाम् ॥६५॥
सूर्यांशुकुङ्कुमालिप्तां लग्नचन्द्रांशुचन्दनाम् ।
विलासिनीमिव व्योम्नो वातसूत्कारपायिनीम् ॥६६॥
सप्तद्वीपसमुद्रमुद्रणसमुच्छन्नैकदेशाश्रयं
भूपीठं परितो विहृत्य पवनो दीर्घाध्वना जर्जरः ।
तां प्राप्योग्रगिरिस्थलीमलिवपुर्व्योमाङ्गलग्नामिव
व्याप्तानन्तदिगन्तपूरकबृहद्देहो विशश्राम सः ॥६७॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे सूचीतपोवर्णनं नाम त्रिसप्ततितमः सर्गः ॥७३॥
N/A
References : N/A
Last Updated : September 13, 2021
TOP